पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ रैक्षसा तेन रोषाच भुजानां पीडनात्तदा ॥ मुक्तो विरावः सहसा त्रैलोक्यं येनै कम्पितम् ॥३१॥ [#ानुषाः शब्दवित्रस्ता मेनिरे लोकसंक्षयम् ।। देवताश्चापि संक्षुब्धाश्चलिताः खेषु वत्र्मसु ॥ ३२ ॥ विस्फोटिताश्च गिरयो नागा गर्जन्ति चासकृत् ॥ निश्चेष्टाः सत्ववन्तोपि नदन्ति बहुशस्तदा ॥३३॥ समुद्राक्षुभुस्तत्र प्रचकंपे वसुंधरा ।। राम नागाः सगन्धर्वाः स्तब्धाक्षास्तत्र तत्रसुः ।। ३४ ।।] मेनिरे वज्रनिष्पेषं तस्यामात्या युगक्षये ॥ तदा वैत्मेंस्थचलिता देवा इन्द्रपुरोगमाः ।। ३५ ।। समुद्राश्चापि संक्षुब्धाश्चलिताश्चापि पर्वताः ॥ यक्षा विद्याधराः सिद्धाः किमेतदिति चाबुवन् ॥३६॥ अथ ते मत्रिणस्तस्य विक्रोशन्तमथाबुवन् ॥ तोषयस्व महादेवं नीलकण्ठमुमापतिम् ॥ ३७ ॥ तमृते शरणं नान्यं पश्यामोत्र दशानन । स्तुतिभिः प्रणतो भूत्वा तमेव शरणं व्रज ।। कृपालुः शंकरस्तुष्टः प्रसादं ते विधास्यति ।। ३८ ।। एवमुक्तस्तदाऽमात्यैस्तुष्टाव वृषभध्वजम् ॥ सामभिर्विविधैः स्तोत्रैः प्रणम्य स दशाननः ।। ३९ ॥ [कैालो महान्नरश्रेष्ठ रुवतो रक्षसो गतः ।।] संवैत्सरसहस्र तु रुदतो रक्षसो गतम् ।। ४० ।। ततः प्रीतो महादेवः शैलाग्रे विष्ठितैः प्रभुः ॥ मुक्त्वा चास्य भुजान्नाम प्राह वाक्यं दशाननम् ॥४१॥ प्रीतोस्मि तव वीर्यस्य शैौण्डीर्याच दशानन ॥ शैलाक्रान्तेन यो मुंक्तस्त्वया रावः सुदारुणः ॥४२॥ यस्मालोकत्रयं चैतद्रावितं भयमागतम् । तस्मात्त्वं रावणो नाम नाम्रा रौजन्भविष्यसि । ४३ ॥ देवता मानुषा यक्षा ये चान्ये जगतीतले ॥ एवं त्वामभिधास्यन्ति रावणं लोकरावणम् ॥ ४४ ॥ गच्छ पौलस्त्य विस्रब्धं पथा येन त्वमिच्छसि । मया चैवाभ्यनुज्ञातो राक्षसाधिप गम्यताम् ॥४५॥ एवमुक्तस्तु लङ्केशः शंभुना स्वयमब्रवीत् । मीतो यदि महादेव वरं मे देहि याचतः ॥ ४६ ॥ अवध्यत्वं मया प्राप्त देवगन्धर्वदानवैः ॥ राक्षसैर्गुह्यकैर्नागैर्ये चान्ये बलवत्तराः ॥ ४७ ॥ भौनुषान्न गणे देव खल्पास्ते मम संमताः ।। दीर्घमायुश्च मे प्राप्त ब्रह्मणत्रिपुरान्तक । वाञ्छितं चायुषः शेषं शत्रं त्वं च प्रयच्छ मे ।। ४८ ।। स्याधोभागगताः । भुजाः पीडिता आसन् ॥३०-४४ ॥ | ॥॥ न गणे न गणयामि । ब्रह्मदत्तदीर्घ ४५-४७ मया त्वमभ्यनुज्ञात । पुष्पकेण गमनायेति शेषः |युष्याद्यो भागोगतस्तस्माच्छेषमवशिष्टं वाञ्छितं इदा ति० तस्यामात्यास्तदीयंशब्दं युगक्षयेजायमानं वज्रनिष्पेषंमेनिरे । तदा तच्छब्दश्रवणकाले । वत्र्मसुस्थिताः देवाः वत्र्मभ्यः प्रचलिताइत्यर्थ । स० ‘तदासनात्प्रचलितादेवाः' इतिसरल:पाठः । तदावत्र्मसुचलिताइतिपठित्वा चलीतिवर्णद्वयेभवितव्य गुरुत्वमनादृत्य वत्र्मसुस्थितादेवाः वत्र्मभ्य:प्रचलिताइतिशेषकरणेचनागोजिभट्टेननिमित्तंतत्पुस्तकस्यविनायककरलेखनतोन्यन्ने क्षामहे ॥ ३५ ॥ ति० शौटीर्यात् । चात्स्तुतेः ॥ ४२ । ति० रावितं शब्दितं ॥ ४३ ॥ ति० यदिप्रीतोयदिचवरं ददासि तदा याचतोमेदेहील्यर्थ ॥ ४६ ॥ ति० नगणे नगणयामीत्यर्थः । तत्रहेतुः--खल्पाइति । खल्पबलवीर्याइत्यर्थ । वाञ्छितंचायुश्शेषं भगवद्दत्तदीर्घयुष्याद्योभागोगतः तस्माच्छेषमवशिष्टमायुर्वाञ्छितं तदेतैर्तुष्कर्मभिर्यथाऽविनष्टंभवतितथाप्र यच्छ । तस्मिश्चायुषि सर्वर्जयायशस्रचदिव्यंप्रयच्छ ॥ स० खल्पाः खल्पबलाइति नगणे नगणयामि ॥ विधिदत्तायुषोमध्ये इयताकालेनगतंयदायुस्तस्यशेषं गतपूरणोपयुक्तं वाञ्छितमपेक्षितं ॥ प्रयच्छ दिश । तथाशस्रचमेप्रयच्छ । अनेनचतुरानन वरोऽमरणविषयः सावधिकदीर्घकालविषयोज्ञ यते ।। ४८ ।। [ पा०] १ क.-घ. ज. तेनरक्षोधिपेनात्रवेदनार्तभुजेनवे. २ क.-घ. ज. विरावःसुमहान्, ३ क.-घ. ज येनपूरितं ४ मानुषाःशब्दवित्रस्ताइत्यादयस्तत्रतत्रसुरित्यन्ताःश्लोकाः क.-घ. ज. पाठेषुदृश्यन्ते. ५ झ. ट. वत्र्मसुचलिताः. ६ इदमर्ध क. ख. पाठयोर्टश्यते ७ क. संवत्सरंतुसंपूर्णरुवतो . ८ च. छ. ट. विस्मितःप्रभुः. ९ झ. शौटीर्याच. १० क .-घ. ज मुक्तःखरःपरमदारुणः. ११ क -घ. तेनभविष्यसि. १२ क -घ. ज. गच्छगच्छसुविस्रब्धस्तथायेनखं. १३ क -घ तिर्यग्मनुष्यान्नगणेदुर्बलाइतिचिन्तयन्