पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ उत्पन्ना मैथिलकुले जनकस्य महात्मनः ॥ सीतोत्पन्ना तु सीतेति मानुषैः पुनरुच्यते ॥ ४४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तदशः सर्गः ॥ १७ ॥ अष्टादशः सर्गः ॥ १८ ॥ कदाचिदिन्द्रादिदेवगणमण्डितं मरुत्तराजय ज्ञवाटप्रविष्टेरावणे तद्भयादिन्द्रादि देवैर्मयूरवायसादिरूप परिग्रहः ॥ १ ॥ रावणेनयुद्धायसमाहूतेमरुत्ते युद्धसंनद्धे संवर्तनाम्नापुरोधसा दीक्षितस्ययुद्धानौचित्योत्तया तत्प्रतिनिवर्तनम् ॥ २ ॥ निवृ- त्तेतस्मिनावणेन जयघोषणपूर्वकं निगमनम् ॥ ३ ॥ ततोनिज निजरूपधारिभिरिन्द्रादिभिः परितोषान्मयूरादीनां नानावर- प्रदानम् ॥ ४ ॥ प्रविष्टायां हुताशं तु वेदवत्यां स रावणः ॥ पुष्पकं तु समारुह्य परिचऋाम मेदिनीम् ॥ १ ॥ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः || उशीरबीजमासाद्य ददर्श स तु रावणः ॥ २ ॥ संवर्तो नाम ब्रह्मर्षिः साक्षाद्धाता बृहस्पतेः ॥ याजयामास धर्मज्ञः सर्वैर्देवगणैर्वृतः ॥ ३ ॥ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् || तिर्यग्योनिं समाविष्टास्तस्य दर्शनभीरवः ॥ ४ ॥ इन्द्रो मयूरः संवृत्तो धर्मराजस्तु वायसः || कुकलासो धनाध्यक्षो हंसश्च वरुणोऽभवत् ॥ ५ ॥ अन्येष्वपि गतेष्वेवं देवेष्वरिनिषूदन | रावणः प्राविशद्यज्ञं सारमेय इवाशुचिः ॥ ६ तं च राजा समासाद्य रावणो राक्षसाधिपः ॥ ग्राह युद्धं प्रयच्छेति निर्जितोस्मीति वा वद ॥ ७ ॥ ततो मरुत्तो नृपतिः को भवानित्युवाच तम् || अपहासं ततो मुक्त्वा रावणो वाक्यमब्रवीत् ॥ ८ ॥ अकुतूहलभावेन प्रीतोसि तव पार्थिव || धनदस्यानुजं यो मां नावगच्छसि रावणम् ॥ ९ ॥ त्रिषु लोकेषु कोऽन्योस्ति यो न जानाति मे बलम् ॥ भ्रातरं येन निर्जित्य विमानमिदमाहृतम् || ततो मरुत्तः स नृपस्तं रावणमथाब्रवीत् ॥ १० ॥ धन्यः खलु भवान्येन ज्येष्ठो भ्राता रणे जितः ॥ न त्वया सदृशः श्लाघ्यस्त्रिषु लोकेषु विद्यते ॥११॥ नाधर्मसहितं श्लाघ्यं तेल्लोकं प्रतिसंहितम् || कर्म दौरात्म्यकं कृत्वा श्लाघ्य से आतुनिर्जयात् ॥१२॥ कं त्वं प्राकेवलं धर्म चरित्या लब्धवान्वरम् || श्रुतपूर्व हि न मया भाषसे यादृशं स्वयम् ॥ १३ ॥ व्यत्यय आर्षः ॥ ४२–४४ ॥ इति श्रीगोविन्दराज - विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- काण्डव्याख्याने सप्तदशः सर्गः ॥ १७ ॥ उशीरबी जमिति देशनाम ||२८|| अकुतूहलभा वेनमां दृष्ट्वाऽप्यविस्मयनिर्भयानादरभावेनेत्यर्थः । यो नावगच्छसि तस्य तवेत्यन्वयः ॥ ९ – १२ ॥ प्राक् | पूर्व | त्वं केवलं धर्म दोषहीनं धर्मे चरित्वा किमपि वरं स्तृतम् । रामप्रसादाल्लभतेमुच्यते सर्वपातकात् । इति । उपसंहरति एषेति । आसीत्कृतेयुगेइत्यनन्तरं त्रेतायुगमिति । जनकस्यो- त्पन्ना । न्यायतः पुत्री लेनोत्पन्नेत्यर्थः ॥ ४३ ॥ इतिसप्तदशः सर्गः ॥ १७ ॥ स० मरुत्तः “ मरुतःपरिवेष्टारोमरुत्तस्यावसन्गृहे " इतिश्रुतिप्रसिद्धः ॥ २ ॥ ति० देवगणैर्वृतः अपरोक्षतयाहविर्भागार्थ- मवस्थितै रितिशेषः ॥ ३ ॥ ति० अन्येष्वपिदेवेष्वेवंगतेषु तिर्यग्यो निस्वरूपंगतेष्वित्यर्थः ॥ स० न श्यामशबलादिवदयमि- त्याह - अशुचिरिति ॥ ६ ॥ ति० मुक्त्वा कृत्वा ॥ ७ ॥ ति० कोन्योस्ति नकोपि । सर्वेपिजानन्तीत्यर्थः ॥ १० ॥ ति० अथ मरुत्तोव्याजस्तुत्याह - धन्यइति । स० ज्येष्ठो भ्रातायेनरणेजितः पराजितः । अतस्त्वंधन्यइत्युपजहासमरुत्तः ॥ ११ ॥ ति० लोकेषु विद्यतेइत्यनन्तरं 'नाधर्मसहितंश्लाघ्यं ' इत्येकः श्लोकः प्रक्षिप्तः । उक्तार्थत्वादितिकतकः ॥ १२ [ पा० ] १ क. घ. ज. तांतांयोर्निसमापन्नास्तस्यधर्षणभीरवः २ ख ग घ. देवेष्वसुरसूदन. क. ज. रावणः सुरसू दनः ३ क. - उ. राजानमासाथ. ४ ग. ङ. झ ञ ट अवहासं. ५ घ. नलोभप्रतिसंहितं, 1