पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ हंसानां हि पुरा राम नीलवर्णः सपाण्डुरः ॥ पक्षा नीलाग्रसंवीताः क्रोडाः शष्पाग्रनिर्मलाः ॥ ३३ ॥ अथाब्रवीद्वैश्रवणः कुकलासं गिरौ स्थितम् || हैरण्यं संप्रयच्छामि वर्णं प्रीतस्तवाप्यहम् ॥ ३४ ॥ सद्रव्यं च शिरो नित्यं भविष्यति तवाक्षयम् ॥ एष काञ्चनको वर्णो मतप्रीत्या ते भविष्यति ॥ ३५॥ एवं दत्त्वा वरांस्तेभ्यस्तस्मिन्यज्ञोत्सवे सुराः || निवृत्ताः सह राज्ञा ते पुनः स्वभवनं गताः ||३६|| इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टादशः सर्गः ॥ १८ ॥ एकोनविंशः सर्गः ॥ १९ ॥ नानादेशगराजपराजयपूर्वक क्रमेणायोध्यांगतेनरावणेनानरण्यनाम्नोराज्ञोयुद्धाय समाहानम् ॥ १ ॥ प्रहस्तप्रसुखराक्षसे- न्द्र विद्वावणपूर्वकमात्मनासहयुध्यन्तमनरण्यं निजकरतलाभिघातेनमुमूर्षुतां नीयतारावणेन तंप्रतीक्ष्वाक्कवमाननपूर्वकमुप- हसनम् ॥ २ ॥ तदसहिष्णुनाऽनरण्येन तंप्रति स्ववंश्येनरामेण वधसंभवविषयकशापदानेन त्रिविष्टपगमनम् ॥ ३ ॥ " अथ जित्वा मरुत्तं स प्रययौ राक्षसाधिपः ॥ नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः ॥ १ ॥ समासाद्य तु राजेन्द्रान्महेन्द्रवरुणोपमान् || अब्रवीद्राक्षसेन्द्रस्तु युद्धं मे दीयतामिति ॥ २ ॥ निर्जिताः सेति वा ब्रूत एष मे हि सुनिश्चयः ॥ अन्यथा कुर्वतामेवं मोक्षो नैवोपपद्यते ॥ ३ ॥ ततस्त्वभीरवः प्राज्ञाः पार्थिवा धर्मनिश्चयाः || मन्त्रयित्वा ततोऽन्योन्यं राजानः सुमहाबलाः ॥ निर्जिता: मेत्यभाषन्त ज्ञात्वा वैरबलं रिपोः ॥ ४ ॥ दुष्यन्तः सुरथो गाधिर्गयो राजा पुरूरवाः ॥ एते सर्वेऽस्तात निर्जिताः स्मेति पार्थिवाः ॥ ५ ॥ अयोध्यां समासाद्य रावणो राक्षसाधिपः || सुँगुप्तामनरण्येन शक्रेणेवामरावतीम् ॥ ६ ॥ सतं पुरुषशार्दूलं पुरन्दरसमं वले | प्राह राजानमासाद्य युद्धं देहीति रावणः || निर्जितोस्मीति वा ब्रूहि त्वमेवं मम शासनम् ॥ ७॥ अयोध्याधिपतिस्तस्य श्रुत्वा पापात्मनो वचः ॥ अनरण्यस्तु संक्रुद्धो राक्षसेन्द्रमथाब्रवीत् ॥ ८ ॥ दीयते द्वन्द्वयुद्धं ते राक्षसाधिपते मया || संतिष्ठ क्षिप्रमायत्तो भव चैवं भवाम्यहम् ॥ ९ ॥ जलमूर्ति ॥ ३२ ॥ क्रोडः भुजान्तरं । शष्पाप्रनिर्मलाः | स्वर्गमित्यर्थः ॥ ३६ ॥ इति श्रीगोविन्दराजविरचिते बालतृणाग्रवन्निर्मला: । कोमलश्यामवर्णा इत्यर्थः श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- ॥ ३३—३४ ॥ सद्रव्यमिति ॥ एतदेवाह - एष काञ्च- व्याख्याने अष्टादशः सर्गः ॥ १८ ॥ नक इति ॥ ३५ ॥ स्वभवनमिति | मरुत्तेन सह संतिष्ठ । एवमहं भवामीति | आयत्तो भवामीत्यर्थः मत्स्थानंगताः । तदुद्देशेनदत्तपिण्डं त्वयिभुक्ते भुक्तवतिसति ॥ २९ ॥ ति० नीलेन नीलवर्णेन अग्रे अग्रदेशे संवीताः प्राप्ताः ॥ ३३ ॥ ति० शिरोनियं सद्रव्यं स्वर्णवर्णमित्यर्थः । तदेवाह — एषकाञ्चनकइति । पूर्वेककलासाअञ्जनवर्णाइत्याहुः ॥ स० सद्रव्यं सुवर्णवर्णसास्त्रालक्षणद्रव्यसहितं ॥ ३५ ॥ स० राज्ञामरुत्तेन सहस्वभवनंगताः । मरुत्तेनसहस्वर्गमित्यर्थः ॥ निवृत्तेरावणे इतिशेषः ॥ ३६ ॥ इत्यष्टादशः सर्गः ॥ १८ ॥ स० अन्यथाकुर्वतां युद्धासन्नद्धानां वर्जितनिर्जितशब्दानां | मोक्षः मत्तोमोचनं ॥ ३ ॥ स० यद्यप्यभीरवः अन्यस्मादन्य- दाभयरहिताः । वरबलंज्ञात्वानिर्जिताः स्मेत्यभाषन्त । 'जीवनरन्यायेनेतिभावः ॥ ४ ॥ स० दुष्यन्तइति । एतेषांभिन्नकालव- र्तित्वेनयुगपद्वचनासंभवेपिरावणस्यचिरकालवर्तित्वेन स्वस्व कालेतेतथाऽवदन्नित्यर्थः ॥ ५ ॥ शि० समासाद्य अतिष्ठदितिशेषः ॥६॥ [ पा० ] १ घ. च. – झ. ट. नवर्ण: सर्वपाण्डुरः २ ख. ग. घ. ततोऽन्योन्यंयुद्धेसंतप्यभीरवः ३ ख. परबलं. ४ क. गाधिभोजराजः पुरूरवाः ५ञ. ट. तांगुसां. ६ क. घ. ज. चावमतंवचः.