पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० श्रीमद्वाल्मीकिरामायणम् । निर्मितं सर्वकामैस्तु मनोहरमनुत्तमम् । न तु शीतं न चोष्णं च सर्वर्तुसुखदं शुभम् ॥ ४३ ॥ स तं राजा समारुह्य कामगं वीर्येनिर्जितम् ॥ जितं त्रिभुवनं मेने दपत्सेकात्सुदुर्मतिः ॥ ४४ ॥ जित्वा वैश्रवणं देवं कैलासात्समवातरत् ॥ ४५ ॥ स्खतेजसा विपुलमवाप्य तं जयं प्रतापवान्विमलकिरीटहारवान् । रराज वै परमविमानमास्थितो निशाचरः सदसि गतो यथाऽनलः ॥ ४६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ षोडशः सर्गः ॥ १६ ॥ [ उत्तरकाण्डम् कैलासादवतीर्यमध्येस्कन्दवनंगतेरावणे रुद्राज्ञयारुद्धसंचारेसतिपुष्पके तत्कारणैबहुधातर्कयतिसति तंप्रतिनन्दिकेश्वरेण तस्यशंकरक्रीडास्थानत्वोक्तया गमनप्रतिरोधनम् ॥ १ ॥ तत्ररावणे नन्दिकेश्वरंप्रति वानरमुखइतिसावज्ञमपहसतिसति तं प्रतिनन्दिना वानरैःपराभवसंभवकारकशापदानम् ॥ २ ॥ रावणेन विमानस्तंभनजरोषान्निजभुजानामधःप्रसारणेन कैला सचालनम् ॥ ३ ॥ हरेणपादाङ्गुष्ठनशैलावटंभे अधस्सक्तबाहुनादशाननेन वर्षसहस्रमहारावमाक्रोशनम् ॥ ४ ॥ मन्निबोध नाद्रावणेन स्तुत्याप्रसादितेनरुद्रेण तमैरावणनामदानपूर्वकं तदीप्सितवरप्रदानम् ॥ ५ ॥ स जित्वा धनदं राम भ्रातरं राक्षसाधिपः ॥ महासेनप्रसूतिं तद्ययौ शरवणं महत् ॥ १ ॥ अथापश्यद्दशग्रीवो रौक्मं शरवणं महत् । गभस्तिजालसंवीतं द्वितीयमिव भास्करम् ॥ २ ॥ स पर्वेतं समारुह्य कंचिद्रम्यवनान्तरम् । अपश्यत्पुष्पकं तत्र राम विष्टम्भितं तैदा ॥ ३ ॥ विष्टब्धं पुष्पकं दृष्टा ह्यगमं कामगं कृतम् । अचिन्तयद्राक्षसेन्द्रः सचिवैस्तैः समावृतः ॥ ४ ॥ किन्निमित्तं चेच्छया मे नेदं गच्छति पुष्पकम् । पर्वतस्योपरिष्ठस्य कर्मेदं कस्यचिद्भवेत् ॥ ५ ॥ ततोऽब्रवीत्तदा राम मारीचो बुद्धिकोविदः ॥ नेदं निष्कारणं राजन्पुष्पकं यन्न गच्छति ॥ ६ ॥ [शेिखरस्थं गिरिस्थस्य कर्म कस्येदमदुतम्। निश्चिततं राजराजेन पुष्पकं विनिवारितम्] ।। ७ ।। अथवा पुष्पकमिदं धनदान्नान्यवाहनम् । अतो निष्पन्दमभवद्धनाध्यक्षविनाकृतम् ॥ ८ ॥ इति वाक्यान्तरे तस्य करालः कृष्णपिङ्गलः । वामनो विकटो मुण्डी नन्दी प्रैह्वभुजो बली ॥ ९ ॥ यन्तीति शेषः ।। ३९-४६ । इति श्रीगोविन्दराज- | महासेनप्रसूतिं स्कन्दप्रसूतिस्थानं। अपश्यदित्यादि विरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने |पूर्वसर्गान्तोक्तसंक्षेपप्रपञ्चनं ।। १-२ । विष्टम्भितं उत्तरकाण्डव्याख्याने पञ्चदशः सर्गः ॥ १५ ॥ | रुद्राज्ञयारुद्धसंचारं । कामगं पुष्पकं अगममिति राक्षसञ्चिन्तयामासेत्यन्वयः ।। ३-४ । कस्य कस्य स० खतेजसा खवरसामथ्र्येन । सदसि यज्ञसदस्थाने । ति० कतकस्तुत्रयस्त्रिंशच्छेोकसंख्यामत्रसर्गेलिलेख ॥ ४६ ॥ इतिपञ्चदशःसर्गः ॥ १५ ॥ स० धनदान्नान्यवाहनमित्यत्र सामथ्र्याद्धनदादन्योयस्तद्वाहनंनभवतीतिलभ्यते । अथवा अन्यवाहनंनभवतीति नान्यवाहनं । धनदेनाततिगच्छतीतिधनदात् । धनदाच्चतन्नान्यवाहनंचेति । धनदेनेत्यस्याकर्तृकरणत्वेपिबाहुलकाददतेकिप् । यद्वा धनदमातय तीत्यन्तणतण्यर्थादततेर्धनदपदेनगम्यादिसमासः ॥ ८ ॥ स० नन्द आनन्दोस्यास्तीतिनन्दी । सईश्वरोयस्येति । तेननन्दीतिना धिकं ॥ ९ ॥ [पा०] १ ड.-ट. प्रेक्षतेपुष्पकं. २ क. ग. घ. ज. दिवि. ३ ड,-ट, विष्टब्धंकिमिदंकस्मान्नागमत्कामगंकृतं ४ इदमर्थद्वयं व. छ, पाठयोर्टश्यते. ५ ङ,-ट, हखभुजो