पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ कैस्यासि किमिदं भद्रे कश्च भर्ता वरानने । येन संभुज्यसे भीरु स नरः पुण्यभाग्भुवि ॥ पृच्छतः शंस मे सर्व कस्य हेतोः पैरिश्रमः ॥ ६ ॥ एवमुक्ता तु सा कन्या रावणेन यशखिनी । अब्रवीद्विधिवत्कृत्वा तस्यातिथ्यं तपोधना ।। ७ ।। कुशध्वजो मम पिता ब्रह्मर्षिरमितप्रभः ॥ बृहस्पतिसुतः श्रीमान्बुछद्या तुल्यो बृहस्पतेः ।। ८ ।। तस्याहं कुर्वतो नित्यं वेदाभ्यासं महात्मनः ।। संभूय वाङमयी कन्या नाम्रा वेदवती स्मृता ॥ ९ ॥ ततो देवाः सगन्धर्वा यक्षराक्षसपन्नगा । तेऽपि गत्वा हि पितरं वरणं रोचयन्ति मे ।। १० ।। न च मां स पिता तेभ्यो दत्तवात्राक्षसर्षभ ॥ कारणं तद्वदिष्यामि निशाचर निशामय ।। ११ ।। पितुस्तु मम जामाता विष्णुः किल सुरेश्वरः ॥ अभिप्रेतत्रिलोकेशस्तस्मान्नान्यस्य मे पिता ॥ १२ ॥ दातुमिच्छति तस्मै तु तच्छुत्वा बलदर्पितः । दैम्भुनर्नाम ततो राजा दैत्यानां कुपितोऽभवत् ॥१३ ॥ तेन रात्रौ शयानो मे पिता पापेन हिंसितः ।। १४ ।। ततो मे जननी दीना तच्छरीरं पितुर्मम ॥ परिष्वज्य महाभागा प्रविष्टा हव्यवाहनम् ॥ १५ ॥ ततो मनोरथं सत्यं पितुर्नारायणं प्रति । कैरोमीति तमेवाहं हृदयेन समुद्वहे।। १६ ।। [मृतं च पितरं दृष्ट्रा वृथा कामं महाव्रतम् ॥ तस्य प्रेतगतस्यापि कुर्वन्ती काङ्कितं पितुः ॥१७॥] इति प्रतिज्ञामारुह्य चरामि विपुलं तपः । एतत्ते सर्वमाख्यातं मया राक्षसपुङ्गव ॥ १८ ॥ नारायणो मम पतिर्न त्वन्यः पुरुषोत्तमात् ॥ औश्रये नियमं घोरं नारायणपरीप्सया ।। १९ ।। विज्ञातस्त्वं हि मे राजन्गच्छ पौलस्त्यनन्दन । जानामि तपसा सर्वं त्रैलोक्ये यद्धि वर्तते ।॥२०॥ सोब्रवीद्रावणो भूयस्तां कन्यां सुमहाव्रताम् । अवरुह्य विमानाग्रात्कन्दर्पशरपीडितः ॥ २१ ॥ अवलिप्तासि सुश्रोणि यस्यास्ते मतिरीदृशी । वृद्धानां मृगशावाक्षि भ्राजते पुण्यसंचयः ॥ २२ ॥ त्वं सर्वगुणसंपन्ना नाहँसे वतुमीदृशम् ॥ त्रैलोक्यसुन्दरी भीरु यौवनं ते' निवर्तते ॥ २३ ॥ अहं लङ्कापतिर्भद्रे दशग्रीव इति श्रुतः । तस्य मे भव भार्या त्वं भुङ्क्ष्व भोगैन्यथासुखम् ॥२४॥ कश्च तावदसौ यं त्वं विष्णुरित्यभिभाषसे ॥ वीर्येण तपसा चैव भोगेन च बलेन च । न मया स समो भद्रे यं त्वं कामयसेऽङ्गने ॥ २५ ॥ इदं यौवनप्रतिकूलक्रिया ।। ४-२१॥ वृद्धानामिति। | पुण्यसंचयः पुण्यसंग्रहणं वृद्धानामेव भ्राजते नतु शि० एषनिर्णयः निर्गतः अस्माभिज्ञतः ॥ ५ ॥ स० कस्यासि पुत्रीतिशेषः । इदंकिं तपश्चरणंकिमर्थ । तवभर्ताकश्च । सनरः खद्रोगवान् । परिश्रमः कायशः । ति० कस्यहेतोः किंफलनिमित्तं ॥ ६ ॥ ति० वेदाभ्यासंकुर्वतोमहात्मनस्तस्यसकाशात् वाङमयी वाङ्मयवेदमूर्तिः कन्याहंसंभूता । अतएवाहंपित्रानान्नावेदवतीतिस्मृता । भगवतःशक्तिर्लक्ष्मीरेव रावणवधायरावणं शनुमत्रावतीर्णा । अस्यावाह्यमयीखंसार्वात्म्यात् । अतएववक्ष्यतिपितुर्मेविष्णुर्जामाताभिप्रेतइति ॥ ९ ॥ ति० तेदेवादयोवरणं रोचयन्ति । रुचिःक्रियासामान्ये । वरणंकुर्वन्तिस्मेत्यर्थः ॥ १० ॥ ति० अन्यस्य अन्यसै ॥ १२ ॥ ति० नारायणं नारस्य जीवसमूहस्यायनं नारा आपोऽयर्नयस्येतिवा । तंप्रतिगतंपितुर्मनोरथंसत्यंकरोमीतीच्छयातंनारायणमेवहृदयेनोद्वहे ॥ १६ ॥ ति० इतिप्रतिज्ञां प्रागुत्तेच्छाविषयविषयां । आरुह्य कृत्वा ॥१८॥ति० कथंविज्ञातस्तत्राह-जानामीति ॥२०॥ ति० कवेति । मदपेक्षयात्यल्पवीर्यादियुक्तः । स० यंत्वंविष्णुरित्यभिभाषसे यंचलखंकामयसे समयानसमइत्यन्वयान्नपौनरुक्तयं ॥ ॥ २५ [पा०] १ .-घ. दुहिताभद्रेकोवाभर्तानरस्तव. २ क.-घ. ज. . ३ .-घ. ज. श्रमस्तव. ४ क. ख. ग ककेनक ड.--ट. संभूता. ५ क. ख. घ. झ. अ. ट. शंभुर्नाम. ६ क. ख. ग. ज. करोमीतिममेच्छाचहृदयेसाधुविष्ठिता. ७ अयं श्लोकः च. छ. पाठयोर्दश्यते. ८ क.-घ. ज. आश्रितांविद्धिमांधर्मेनारायणपतीच्छया . ९ क. ख, च. छ. धर्मसंग्रहः ग. घ. ज. धर्मसंचयः. १० क.--ट, तेऽतिवर्तते. ११ क .-घ. ज. भोगान्यथेप्सितान् ,