पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४५ इत्युक्तवति तमिस्तु वेदवत्यथ साऽब्रवीत् । मामैवमिति सा कन्या तमुवाच निशाचरम् ॥२६॥ त्रैलोक्याधिपतिं विष्णु सर्वलोकनमस्कृतम् । त्वदृते राक्षसेन्द्रान्यः कोऽवमन्येत बुद्धिमान् ॥२७॥ एवमुक्तस्तया तत्र वेदवत्या निशाचरः । मूर्धजेषु तदा कन्यां कराग्रेण परामृशत् । २८ ॥ ततो वेदवती कुद्धा केशान्हत्तेन साऽच्छिनत् । असित्वा करतस्याः केशांश्छिन्नांस्तदाऽकरोत् २९ सा ज्वलन्तीव रोषेण दहन्तीव निशाचरम् । उवाचाझिं समाधाय मरणाय कृतत्वरा ।। ३० ।। धर्षितायास्त्वयाऽनार्य न मे जीवितमिष्यते ।। रक्षस्तस्मात्प्रवेक्ष्यामि पश्यतस्ते हुताशनम् ।। ३१ । यस्मात्तु धर्पिता चाहं त्वया पापात्मना वने । तस्मात्तव वधार्थ हि सैमुत्पत्स्ये ह्यहं पुनः ॥ ३२ ॥ न हि शक्यं स्त्रिया हन्तुं पुरुषः पापनिश्चयः ॥ शापे त्वयि मयोत्सृष्ट तपसश्च व्ययो भवेत् ॥३३॥ यदि त्वस्ति मया किंचित्कृतं दत्तं हुतं तथा ॥ तैस्मात्त्वयोनिजा साध्वी भवेयं धर्मिणः सुता ॥३४॥ एवमुक्त्वा प्रविष्टा सा ज्वलितं जातवेदसम् । पपात च दिवो दिव्या पुष्पवृष्टिः समन्ततः ॥३५॥ पुनरेव समुद्धता पदे पद्मसमप्रभा ॥ तस्मादपि पुनः प्राप्ता पूर्ववत्तेन रक्षसा ॥ ३६ ॥ कन्यां कमलगभभां प्रगृह्य खगृहं ययौ ॥ प्रगृह्य रावणस्त्वेतां दर्शयामास मन्त्रिणे ॥ ३७ ॥ लक्षणज्ञो निरीक्ष्यैव रावणं चैवमब्रवीत् । गृहस्थैपा हि सुश्रोणी त्वद्वधायैव दृश्यते ।। ३८ ।। एतच्छुत्वाऽर्णवे राम तां प्रचिक्षेप रावणः ।। सा चैव क्षितिमासाद्य यज्ञायतनमध्यगा । राज्ञो हलमुखोत्कृष्टा पुनरप्युत्थिता सती ।। ३९ ।। सैपा जनकराजस्य प्रसूता तनया प्रभो । तव भार्या महाबाहो विष्णुस्त्वं हि सनातनः ॥ ४० ॥ पूर्व क्रोधाहितः शत्रुर्ययाऽसौ निहतस्तथा । उपाश्रयित्वा शैलाभस्तव वीर्यममानुषम् । एवमेषा महाभागा मत्येंघूत्पत्स्यते पुनः ॥ क्षेत्रे हँलमुखोत्कृष्ट वेद्यामन्निशिखोपमा ।। ४२ ।। एषा वेदवती नाम पूर्वेमासीत्कृते युगे । त्रेतायुगमनुप्राप्य वधार्थ तस्य रक्षसः ॥ ४३ ।। बालयूनोः ।। २२-४० । वेदवत्या यः शत्रुः | यथाप्रतिज्ञ पतिं च प्राप्तया पतिभूतस्य तव मानुषं क्रोधाहितः सोसौ शैलाभः शत्रू रावणः पुनस्तथैव | वीर्यमुपाश्रयित्वा अद्य निहतः ॥ ४१ ॥ उत्पत्स्येयम् । स० केशान् रावणगृहीतखकेशान् । हस्तेनकेशच्छेदनमसंभावितमित्यतोवक्ति असिरिति । योगसामथ्र्यादितिभावः ॥ २९ ॥ स० खयाधर्षितायाः केशग्रहणेनबलात्कृतायाः । नेष्यते नापेक्ष्यते । हेरक्षः ॥ ३१ ॥ ति० पुनःसमुत्पत्स्यति समुत्पत्स्येइत्यर्थः ॥ ३२ ॥ ति० व्ययः ब्रह्मवरदानादिदानींतवमरणाभावेनवृथाव्ययइत्यर्थः ॥ स० किंजन्मान्तरानुधावनेनात्रैवमांलखंजहीत्यत आह-नहीति । हन्तुं युद्धेन ॥ तर्हिशापेनहन्यतामित्यत आह-शापइति ॥ शि० स्त्रियाहन्तुंनशक्यः स्पर्शशङ्कया । एते नोपायतस्खांघातयिष्यामीतिसूचितं ॥ ३३ ॥ स० हुतं उत्तमस्त्रीखाद्युक्तं ॥ ३४ ॥ ति० अत्रापिपुष्पवर्षे रावणनाशनिश्चय जसंतोषात् ॥ ३५ ॥ ति० सैषा कृतरावणवधप्रतिज्ञा वेदवत्येवेत्यर्थः । विष्णुस्त्वमिति । अनेनसीतायालक्ष्मीत्वंस्फुटमेवोक्तं । तदुक्तंपराशरेण–‘राघवखेऽभवत्सीतारुक्मिणीकृष्णजन्मनि' इति ॥ ४० ॥ ति० यथावेदवल्या पूर्वेतदवतारेक्रोधहतोयःशत्रुः सोसौशैलाभः पुनस्तयैवयथाप्रतिज्ञखांपतिंप्राप्य पतिभूतस्यतवामानुषंवीर्य उपाश्रयित्वा उपाश्रित्य । निहतः । अनेन सीतैवरावण वधेमुख्यंकारणं । रामेतुहन्तृत्वमारोपितमितिसूचितं ॥ ४१ ॥ ति० भाविकल्पेष्वप्येवमेवावतारादिकल्पेनकल्पोव्याख्येयइति न्यायादित्याह--एवमिति । एषामहाभागा एवमेव मलेषुभाविषु । हलमुखोत्कृष्टक्षेत्रे पुनःपुनरुत्पत्स्यते । उक्तप्रयोजनायेति शेषः । उत्पत्तिरत्राविर्भावः । एतेनभगवतोपितथाऽवतारःसूचितएव ॥ ४२ ॥ ति० सीताविर्भावोवैशाखेशुक्रुनवम्यामितिमहा सुन्दरीतत्रेउत्तं । वैशाखेशुक्लनवम्यामुत्पन्नासाऽवनीसुता । सीतामुखात्सासंजातापालिताजनकेनच । रामपत्रीमहाभागासीता नामेतिविश्रुता । तस्मिन्दिनेरामभक्ताःश्रद्धाभक्तिसमन्विताः । महोत्सवपराःसर्वेवित्तशाठ्यविवर्जिताः । गीतवादित्रनृत्तायैराम भक्तिपरायणाः । वैशाखसितनवम्यांपुराणपठनंतथा । लक्ष्मीसूतंपठंस्तत्रयातिरामंसनातनं । सौभाग्यंधनधान्यंचपुत्रसंततिवि [ पा० ] १ क.-घ. ज. चाहमपापाचाप्यनाथवत्. २ झ. समुत्पत्स्यत्यहंपुनः, ३ क.-घ. ज. तस्मादयोनिजाभूत्वा भवेयं. ४ क. ग.-ज. ज. ट. पूर्वेक्रोधहतः. ५ क.-घ. हलमुखग्रस्ते