पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् पृष्टा च कुशलं राज्ञो ज्ञातीनां च विभीषणः ।। सभायां दर्शयामास तमासीनं दशाननम् ॥ १४ ॥ स दृष्टा तत्र राजानं दीप्यमानं खतेजसा ॥ जयेति वाचा संपूज्य तूष्णीं समभिवर्तत ॥ १५ ॥ तं तत्रोत्तमपर्यङ्के वरास्तरणशोभिते । उपविष्टं दशग्रीवं दूतो वाक्यमथाब्रवीत् ॥ १६ ॥ राजन्वदामि ते सर्वे भ्राता तव यदब्रवीत् । उभयोः सदृशं वीर वृत्तस्य च कुलस्य च ॥ १७ ॥ साधु पर्याप्तमेतावत्कृतश्चारित्रसंग्रहः । साधुधर्मे व्यवस्थानं क्रियतां यदि शक्यते ॥ १८ ॥ दृष्टं मे नन्दनं भन्नमृषयो निहताः श्रुताः ।। देवतानां समुद्योगस्त्वत्तो राजन्मम श्रुतः ॥ १९ ॥ निराकृतश्च बहुशस्त्वयाऽहं राक्षसाधिप । अपराद्धा हि बाल्याच रमणीयाः खबान्धवाः ॥ २० ॥ अहं तु हिमवत्पृष्ठं गतो धर्ममुपासितुम् ।। रौद्रं धृत्तं समास्थाय नियतो नियतेन्द्रियः ॥ २१ ॥ तत्र देवो मया दृष्टः सह देव्या मया प्रभुः ॥ सव्यं चक्षुर्मया दैवात्तत्र देव्यां निपातितम् ॥२२॥ का न्वियं स्यादिति शुभा न खल्वन्येन हेतुना ।। रूपं ह्यनुपमं कृत्वा रुंद्राणी तत्र तिष्ठति ॥२३॥ देव्या दिव्यप्रभावेन दग्धं सव्यं ममेक्षणम् ।। रेणुध्वस्तमिव ज्योतिः पिङ्गलत्वमुपागतम् ॥ २४ ॥ ततोऽहमन्यद्विस्तीर्ण गत्वा तस्य गिरेस्तटम् ॥ तूष्णीं वर्षशतान्यष्टौ समाधारं महाव्रतम् ॥ २५ ॥ समाप्ते नियमे तामिंस्तत्र देवो महेश्वरः ॥ ग्रीतः प्रीतेन मनसा प्राह वाक्यमिदं प्रभुः ।। २६ ।। पैङ्गल्यं यदवाप्त हि देव्या रूपनिरीक्षणात् । प्रीतोसि तव धर्मज्ञ तपसा तेन सुव्रत ॥ २७ ॥ मया चैतद्रतं चीर्ण त्वया चैव धनाधिप । तृतीयः पुरुषो नास्ति यश्चरेद्वतमीदृशम् । व्रतं सुनिश्चयं ह्येतन्मया द्युत्पादितं पुरा ॥ २८ ॥ तत्सखित्वं मया सौम्य रोचयस्ख धनेश्वर । तपसा निर्जितथैव सखा मम भवानघ ॥ २९ ॥ देव्या दग्धं प्रभावेन यच सव्यं तवेक्षणम् ॥ [पैङ्गल्यं यदवाप्त हि देव्या रूपनिरीक्षणात् ।।] राज्ञः कुबेरस्य । तं दूतं ॥१४-१६॥ उभयोरिति । | मित्यत्राह-दृष्टमित्यादिना ॥ त्वत्तः त्वया । मम उभयोर्मातापित्रोः । कुलस्याभिजनस्य तयोर्तृत्तस्य च | मया । समुद्योग इति । प्रतिक्रियाकरणायेतिशेषः सदृशं - | ॥ १९ ॥ रमणीया: । खबान्धवाः यथा तथा ॥ १७ ॥ साधु सम्यक् । चाांरंत्र तोषणीयाः संग्रहः कृतश्रेदेतावदेव पर्याप्त । उक्तमर्थ विवृणोति बाल्याद्ज्ञानाद्पराद्धाः त्वया कृतापराधा आसन्नि साध्वित्यादि । व्यबस्थानं व्यवस्थिति: । यदि शक्यत इत्युक्त्या ज्येष्ठतया नियोगबुद्धिव्यवर्तते ॥ १८ ॥ | त्यथः ।। २० ॥ रौद्रं रुद्रप्रसादकव्रतं । इदंतु केदार तस्य क्रूरत्वान्मायाचारित्रव्यवस्थानेन विना किं कृत- | ब्रतमित्याहुः ॥२१-२८ । रोचयख खरुचितं कुरु ति० तूष्णींसमभिवर्तत क्षणमात्रमितिशेषः । स० तूष्णींसमभिवर्तत झटितिनचोचितंवचनमितितूष्णींभावइतिभावः ॥ १५ ॥ ति० उभयोः मातापित्रोः । कुलस्य तयोर्वेत्तस्यचसदृशम्। स० उभयोः वचुक्तस्तस्यतवश्रोतुचेत्युभयोः । नकेवलमेतावत् किंतुकु लस्य पौलस्त्यकुलस्य वृत्तस्यच चरित्रस्यचसदृशं ॥ कुलस्यवृत्तस्यचेत्युभयोर्वा ॥ ॥ ति० एतावत्पर्याप्तं एतावदेवपापमलं । १७ इतःपरंचारित्रसंग्रहः कृत्यः कार्यः । तदेवदाढ्र्यायपुनराह-साध्विति । व्यवस्थानं व्यवस्थितिः । यदिशक्यतइत्यनेन क्रूरत्वान्नि योगबुद्धिव्यवल्यैते । कतकस्तु -कृतश्चारित्रसंग्रहइतिपठित्वा साधु सम्यकू चारित्रसंग्रहः आचारसंप्रहः । कृतः संपादितवेदे तावदेवपर्याप्तमिहामुत्राभ्युदयाय । अस्यैवविवरणंसाध्वित्याह ॥ १८ ॥ ति० उपदेशप्रयोजकमसदृत्तं दृश्यतेश्रूयतेचेल्याह दृष्टमिति । मे मया । त्वत्तः खन्निमित्तः । देवतानांसमुद्योगः प्रतिक्रियासंपादनविषयइतिशेषः ॥ १९ ॥ ति० दग्धं नष्टं । सव्येतरतु रेणुध्वस्तं रेणुस्पर्शकलुषीकृतं । ज्योतिषा तेजसापिङ्गलं । तस्यभावस्तत्वं । यद्वा कलुषितज्योतिरिवपिङ्गखंप्राप्तमि त्यर्थः ॥ २४ ॥ ति० समधारं समधारयं ॥ २५ ॥ [पा०] १ क-ध. ज. समभवत्तदा. २ झ. सापराधोपिबालोहेिरक्षितव्यःखबान्धवैः. च. छ. अपराद्धोपिबालौहि ३ ड. च. झ. ज. ट. व्रतं. ४ घ. रुद्राणीक्रीडतेखयं. ग. रुद्राणीक्रीडतेतदा. ५ क.ख. ग. ड. च. छ. झ. ट. सुदुश्चरं. ६ क ड-ट. पाठेष्विदमर्धदृश्यते ।