पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १३] श्रीमद्भोविन्दराजीयव्याख्याँसमलंकृतम् । ३३ जडीकृता च सा लङ्का तस्य नादेन राघव । पिता तस्याकरोन्नाम मेघनाद इति स्वयम् ॥ २९ ॥ सोवर्धत तदा राम रावणान्तःपुरे शुभे । रक्ष्यमाणो वरस्त्रीभिश्छन्नः काष्टैरिवानलः ॥ मातापित्रोर्महाहर्प जनयन्रावणात्मजः ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे द्वादशः सर्गः ॥ १२ ॥ त्रयोदशः सर्गः ॥ १३ ॥ ब्रह्मोत्सृष्टनिद्रानिपीडितेनकुंभकर्णेन स्ववचनाद्रावणनिर्मापितगृह्वरे चिरस्वापारंभः ॥ १ ॥ रावणेन देवष्यदिविहिंसने तदसहमानेनकुबेरेण तन्निवर्तनायरावणंप्रति दूतप्रेपणम् ॥ २ ॥ कुबेरनिदेशश्रवणरुटेनरावणेन दूतशिरश्छेदनम् ॥ ३ ॥ अथ लोकेश्वरोत्सृष्टा तत्र कालेन केनचित् । निद्रा समभवत्तीव्रा कुम्भकर्णस्य रूपिणी ॥ १ ॥ ततो भ्रातरमासीनं कुम्भकर्णोऽब्रवीद्वचः । निद्रा मां बाधते राजन्कारयख ममालयम् ।। २ ।। विनियुक्तास्ततो राज्ञा शिल्पिनो विश्वकर्मवत् ।॥ [ औकुर्वन्कुम्भकर्णस्य कैलाससममालयम् ] ॥३॥ विस्तीर्ण योजनं शुभ्रं ततो द्विगुणमूायतम् ।। दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे ।। ४ ॥ स्फाटिकैः काञ्चनैश्चित्रैः स्तम्भैः सर्वत्र शोभितम् । वैडूर्यकृतसोपानं किङ्किणीजालकं तथा ॥ ५ ॥ दान्ततोरणविन्यस्तं वज्रस्फटिकवेदिकम् ॥ मनोहरं सर्वसुखं कारयामास राक्षसः । सर्वत्र सुखदं नित्यं मेरोः पुण्यां गुहामिव ॥ ६ ॥ तत्र निद्रासमाविष्टः कुम्भकर्णो महावलः । बहून्यब्दसहस्राणि शयानो नै प्रबुध्यते ॥ ७ ॥ निद्राभिभूते तु तदा कुम्भकर्णे दशाननः ।। देवर्षियक्षगन्धर्वान्संजन्ने हि निरङ्कशः ॥ ८ ॥ उद्यानानि च चित्राणि नन्दनादीनि यानि च । तानि गत्वा सुसंक्रुद्धो भिनत्ति स दशाननः ॥९॥ नदीं गज इव क्रीडन्वृक्षान्वायुरिव क्षिपन् । नगान्वज्र इवोत्सृष्टो विध्वंसयति राक्षसः ॥ १० ॥ तथावृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः ॥ कुलानुरूपं धर्मज्ञो वृत्तं संस्मृत्य चात्मनः ।। ११ ।। सौभ्रात्रदर्शनार्थ तु दूतं वैश्रवणस्तदा ॥ लङ्कां संप्रेषयामास दशग्रीवस्य वै हितम् ॥ १२ ॥ स गत्वा नगरीं लङ्कामाससाद विभीषणम् । मानितस्तेन धर्मेण पृष्टश्चागमनं प्रति ॥ १३ ॥ ३० । । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण- | शेषः । ततो द्विगुणमायतं । युद्धकाण्डे योजनाय भूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने | तमित्युक्तं द्विगुणयोजनायतपरं ।। ४ । किङ्किणी द्वादशः सर्गः ।। १२ ।। जालकं प्रान्तेषु किङ्किणीजालयुक्तं । ५ । दान्तो दन्तविकारः ।। ६-१० । कुलानुरूपं वृत्तमिति । लोकेश्वरेण ब्रह्मणोत्सृष्टा प्रेषिता । रूपिणी मूर्ता | असक्तमिति शेषः ।। ११ ॥ हेितं हितपरं ॥ १२ ॥ ॥ १-३ ॥ विस्तीर्ण योजनमिति । तिर्यङानेनेति । आगमनंप्रतीति कार्यमिति शेषः ।। १३ ।। स० निद्रा तद्देवता रूपिणी खव्याप्यजूभणादिलिङ्गवतीसती । समभवत् ।। १ । स० ममालयं निद्रागंारं ।। २ । स० विश्वकर्मवद्विद्यमानाःशिल्पिनः ।। ३ । स० योजनं तिर्यङमानेन । ततः तिर्यङमानात् । योजनायतेतियुद्धकाण्डोक्तस्तुयोजना भ्यामायतायोजनायतेतिद्विगुणपरतयार्थोबोध्यः । स० निराबाधं मध्येशयनस्थलेव्यवधायकस्तंभादिरहितं ॥ ४ ॥ स७ सर्वत्र मित्तिसमीपे । अन्यथाइयत्परिमाणवत:कुंभकर्णस्यशयनंनस्यादितिबोध्यं ।॥५॥ ति० दान्ततोरणं दन्तविकारतोरणं तस्यविन्यस्तं विन्यासोयत्रतत् ॥ ६ ॥ स० नचबुध्यते नावुध्यत । अत्रयद्वक्तव्यं तत्प्रागेवोक्तं ॥ ७ ॥ ति० आत्मनःकुलानुरूपंवृतं संस्मृ त्येति बोधनीयत्वेनेतिशेष ॥ ११ ॥ ति० हितमिति वक्तुमितिशेषः ॥ १२ ॥ [पा० इदमर्ध क-घ. छ. ज. पाठेषुदृश्यते. २ घ. स्फटिकशोभितं. ३ झ. अ. ट. नचबुध्यते वा. रा. २४५