पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ पुत्रद्वयं ममाप्यस्यां भार्यायां संबभूव ह । मायावी प्रथमस्तात दुन्दुभिस्तदनन्तरः ॥ १२ ॥ एवं ते सर्वमाख्यातं यथातत्त्वेन पृच्छतः । त्वामिदानीं कथं तात जानीयां को भवानिति ॥१३ ॥ एवमुक्तं तु तद्रक्षेो विनीतमिदमब्रवीत् । अहं पौलस्त्यतनयो दशग्रीवश्च नामतः । मुनेर्विश्रवसो यस्तु तृतीयो ब्रह्मणोऽभवत् ।। १४ ।। एवमुक्तस्तदा राम राक्षसेन्द्रेण दानवः । महर्षेस्तनयं ज्ञात्वा मैयो हर्षमुपागतः ॥ दातुं दुहितरं तसै रोचयामास यैत्र वै ॥ १५ ॥ करेण तु करं तस्या ग्राहयित्वा मयस्तदा । प्रहसन्ग्राह दैत्येन्द्रो राक्षसेन्द्रमिदं वचः ॥ १६ ॥ इयं ममात्मजा राजन्हेमयाऽप्सरसा धृता । कन्या मन्दोदरी नाम पत्यर्थ प्रतिगृह्यताम् ॥ १७ ॥ बाढमित्येव तं राम दशग्रीवोऽभ्यमापत । प्रज्वाल्य तत्र चैवाग्मिकरोत्पाणिसंग्रहम् ॥ १८ ॥ स हि तस्य मयो राम शापाभिज्ञस्तपोधनात् ॥ विदित्वा तेन सा दत्ता तस्य पैतामहं कुलम् ॥१९॥ अमोघां तस्य शक्ति च प्रददौ परमादुताम् ॥ परेण तपसा लब्धां जन्निवॉलुक्ष्मणं यया ॥ २० ॥ एवं स्वीकृतदारो वै लङ्काया ईश्वरः प्रभुः । गत्वा तु नगरीं भार्ये भ्रातृभ्यां समुपाहरत् ।। २१ ॥ वैरोचनस्य दौहित्रीं वज्रज्वालेति नामतः ॥ तां भायां कुम्भकर्णस्य रावणः संमकल्पयत् ॥ २२ ॥ गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः ॥ सरमां नाम धर्मज्ञां लेभे भार्या विभीषणः ।। २३ ।। तीरे तु सरसो वै तु संजज्ञे मानसस्य हि ।। सरस्तदा मानसं तु ववृधे जलदागमे ॥ २४ ॥ मात्रा तु तस्याः कन्यायाः लेहेनाक्रन्दितं वचः ॥ सरो मॉवर्धयखेति ततः सा सरमाऽभवत् ॥२५॥ एवं ते कृतदारा वै रेमिरे तत्र राक्षसाः ॥ स्वां स्वां भार्यामुपागम्य गन्धर्वा इव नन्दने ॥ २६ ॥ ततो मन्दोदरी पुत्रं मेघनाद्मजीजनत् । स एष इन्द्रजिन्नाम युष्माभिरभिधीयते ॥ २७ ॥ जातमात्रेण हि पुरा तेन रावणसूलुना ।। रुदता सुमहान्मुक्तो नादो जलधरोपमः ॥ २८ ॥ १०-११ । मायावीति । मायावी च वालेिना | इति भावः । पुलस्त्यशापञ्चेत्केवलं कुलमेव बह्व पलायितोत्रैव प्रविष्टो नाशित इति ज्ञेयं ।। १२- | मन्यतेत्यर्थः ।। १९-२३ । सरमाशब्दं निर्व १६ । धृतागर्भप्रसूतेत्यर्थः ।॥१७-१८॥ शापाभिज्ञ | क्ति-तीरेत्यादि । सरो मा वर्धयखेत्युक्त्या सरमे इति । दारुणप्रकृतिर्भविष्यतीति श्रुतशापवृत्तान्त | ति नामासीत् । पृषोदरादित्वात्साधुः ।। २४ ति० अस्यां हेमायां । मायावी तन्नामकः ॥१२॥ स० सवपौलस्त्यःकइत्यतस्तमाह-मुनेरिति । कीदृशस्यविश्रवसः योविश्रवाः ब्रह्मणस्तृतीयः ब्रह्मा पुलस्त्यः विश्रवाइतितृतीयइत्यर्थः ॥ ति० पौलस्यतनयइत्युक्तमेवार्थस्पष्टमाह-मुनेरिति । योमुनिर्विश्रवाः ब्रह्मणस्तृतीयापत्यं । तस्यभगवतोविश्रवसोऽहंतनयइत्यर्थः ॥ १४ ॥ ति० तत्रवै महाकुलप्रसूतत्वज्ञानकाले ॥ ॥ स० १५ ननुमन्दोदरीमहापतिव्रतेतितत्रश्रूयते । तादृशींकन्यामयोग्यायरावणायमयःकथंदत्तवानित्यतोवक्ति-सहीति । स मयः । तस्य रावणस्य तंप्रति । तपोधनात् विश्रवसः । दारुणप्रकृतिर्भविष्यतीतियःशापः तदभिज्ञःसन् तस्यपैतामहंकुलं पुलस्त्यवंशंविदिखा सादत्ता । अयंभावः । विजनेरावर्णपश्यन्मय अयंपित्रादत्तशापःकूरप्रकृतिरिमांपरमसुन्दरींकन्यामेकान्तेदृष्टवान्नपरित्यजति । बलादपहरत्येव । बलवांश्चासौ पुलस्त्यगोत्रोत्पन्नश्च । देयाचकन्येतिसर्वमालोच्य तां ददाविति ॥ १९ ॥ स० प्रभुः समर्थः भ्रातृभ्यां कुंभकर्णविभीषणयोरर्थे । भार्ये द्वेकन्ये । समुपाहरत् ॥ उदवाहयदितिपाठेविवाहयामासेत्यर्थः ॥ २१ ॥ स० ववृधे अवर्धत । कन्यावस्थानप्रदेशपर्यन्तमितिशेषः ॥ ति० तदा अस्यामानससरस्तीरेउत्पत्तिकाले । मानसंसरः जलदागमनिमित्तत स्तच्छिशुपर्यन्तंववृधे । ततोभीताया:कन्यायाआक्रन्दितंश्रुखातस्यामात्राकन्यान्नेहेनसरोमावर्धतेत्युक्तं । ततःसाकन्यासरमा ऽभवत् । पृषोदरादिखात्साधुः ॥ २४-२५ ॥ ति० जलधरोपमः जलधरनादोपमः ॥ २८ ॥ इतिद्वादश:सर्गः ॥ १२ ॥ [पा० ] १ क-घ. द्वौसुतौतुममखस्यांभार्यायांसंबभूवतुः. २ ड-ट, मयोदानवपुङ्गव , ३ झ. तत्रवै. ४ घ. ज समुदावहतू, ५ क. ग. उ . च. छ. झ. ल. ट. मावर्धतेत्युक्तं