पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तिष्ठेदानीं न मे जीवन्प्रतियास्यसि दुर्मते || अद्य त्वां निशितैर्वाणै: प्रेपयामि यमक्षयम् ॥ १४ ॥ ततः शरासनं गृह्य सायकांच नराधिपः || रणाय निर्ययौ क्रुद्धः संवर्तो मार्गमावृणोत् ।। १५ ।। सोब्रवीत्स्नेहसंयुक्तं मरुत्तं तं महानृषिः ॥ श्रोतव्यं यदि मद्वाक्यं संप्रहारो न ते क्षमः ॥ १६ ॥ माहेश्वरमिदं सत्रमलमाप्तं कुलं दहेत् ॥ १७ ॥ दीक्षितस्य कुतो युद्धं क्रोधित्वं दीक्षिते कुतः || संशयच जये नित्यं राक्षसच सुदुर्जयः ॥ १८ ॥ स निवृत्तो गुरोर्वाक्यान्मरुत्तः पृथिवीपतिः ॥ विसृज्य सशरं चापं स्वस्थो मखमुखोऽभवत् ||१९|| ततस्तं निर्जितं मत्वा घोषयामास वै शुकः || रावणो जयतीत्युच्चैईर्षान्नादं विमुक्तवान् ॥ २० ॥ तान्मक्षयित्वा तत्रस्थान्महर्षीन्यज्ञमागतान् ॥ वितृप्तो रुधिरैस्तेषां पुनः संप्रययौ महीम् ॥ २१ ॥ रावणे तु गते देवाः सेन्द्राश्चैव दिवौकसः ॥ ततः स्त्रां योनिमासाद्य तानि सवानि चाब्रुवन् ||२२|| हर्षात्तदाऽब्रवीदिन्द्रो मयूरं नीलबर्हिणम् || प्रीतोसि तव धर्मज्ञ भुजङ्गाद्धि न ते भयम् ॥ २३ ॥ इंदं नेत्र सहस्रं तु यवद्र्हे भविष्यति ॥ वर्षमाणे मयि मुदं प्राप्स्य से प्रीतिलक्षणाम् ॥ एवमिन्द्रो वरं प्रादान्मयूरस्य सुरेश्वरः ॥ २४ ॥ नीलाः किल पुरा व मयूराणां नराधिप || सुराधिपाद्वरं प्राप्य गताः सर्वेऽपि बर्हिणः ॥ २५ ॥ धर्मराजोऽब्रवीद्राम प्राग्वंशे वायसं स्थितम् || पक्षिस्तवासि सुप्रीतः प्रीतस्य वचनं शृणु ॥ २६ ॥ यथाऽन्यैर्विविधै रोगैः पीड्यन्ते प्राणिनो मया ॥ ते न ते प्रभविष्यन्ति मयि प्रीते न संशयः ||२७|| मृत्युतस्ते भयं नास्ति वरान्मम विहंगम || यावत्वां न वधिष्यन्ति नरास्तावद्भविष्यसि ॥ २८ ॥ एते मद्विषयस्था वै मानवाः क्षुद्भयार्दिताः ॥ त्वयि भुक्ते तु तृप्तास्ते भविष्यन्ति सबान्धवाः ॥२९॥ वरुणस्त्वत्रवीद्धंस गङ्गातोयविहारिणम् ॥ श्रूयतां प्रीतिसंयुक्तं वचः पत्ररथेश्वर ॥ ३० ॥ वर्णो मनोहरः सौम्य चन्द्रमण्डलसन्निभः ॥ भविष्यति तवोदग्रः शुद्धफेनसमप्रभः ॥ ३१ ॥ मैच्छरीरं समासाद्य कान्तो नित्यं भविष्यसि || प्राप्स्यसे चातुलां प्रीतिमेतन्मे प्रीतिलक्षणम् ||३२|| लब्धवानिति श्रुतपूर्वं । इदानीं यादृशं भ्रातृविजयरू- | लक्षणां मत्प्रीतिचिह्नभूतां ॥ २४ ॥ नीलाः किलेति । पमधर्म भाषसे तन श्रुतपूर्वमित्यर्थः ॥ १३-१४ नेत्ररहिता इत्यर्थः ॥ २५ ॥ प्राग्वंशे यज्ञशालादा- मार्गमावृणोत् । निर्यातस्येति शेषः ॥ १५ ॥ महानृषिः । रुणि ॥ २६ ॥ ते तव । ते रोगाः । न प्रभविष्यन्ति । तत्पुरोहित इत्यर्थः ॥ १६–२१ ॥ स्वां योनिं स्वस्त्र - प्रीते इति च्छेदः ॥ २७ ॥ “जातस्य हि ध्रुवो मृत्युः " प्रकृतिमासाद्य | तानि सत्त्वानि । प्राक्कार्यवशगृहीत इत्यशक्यपरिहारत्वादाह - यावत्वामित्यादि |॥ २८ ॥ मूर्तिसजातीयप्राणिनइत्यर्थः ॥ २२–२३ || प्रीति मद्विषयस्था : यमलोकस्थाः ॥ २९–३१ ॥ मच्छरीरं ति० केवलं पूज्यपूजारहितं | कंधर्मप्राक्चरित्वा वरंलब्धवानसि । तथाविधोपिकश्चिद्धर्म इति चेन्नश्रुतपूर्वइत्याह – श्रुतेति । याह- शंभाषसेज्येष्ठपीडा रूपंसमाचारं ॥ १३ ॥ ति० मार्गमावृणोत् रणायागतस्यरावणस्य ॥ १५ ॥ ति० महानृषिःसंवर्तः ॥ १६ ॥ ति० माहेश्वरं तद्दैवयं सत्रं यागः ॥ १७ ॥ ति० मखमुखः मखसमाध्युन्मुखः ॥ १९ ॥ ति० वितृप्तः विशेषेणतृप्तः ॥ २१ ॥ शिo इदंमदीयंयन्नेत्र सहस्रं तत्ते बर्हे भविष्यति ॥ २४ ॥ स० मयूराणांबर्हा: पूर्व केवलंनीलाः निर्देत्राकाराः । वरं प्राप्यनयनसहस्राकारंगताः प्राप्ताः । सर्वेपि तज्जातीयाः ॥ शि० मयूराणांबर्हा: पुरानीलएव नेत्ररहिता इत्यर्थः । सुराधिपाद्वरं प्राप्यतुसर्वेमयूराः बर्हिणः प्रशस्तबर्हविशिष्टाः नेत्रयुक्तपक्षवन्तोबभूवुरियर्थः ॥२५॥ ति० प्राग्वंशे प्राग्धविगहे ॥ स० प्राग्वंशे तन्नामकयज्ञशालाभागे ॥ २६ ॥ स० मृत्युतः तन्नामकमद्दूतात् । भविष्यसि जीविष्यसि ॥ २८ ॥ स० मद्विषयस्थाः प्रेय [ पा० ] १ क. – घ. धर्मज्ञउपकाराद्विहंगम. २ क. – घ. ममनेत्र. ३ क. - घ. सर्वे विचित्रतां. ४ च. छ. यत्प्रभावं. समासाय.