पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १७] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । एवमुक्तस्ततस्तेन रावणेन स शैकरः ॥ ददौ खङ्गं महादीप्त चन्द्रहासमिति श्रुतम् ।। आयुषश्चावशेषं च स्थित्वा भूतपतिस्तदा ।। ४९ ।। दत्वोवाच ततः शंभुनविज्ञेयमिदं त्वया ॥ अवज्ञातं यदि हि ते मामेवैष्यत्यसंशयः ।। ५० ।। एवं महेश्वरेणैव कृतनामा स रावणः । अभिवाद्य महादेवमारुरोहाथ पुष्पकम् ।। ५१ ।। ततो महीतले राम परिचक्राम रावणः ।। क्षत्रियान्सुमहावीर्यान्बाधमान इतस्ततः ।। ५२ ।। केचित्तेजस्विनः शूराः क्षत्रिया युद्धदुर्मदाः ॥ तच्छासनमकुर्वन्तो विनेशुः सपरिच्छदाः ।। ५३ ।। अपरे दुर्जयं रक्षो जानन्तः प्राज्ञसंमताः । जिताः स्म इत्यभाषन्त राक्षसं बलदर्पितम् ।। ५४ ॥ [ऐएवं दर्पबलोत्सिक्तो रावणो लोकरावणः । प्रतापावनती कुर्वन्नाष्ट्राणि विचचारह ॥ ५५ ।।] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे षोडशः सर्गः ॥ १६ ॥ सप्तदशः सर्गः ॥ १७ ॥ ४३ कदाचनहिमवत्सानौ तपस्यन्तींवेद्वतींनामकांचनकाञ्चनप्रभांकन्यामवलोकितवतारावणे न ताँप्रति तस्यास्तपःप्रयोज नादिप्रश्नः ॥ १ ॥ तया स्वस्यश्रीनारायणभार्याभावस्य स्वतपःप्रयोजनस्वाभिधानम् ॥ २ । रावणेन स्वभार्यात्वस्वीकरणं याचितया तया तदनङ्गीकरणे रावणेन बलात्तत्केशपाशपरामर्शनम् ॥ ३ ॥ तया स्वतपोमहिन्नाऽसीभूतेनस्वहस्तेन रावणक परामृष्टस्वकेशपाशच्छेदनपूर्वकं तंप्रति जन्मान्तरेस्वस्यतद्वधहेतूभवनप्रतिज्ञानपूर्वकमद्रौप्रवेशनम् ॥ ४ ॥ अगस्त्येनरामंप्रति तस्याएव पुनःसीतात्वेनप्रादुर्भावाभिधानम् ॥ ५ ॥ अथ राजन्महाबाहुर्विचरन्स महीतले । हिमवत्सानुमासाद्य परिचक्राम रावणः ॥ १ ॥ तत्रापश्यत्स वै कन्यां कृष्णाजिनजटाधराम् । आर्षेण विधिना चैनां दीप्यन्तीं देवतामिव ॥ २ ॥ स दृष्टा रूपसंपन्नां कन्यां तां सुमहात्रताम् ॥ काममोहपरीतात्मा पप्रच्छ प्रहसन्निव ।। ३ ।। किमिदं वर्तसे भद्रे विरुद्धं यौवनस्य ते । न हि युक्ता तवैतस्य रूपस्य तपसः क्रिया ॥ ४ ॥ रूपं तेऽनुपमं भीरु कामोन्मादकरं नृणाम् । न युक्तं तैपसि स्थातुं निर्गतो ह्येष निर्णयः ।। ५ ।। नीमेव दुष्कर्मणा केनाप्यविनष्टं संप्रयच्छ ॥ ॥ | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ४८ आयुषश्चेति । ब्रह्मा दीर्घयुष्यंतावद्दत्तवान् तत्रास्या- | मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षोडश पमृत्यवो देवतादिभ्यः प्राप्ताः परिहृता भवन्तु । | सर्गः ।। १६ ।। रामेण वध इति स्थित्वा मत्वेत्यर्थः ।। ४९ । इदं खङ्गरूपाख्यं नावज्ञेयं । एकस्मिन्नपि दिने पूजौदासी- | आर्षेण विधिना तपोनुष्ठानेन ।।२। प्रहसन्निति । न्यं न कर्तव्यमित्यर्थ । अवज्ञातं यदि ॥५०-५५॥ ! दुर्लभकन्यालाभात्प्रहासः ।। ३ । इदं प्रतिक्रिया । ति० आयुषश्चावशेषंददौ । शापाद्यनाश्यत्वेनदावित्यर्थः ॥ स० “ खङ्गस्तुनित्रिंशचन्द्रहासासिरिष्टयः ?' इत्यमरोक्तखङ्गपर्याः यादयमन्यश्चन्द्रहासशब्दःशिवनित्रिंशवाचीतिसांनिध्येविद्यमानं नान्नाचन्द्रहासंश्रुतंप्रसिद्धंखङ्गददावित्यन्वयः । अन्यथेतिशब्द स्यचन्द्रहासपदयोगेऽप्रथमाखप्राप्तेः । ‘इतिखरूपेसांनिध्ये' इतिविश्वः ॥ ४९ ॥ ति० इदं नावज्ञेयं । शस्रस्यास्यपूजौदासीन्यं नकार्यमित्यर्थः ॥ ५० ॥ इतिषोडशःसर्गः ॥ १६ ॥ स० राजानंमांयाचन्तंनचेतिनवदेत् प्रायोमादृशप्राप्यैतपोनिष्ठेयमित्यभिप्रायेणवा हासोरावणस्येतिज्ञेयं ॥ ३ ॥ ति० निर्गतः प्रसिद्धएषनिर्णयः । वृद्धानामितिशेषः ॥ स० नृणां पुंसां कामोन्मादकरं कामकारणकउन्मादश्चित्तभ्रंशस्तंकुर्वत्। एतादृशि एतादृ शेवयसितपसिस्थातुंनयुक्तं एवमवस्थानंनयुक्तमित्यर्थः । कुतइत्यतउत्तं हियस्मात्निर्णयोनिर्गतः शास्रतइति । प्रसिद्धइतियावत् ॥ । [ पा०] १ क. ग. घ. साक्षान्महेश्वरेणैव. २ अयंश्लोकः च. छ. पाठयोर्टश्यते. ३ ख.-ट. हिमवद्वनमासाद्य. ४ क च.-ट. विधिनायुक्तां. ५ कः -घ. च. छ. तपन्तीं. ६ घ.-छ, रूपस्यैवप्रतिक्रिया. ७ ग. तपसाभद्रविफलोयेष