पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६ ] ततः पार्थमुपागम्य भवस्यानुचरोऽब्रवीत् । नन्दीश्वरो वचश्रेदं राक्षसेन्द्रमशङ्कितः ॥ १० ॥ निवर्तख दशग्रीव शैले क्रीडति शंकरः सुपणनागयक्षाणां देवगन्धवंरक्षसाम् । सर्वेषामेव भूतानामगम्यः पवतः कृतः । तन्निवर्तस्व दुबुद्धे मा विनाशमवाप्स्यसि ।। १२ इति नन्दिवचः श्रुत्वा क्रोधात्कम्पितकुण्डलः ।। रोषातु ताम्रनयनः पुष्पकादवरुह्य कोयं शंकर इत्युक्त्वा शैलमूलमुपागतः ॥ १३ सोपैश्यन्नन्दिनं तत्र देवस्यादूरतः स्थितम् ।। दीप्तं शूलमवष्टभ्य द्वितीयमिव शंकरम् ।। १४ त दृष्टा वानरमुखमवज्ञाय स राक्षसः प्रहासं मुमुचे तैत्र सतोय इव तोयदः ॥ १५ तं कुद्धो भगवान्नन्दी शंकरस्यापरा तनुः ॥ अब्रवीत्तत्र तद्रक्षो दशाननमुपस्थितम् ।। १६ ।। [यैस्माद्वानरमूर्ति मां दृष्टा राक्षस दुर्मते । मौख्यत्वमवजानीषे परिहासं च मुञ्चसि ।। १७ ।।] यस्माद्वानररूपं मामवज्ञाय दशानन । अशनीपातसंकाशमुपहासं प्रमुक्तवान् । १८ तस्मान्मद्वपसंपन्ना मद्वीर्यसमतेजसः उत्पत्स्यन्ति वधार्थ हि कुलस्य तव वानरा १९ ।। नखदष्ट्रायुधाः क्रूरा मनःसपातरंहसः युद्धोन्मत्ता बलोद्रिक्ताः शैला इव विसर्पिणः २० ते तव प्रबलं दर्पमुत्सेधं च पृथग्विधम् । व्यपनेष्यन्ति संभूय सहामात्यसुतस्य च किंत्विदानीं मया शैक्यं हन्तुं त्वां हे निशाचर । न हन्तव्यो हतस्त्वं हि पूर्वमेव खकर्मभिः ॥२२ इत्युदीरितवाक्ये तु देवे तस्मिन्महात्मनि ।। देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्युता ॥ २३ ॥ अचिन्तयित्वा स तदा नन्दिवाक्यं मैहाबलः । पर्वतं तु समासाद्य वाक्यमाह दशाननः ॥२४ पुष्पकस्य गाताश्छन्ना यत्कृत मम गच्छतः तमिमं शैलमुन्मूलं करोमि तव गोपते ॥ २५ ॥ केन प्रभावेन भवो नित्यं क्रीडति राजवत् । विज्ञातव्यं न जानीते भयस्थानमुपस्थितम् ।। २६ ।। एवमुक्त्वा ततो राम भुजान्विक्षिप्य पर्वते ॥ तोर्लयामास 'तं शैलं स शैलः समकम्पत ॥ २७ ॥ चचाल पार्वती चापि तदाश्लिष्टा महेश्वरम् ॥ २८ ॥ ततो राम महादेवो देवानां प्रवरो हरः पादाङ्गुष्ठेन तं शैलं पीडयामास लीलया ।। २९ पीडितास्तु ततस्तस्य शैलैस्याधोगता भुजाः विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः ॥ ३ पुरुषस्य । इदं कर्म भवेत्। गोपते | हे वृषभपते रुद्र ॥ २५-२९ । अधोगताः पर्वत ५- २४ ४१ ति० पाश्च रावणस्येतिशेष अशङ्कितउपागम्याब्रवीदित्यन्वयः ॥ १ ति० कृतः ईश्वरेच्छयेतिशेष १२ ॥ ति० प्रहासंमुमुचे कृतवानित्यर्थ १५ ॥ स० शङ्करस्यापरातनुः तद्वद्विद्यमान उपस्थितंदशाननं तद्रक्षः पुष्पकाद्वरुह्यागतं तं चोरसदृशं रावणंप्रत्यब्रवीत् । ‘तकार:कीर्तितश्चोरे’ इतिविश्व १६ ॥ ति० दर्पः आन्तरः । उत्सेधः शारीर २१ स० तवनसामथ्यैकिल व्यर्थकिंकत्थसइत्यतःकथयति--किंत्विति । किंच यद्यपिमयानहन्तव्यः । सत्यसंकल्प मयैववध्यौभवतंत्रिजन्मसुइत्येवंरूपात् । हृतः तत्प्राय २२ ॥ ति० तद्वाक्यसमनन्तरंदेवदुन्दुभ्यादिप्रवृत्तिस्तुतच्छापेनरावण घधनिश्चयजसंतोषात् ॥ २३ ॥ ति० पर्वते पर्वताधस्तात् ॥ २७ ॥ ति० आश्लिष्टा आश्लिष्टवती । कर्तरिक्त २८ [ पा०] १ क घ. ज दैत्यदानवरक्षसां. २ क घ. ज. नन्दीश्वरमथापश्यदविदूरस्थितंविभु. ३ क घ. मौख्य त्सतोयइवतोयदः. ४ क घ. ज. पाठेष्वयंश्लोकोदृश्यते. ५ च. छ. झ. ल. ट. मपहासं. ६ च. छ. शक्यंकर्तुयन्नावबुध्यते घ. ज. निशाचरः. ८ क घ. ज. वाक्यमेतदुवाचह ९ क. ख. ग. भवान्नित्यं. १० क. चालयामास. ११ ड च. छ. झ. अ. ट. तंशीघ्र. क.- घ. ज. तं शैलसमृगव्यालपादपं. १२ क घ, ज. महादेव:प्रहसन्वीक्ष्यतत्कृतं. १३ ड: च. छ. झ. ज. ट. शैलस्तंभोपमाभुजा वा. रा. २४६