पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृ तम् । खलंकृतैर्भवनवरैर्विभूषितां पुरन्दरस्येव तदाऽमरावतीम् ॥ ५० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकादशः सर्गः ॥ ११ ॥ द्वादशः सर्गः ॥ १२ ॥ ३१ शूर्पणखायाःकालकेयायविद्युजिह्वाय दानानन्तरं मृगयार्थमटवींपर्यटतादृशकण्ठेन तत्रमयस्यानुमत्या तत्तनयायामन्दो दर्या:परिणयः ॥ १ ॥ तथा वैरोचनदैौहित्र्यावज्रज्वालायाः शैलपतनयायाःसरमायाश्च क्रमेणकुंभकर्णविभीषणाभ्यामुद्वा हनम् ॥ २ ॥ तथा मन्दोदर्यामिन्द्रजिदुत्पादनम् ॥ ३ ॥ राक्षसेन्द्रोऽभिषिक्तस्तु भ्रातृभ्यां सहितस्तदा ॥ ततः प्रदानं राक्षस्या भगिन्याः समचिन्तयत ॥१॥ खैसारं कालकेयाय दानवेन्द्राय राक्षसीम् ।। ददौ शूर्पणखां नाम विद्युज्जिह्वाय नामतः ॥ २ ॥ अथं दत्त्वा स्वयं रक्षो मृगयामटते स्म तत् । तत्रापश्यत्ततो राम मयं नाम दितेः सुतम् ॥ ३ ॥ कन्यासहायं तं दृष्टा दशग्रीवो निशाचरः । अपृच्छत्को भवानेको निर्मानुष्यमृगे वने ।। अनया मृगशावाक्ष्या किमर्थ सह तिष्ठसि ।। ४ ।। मयस्त्वथाऽब्रवीद्राम पृच्छन्तं तं निशाचरम् । श्रूयतां सर्वमाख्यास्ये यथावृत्तमिदं मम ॥ ५ ॥ हेमा नैमाप्सरा तात श्रुतपूर्वा यदि त्वया ।। दैवतैर्मम सा दत्ता पौलोमीव शतक्रतोः ॥ ६ ॥ तस्यां सैक्तमनास्तात पञ्च वर्षशतान्यहम् । सा च दैवतकार्येण त्रयोदश समा गताः ॥ ७ ॥ वर्ष चतुर्दशं चैव ततो हेममयं पुरम् । वज्रवैडूर्यचित्रं च मायया निर्मितं मया ॥ ८ ॥ तंत्राहमवसं दीनस्तया हीनः सुदुःखितः । तस्मात्पुराहुहितरं गृहीत्वा वनमागतः ॥ ९ ॥ इयं ममात्मजा राजंस्तस्याः कुक्षौ विवर्धिता । भर्तारमनया सार्धमस्याः प्राप्तोसि मार्गितुम् ॥१०॥ कन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्किणाम् ॥ कन्या हि द्वे कुले नित्यं संशये स्थाप्य तिष्ठति।।११॥ गिरौ कैलासे । पुरीं अलकां । अत्र छन्दोभङ्ग आर्षों | कालकयाय कालकपुत्राय ।। २-७ ॥ वर्ष चतु ज्ञेयः ॥ ५० ॥ । इति श्रीगोविन्दराजविरचिते | देशमिति । चतुर्दशसंख्याविशिष्टं वर्ष च गतमित्यर्थ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- | हेममयं पुरं हेमपुरं । मायया विचित्रनिर्माण व्याख्याने एकादशः सर्गः ।। ११ ।। शक्तया ।। ८-९ । तस्याः कुक्षौ । हेमाया गर्भ इत्यर्थः । अस्या भर्तारं मार्गितुं अनया प्राप्तोस्मि स० कालकेयाय तद्भणगणितायविद्युज्जिह्वनामकायकस्मैचिद्दानवेन्द्राय । खसां आकारान्तोपिखसाशब्दोबर्ततइत्येवमुक्तं । भगिनीं ।। २ । स० तत्र मृगयार्थगतेस्थले । मयं दैत्यवर्धकिं ॥ ३ । शि० निर्गताःमनुष्यमृगाःयस्मात् अतिभयङ्करमित्यर्थः । किंच निर्मनुष्याः मनुष्यरहिताः मृगायस्मिन् । मृगमात्रसेवितमित्यर्थः । तस्मिन् । एकः पुरुषान्तरहितः ।। ४ ।। शि० सा हेमा । दैवतकार्येणहेतुना खर्गगतेतिशेषः । तत आरभ्यत्रयोदशसमाः वर्षाणि गताः । चतुर्दशंचवर्षगतं । ततोऽनन्तरं हेममयंपुरंमया माययानिर्भितं । तत्रपुरेतयाहीनोऽहमवसं । श्लोकद्वयमेकान्वयि । स० त्रयोदशसमाः त्रयोदशवर्षमभि व्याप्य । दैवतकार्येण देवतोदैश्यककार्यविशेषेणगता । चतुर्दशंवर्षे तस्मिन् ॥ ७-८ । ति० मार्गितुंप्राप्तोस्मि ।। १० ।। मानकाङ्किणां अभिमानेच्छूनां । दुःखं अभिमाननिवर्तकलात् ॥ स० दुःखं दुःखयतीतिदुःखं ॥ ११ ॥ [ पा०] १ ड. छ. झ. अ. ट. पुरन्दरःखरिवयथामरावतीं. २ क.ख. ग. ड-ट. भ्रातृभिःसहितस्तदा. घ. राक्षसैभ्रां तृभिस्तदा. ३ झ. ट. ठ. ददौतांकालकेन्द्रायदानवेन्द्रायराक्षसीम् । खसांश्शूर्पणखांनामविद्युज्जिह्वायराक्षसः. ४ ग. अथदत्वात् सारंसमृगयांपर्यटनृप. ५ ड. छ. झ. ज. ट. नामाप्सरास्तत्र. ६ ङ. झ. . ट. सक्तमनाह्यासंदशवर्षशतान्यहं. ७ क. ध कार्येणमयाविरहितागता. च. छ. कार्येणमयाविरहिताकृता. ८ क. तत्राहमरतिभुजंस्तया