पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २७ भगवन्कृतकृत्योहं यन्मे लोकगुरुः स्वयम् ॥ ग्रीतेन यदि दातव्यो वरो मे शृणु सुव्रत ।॥ ३० ॥ परमापद्रुतस्यापि धर्मे मम मतिर्भवेत् ॥ अशिक्षितं च ब्रह्मास्त्रं भगवन्प्रतिभातु मे ॥ ३१ ॥ या या मे जायते बुद्धिर्येषु येष्वाश्रमेषु च ।। सा सा भवतु धर्मिष्ठा तं तु धर्म च पालये ।। ३२ ।। एष मे परमोदार वरः परमको मतः । न हि धर्माभिरक्तानां लोके किंचन दुर्लभम् ।। ३३ । धुनः प्रजापतिः प्रीतो विभीषणमुवाच ह ॥ धर्मिष्ठस्त्वं यथा वत्स तथा चैतद्भविष्यति ।। ३४ ॥ यस्माद्राक्षसयोनौ ते जातस्यामित्रनाशन ॥ नाधर्मे जायते बुद्धिरमरत्वं ददामि ते ।। ३५ ।। इत्युक्त्वा कुम्भकर्णाय वरं दातुमुपस्थितम् । प्रजापतिं सुराः सर्वे वाक्यं प्राञ्जलयोऽबुवन् ॥ ३६ ॥ न तावत्कुम्भकर्णाय प्रदातव्यो वरस्त्वया । जानीषे हि यथा लोकांस्त्रासयत्येष दुर्मतिः ॥ ३७ ॥ नन्दनेऽप्सरसः सप्त महेन्द्रानुचरा दश । अनेन भक्षिता ब्रह्मछुषयो मानुपैस्तथा ॥ ३८ ॥ अलब्धवरपूर्वेण यत्कृतं राक्षसेन तु ॥ तैदेष वरलब्धः स्याद्रक्षयेदुवनत्रयम् ।। ३९ ।। वरव्याजेन मोहोसै दीयताममितप्रभ ॥ लोकानां स्वस्ति चैवं स्याद्भवेदस्य च संमतिः ॥ ४० ॥ एवमुक्तः सुरैर्बह्माऽचिन्तयत्पद्मसंभवः ।। "चिन्तिता चोपतस्थेऽस्य पार्श्व देवी सरखती ॥ ४१ ॥ प्राञ्जलिः सा तु पाश्र्वस्था प्राह वाक्यं सरखती । इयमस्म्यागता देव किं कार्य करवाण्यहम् ॥४२॥ प्रजापतिस्तु तां प्राप्तां प्राह वाक्यं सरखतीम् । वाणि त्वं राक्षसेन्द्राये भव या देवतेप्सिता ॥४३॥ तथेत्युक्त्वा प्रविष्टा सा प्रजापतिरथाब्रवीत् । कुम्भकर्ण महाबाहो वरं वरय यो मतः ॥ ॐम्भकर्णस्तु तद्वाक्यं श्रुत्वा वचनमब्रवीत् ।। खप्तुं वर्षाण्यनेकानि देवदेव ममेप्सितम् ॥ ३० ॥ परमांते श्लोकद्वयमेकं वाक्यं । ब्रह्मास्त्रं ब्रह्मा - | |॥३९॥ मोहः अज्ञानं । एवं मोहस्यैव प्रदाने अस्य च रुस्रमन्त्रं । पालये पालयेयं ।। ३१-३८॥ अलब्धवर- | सन्नतिः शिक्षा भवेत् ॥ ४० ॥ अचिन्तयत् । पूर्वेण पूर्वमलब्धवरेण कुम्भकर्णेन । यत् भक्षणात्मकं |देवीमिति शेषः ।। ४१-४२ । भव या देवतेप्सि कम कृतं तत् तस्मात् कारणात् । वरलब्धः | ता । याद्यम्यूपा देवतेः काङ्किता तादृशी भवेत्यर्थ लब्धवरः स्यात् स्याद्यदि भुवनत्रयमपि भक्षयेदित्यर्थ |॥ ४३ ॥ प्रविष्टा सा देवतोक्तरूपा प्रविष्टेत्यर्थ ति० हेभगवन् लोकगुरुः उत्पत्तिज्ञप्तिदाताभगवान्यन्मह्यप्रीतः । एतेनैवाहंकृतकृत्योस्मि । सर्वगुणैःपुरुषार्थेतश्चास्मि । खत्प्रीतेरे वसर्वपुरुषार्थसाधनत्वात् ॥ शि० भवान्यत्खयंमेसमीपमागतइतिशेषः अतोहंकृतकृत्यः ॥ ३० ॥ ति० अथापियदिप्रसन्नेनखया वश्यंकश्चिद्वरोदातव्यस्तदातंवरंश्श्रृणु । परमापद्रतस्य सांसारिकव्यवहारतःपरमामापदंप्राप्तस्यापिममधर्मेनारायणेमतिर्भवेत् । ‘रामो विग्रहवान्धर्मः' इत्युत्केरत्र धर्मपदेननारायणः । अन्यथासासाभवतुधार्मिछेत्यनेनपौनरुक्तयंस्यात् ॥३१॥ शि० यायेति । येषुये वाश्रमेषुब्रह्मचर्यादिषु यायामेबुद्धिजयते जायेत सासा धर्मिष्ठा तत्तदाश्रमोचितधर्मविशिष्टाभवतु । अतएव तंधर्ममहपालये पालयेयं ॥ ३२ ॥ ति० ईदृशस्य वरस्यपरमकत्वंखयमेवाह-नहीति ॥ ३३ ॥ शि० हेधर्मिष्ठयथावं तथैवएतत्तवप्रार्थनं । अतएतद्रविध्यत्येव ॥ ३४ ॥ स० अमरखं चिरजीवितां । ति० राक्षसयोनौजातस्यापियतोऽधर्मबुद्धिर्नजायते ततःप्रीतोहमम रखंतेददामि । एवमप्रार्थितममरखंब्रह्मणस्सकाशाद्धर्मबलाछब्धंविभीषणेनेतिनिष्कामतयादेवोपासनंसर्वार्थसाधनमितिबोध्यं ॥३५॥ शि० भक्षिताः बहवइतिशेषः ॥ ३८ ॥ स० अलब्धवरपूर्णेन पूर्णालब्धवरेण । वरलब्धः लब्धवरः । शि० अलब्धवरपूर्णेन नलब्धोवरःपूर्णःपूर्णावस्थाचयेनतेनराक्षसेनकुंभकर्णेन यद्यस्मात्कृतं बहूनांभक्षणमितिशेषः । तस्माद्धेतोः यद्येषपूर्णावस्थः वरलब्ध स्यात्तर्हि भुवनत्रयंभक्षयेत् ॥ ३९ ॥ ति० एवंमोहृदानेनैवलोकानांखस्तिस्यात् अस्यसंमतिः संमाननंचस्यात् । अचिन्तयत् देवीमितिशेषः ॥ ४०-४१॥ ति० अस्यास्येदेवतेप्सितादेवानामिष्टावाग्भव । याचतःकुंभकर्णस्यवदनाद्देवानुकूलानिस्सरेत्यर्थ । अंथाब्रवीत् सरखतीप्रवेशानन्तरमित्यर्थः ॥४३॥ शि० प्रविष्टा कुंभकर्णस्यमुखइतिशेषः ॥ ४४ ॥ ति० तद्वाक्यं ब्रह्मवाक्यं । [ पा० ] १ ख. ग. घ. ज. कुंभकर्णायतुवरंप्रयच्छन्तमरिंदम. २ क. मानुषादयः. ३ ड. च. छ. झ. ल. ट. यद्येष ४ ग. घ. ज. मोहोहिदीयतामस्यरक्षसः. ५ क. सरखतीगिरांदेवीसोपतस्थेप्रजाप.ि ६ क. खंकुंभकर्णस्यभववाग्देवतेप्सिता ७ क. तस्यतद्वचनंश्रुत्वाकुंभकर्णस्तथाऽब्रवीतू