पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् अथ वर्षसहस्र तु दशमे दशमं शिरः ॥ छेतुकामे दशग्रीवे प्राप्तस्तत्र पितामहः ।। १२ ॥ [देवैगन्धर्वसिद्वैश्च ऋषिभिः किंनरैः सह ॥ ] पितामहस्तु सुप्रीतः सार्ध देवैरुपस्थितः ॥ तैव तावद्दशग्रीव ग्रीतोस्मीत्यभ्यभाषत ।। १३ ।। शीघ्र वरय धर्मज्ञ वरो यस्तेऽभिकाङ्कितः ॥ तं ते कामं करोम्यद्य न वृथा ते परिश्रमः ।। १४ ।। अथाब्रवीद्दशग्रीवः प्रहृष्टनान्तरात्मना। प्रणम्य शिरसा देवं हर्षगद्दया गिरा ।। १५ ।। भगवन्प्राणिनां नित्यं नान्यत्र मरणाद्भयम् । नास्ति मृत्युसमः शत्रुरमरत्वमहं वृणे ॥ १६ ॥ एवमुक्तस्तदा ब्रह्मा दशग्रीवमुवाच ह ॥ नास्ति सर्वामरत्वं ते वरमन्यं वृणीष्व मे ।। १७ ।। एवमुत्ते तदा राम ब्रह्मणा लोककर्तृणा ।। दशग्रीव उवाचेदं कृताञ्जलिरथाग्रतः ।। १८ ।। सुपर्णनागयक्षाणां दैत्यदानवरक्षसाम् ॥ ऑवध्योहं प्रजाध्यक्ष देवतानां च शाश्वत ॥ १९ ॥ न हि चिन्ता ममान्येषु प्राणिष्वमरपूजित । तृणभूता हि ते भैन्ये प्राणिनो मानुषादयः ।। २० ।। एवमुक्तस्तु धर्मात्मा दशग्रीवेण रक्षसा ॥ उवाच वचनं देवः सह देवैः पितामहः । भविष्यत्येवमेतत्ते वचो राक्षसपुङ्गव ॥ २१ ॥ एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । शृणु चापि वरो भूयः प्रीतस्येह शुभो मम ।। २२ ॥ हुतानि यानि शीर्षाणि पूर्वमौ त्वयाऽनघ । पुनस्तानि भविष्यन्ति तथैव तव राक्षस ॥ २३ ॥ वितरामीह ते सौम्य वरं चान्यं दुरासदम् ॥ २४ ॥ छन्दतस्तव रूपं च मनसा यद्यथेप्सितम् ॥ भविष्यति न संदेहो मद्वरात्तव राक्षस ॥ २५ ॥ एवं पितामहोक्तस्य दशग्रीवस्य रक्षसः । अग्रौ हुतानि शीर्षाणि पुंनस्तान्युदितानि वै । । २६ ।। एवमुक्त्वा तु तं राम दशग्रीवं पितामहः । विभीषणमथोवाच वाक्यं लोकपितामहः ॥ २७ ॥ विभीषण खया वत्स धर्मसंहितबुद्धिना ॥ परितुष्टोसि धर्मात्मन्वरं वरय सुब्रत ॥ २८ ॥ विभीषणस्तु धर्मात्मा वचनं प्राह साञ्जलिः । वृतः सर्वगुणैर्नित्यं चन्द्रमा रश्मिभिर्यथा ।। २९ ।। स० ते खया अभिकाङ्कितः इच्छाविषयोयोवरस्तंवरय । तेपरिश्रमः शिरउत्कर्तनादिकायझेशः वृथानभवेत् । कंजनं अकामं कामितानवासेिं । करोमि तंवरय । वरस्यमोक्षवद्दलद्वयात्मकत्वादेवमुक्तिरितिमन्तव्यं । तेपरि परितः श्रमोयेनसः रिपुः कंकम पिकामं नाप्यादितिशेषः । तथा वृथाकरोमीतिवा । शि० मेपरिश्रमोवृथानेत्यभ्यभाषत ॥ १४ ॥ शि० मरणादन्यत्र अन्यत् प्राणिनांभयंन । अतोमृत्युसमःशत्रुर्न । अतोऽमरखमहंवृणे ॥ १६ ॥ ति० मेमत्तः ॥ १७ ॥ स० ब्रह्मणा नपुंसकलिङ्गोऽयं ब्रह्मशब्दश्चतुर्मुखवाची । “ब्रह्मणिजीवाःसर्वेपि” इत्युक्तेः । ‘ध्यायंध्यायंपरंब्रह्म'इतिमनोरमापद्यव्याख्यात्राकार्यब्रह्मव्यावर्तयितुं परमित्युक्तमितिपरपदकृत्यकथनाञ्च ‘तस्मादेतद्रह्मनामरूपंचजायते' इत्याथर्वणभाष्येएतद्रह्मचतुर्मुखइतिव्याख्यानाञ्च । “इकोचि विभक्तौ' इतिनुमिलोककर्तृणेत्युपपन्नं ॥ १८ ॥ स० सापवादोघरोदेयइतिचतुराननभावंविदिखातथैवकैश्चिदवध्यत्खयाचते सुपर्णेति । शि० अवध्योहंभवेयमितिशेषः ॥ १९ ॥ ति० भूयोन्यःशुभोवरोदीयते तच्छुणु । स० भूयः पुनः । यथोपलक्ष र्णनामदशास्यइतिनभवेत्तथा शुभोवरोदीयते तंत्र्थ्णु ॥ २२ ॥ स० मनसायद्यथेप्सितंरूपं तवछन्दतः ममतद्दानेच्छातः भविष्य तीतिशेषः । तेन छन्दतइतिवामनसायद्यथेप्सितमितिवाऽधिकमितिनिरस्तं । इदमेवरावणमारणबीजावपनमितिमन्तव्यं ॥ २५ ॥ शि० पुनरुत्थितानि अभवन्नितिशेषः ॥ २६ ॥ शि० परितुष्टः परितोषितोस्मि ॥ स० धर्मसंहितबुद्धिनाखया परितुष्टोस्मी त्यनेन तोषेबुद्धिःसमासेगुणीभूता कारणमितिसूचितमितिज्ञेयं ॥ २८ ॥ स० धारकखाद्धमॉभगवान् । तत्रात्मामनोयस्यसः । हेधर्मात्मन्नितिब्रह्माणंसंबोध्यसाञ्जलिराह् ॥ २९ ॥ [पा०] १ इदमधे क. ध. पाठयोर्टश्यते. २ ग. धर्मात्मासार्ध. ३ क. तातवत्सदशग्रीवसुप्रीतोस्मीत्यभाषत. ४ घ दशग्रीवःपितामहमुपागतं. ५ क. अवध्योहंभविष्यामि. ६ ख. ग. घ. ज. तेसर्वे. क. मेसर्वे . ७ क. घ. ड. च. ज. झ ट. पुनस्तान्युत्थितानिवै. ख. ग. यानितान्युत्थितानिवै. ८ क. एवमुक्तस्तुधर्मात्माप्रत्युवाचविभीषण . :९ घ. धर्मात्मा उवाचप्रणतोवचः, ग. ज. धर्मात्माप्रोवाचप्रणतोवच