पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ततस्तेनैव कोपेन दशग्रीवः सहानुजः ॥ चिकीषुदुष्करं कर्म तपसे धृतमानसः ॥ ४६ ॥ प्राप्स्यामि तपसा काममिति कृत्वाऽध्यत्रस्य च ॥ आगच्छदात्मसिद्धयर्थ गोकर्णस्याश्रमं शुभम् ॥४७॥ स राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । अतोषयञ्चापि पितामहं विधुं ददौ स तुष्टश्च वराञ्जयावहान् ।। ४८ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवभः सर्गः ॥ ९ ॥ दृशमः सर्गः ॥ १० ॥ रावणादितपस्तुटेनब्रह्मणारावणायतत्प्रार्थनानुसारेण मानुपान्यस्सर्वावध्यत्ववरदानपूर्वकं पुनःपरितोषाच्छेदेछेदेपुनर्नव नवशिरःप्ररोहादिविपयकवरान्तरदानम् ॥१॥ विभीषणाय तत्प्रार्थनानुरेधेनधार्मिकत्वादिवरदानपूर्वकं स्वयंचिरजीवित्ववर दानम् ॥ २ ॥ कुंभकर्णायवरदानप्रवृत्तेनत्रह्मणा देवगणप्रार्थनयासरस्वतींप्रति तजिह्वासंनिधानेनविपरीतवरवरणकरण प्रेरणा ॥ ३ ॥ ब्रह्मणा सरस्वतीविमोहितमनस्कतयाकुंभकर्णेनचिरस्वापयाचने तस्मैतद्दानपूर्वकंस्वलोकगमनम् ॥ ४ ॥ अथाब्रवीन्मुनिं रामः कैथं ते भ्रातरो वने । कीदृशं तु तदा ब्रह्मस्तपस्तेपुर्महाबलाः ॥ १ ॥ अगस्त्यस्त्वब्रवीन्तत्र रामं सुप्रीतमानसम् ॥ तांस्तान्धर्मविधींस्तत्र भ्रातरस्ते समाविशन् ॥ २ ॥ कुम्भकर्णस्ततो यत्तो नित्यं धर्मपथे स्थितः । तताप ग्रीष्मकाले तु पञ्चाग्रीन्परितः स्थितः ॥ ३ ॥ मेघाम्बुसिक्तो वर्षासु वीरासनमसेवत । नित्यं च शिशिरे काले जलमध्यप्रतिश्रयः ॥ ४ ॥ एवं वर्षसहस्राणि दश तस्यातिचक्रमुः । धर्मे प्रयतमानस्य सत्पथे निष्ठितस्य च ।। ५ ।। विभीषणस्तु धर्मात्मा नित्यं धर्मपरः शुचिः ॥ पञ्च वर्षसहस्राणि पादेनैकेन तस्थिवान् ।। ६ ।। समाप्त नियमे तस्य ननृतुश्चाप्सरोगणाः । पपात पुष्पवर्षे च क्षुभिताश्चापि देवताः ॥ ७ ॥ पञ्च वर्षसहस्राणि सूर्य चैवान्ववर्तत । तस्थौ चोध्र्वशिरोवाहुः स्वाध्यायधृतमानसः ।। ८ ।। एवं विभीषणस्यापि स्वर्गस्थस्येव नन्दने ।। दश वर्षसहस्राणि गतानि नियतात्मनः ।। ९ ।। दश वर्षसहस्राणि निराहारो दशाननः ॥ पूर्णे वर्षसहस्त्रे तु शिरश्चाग्रौ जुहाव सः ॥ १० ॥ एवं वर्षसहस्राणि नव तस्यातिचक्रमुः । शिरांसि नव चाप्यस्य प्रविष्टानि हुताशनम् ।। ११ ।। रहितं । दरिद्रमित्यर्थः ।। ४२-४८ । । इति | वीरासनं नाम वामोरूपरि दक्षिणजङ्कां प्रतिष्ठाप्य श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणि- | स्थितिः ।। ४-७ ॥ सूर्य चैवेति चकारेण पूर्ववदे मुकुटाख्याने उत्तरकाण्डव्याख्याने नवमः सर्गः ॥९॥ | कपादस्थितिः समुचीयते ।। ८ । स्वर्गस्थस्य देवस्य नन्दन इवेत्यनेन तपःप्रवृत्तिसंतोष उक्तः । । ९ ति० तपसे तपोथै । धृतमानसः निश्चितान्तःकरणः ।। ४६ । ति० इतिकृत्वा इतिबुद्धिंकृत्वा अध्यवस्य तथानिश्चित्यच । स० गोकर्णस्य तत्संबन्धि तत्रत्यमित्यर्थः ।॥४७॥ स० पितामहं ब्रह्माणं । अयंश्लोकउत्तरकथाप्रसंगार्थः ॥४८॥ इतिनवमः सर्गः ॥९॥ ति० धर्मविधीन् धर्मानुष्ठानानि ।। २ । ति० संक्षेपेणोक्तंप्रपञ्चयति-कुंभकर्णइत्यादि । ‘वहिभिःसूर्यपञ्चमैः’ इतिपाठे सूर्यःपञ्चमोयेषांतैर्वह्निभिरित्यर्थः । पञ्चाग्रीन्परितःस्थितइतिपाठेपि सूर्यसहिताएवपञ्चान्नयः । स० पञ्चाग्रीन्परितःकृत्वास्थित ॥३॥ स० धर्मात्मा भगवन्मनस्कः । धर्मपरः धर्मानुष्ठाता । तस्थिवान् यद्यपि ‘छन्दसिलिटः कसुः' इत्युक्तिः तथापि “तंत स्थिवांसंनगरोपकण्ठे” इत्यादिप्रयोगात्कचिल्लोकेऽपि ॥ ६ ॥ शि० दशाननतुदशवर्षसहस्रनिराहारोऽभवदितिशेषः ॥ १० ॥ शि० एवंप्रतिवर्षसहस्रशिरोहवनप्रकारेणतस्यरावणस्यनववर्षसहस्राण्यतिचक्रमु । अतएवनवशिरांसिहुताशनंप्रविष्टानि ॥ ११ ॥ [ पा० ] १ क-घ. ज. अथाब्रवीद्विजं. २ क. ख. घ. च. छ. कथांते.३ ख.ज. तपश्चेरुर्महात्रताः.४ च. ग्रीष्मकालेतुव हिभिःसूर्यपञ्चमः. क . प्रैष्मकेकालेवीरःपञ्चान्निमध्यगः. ५ ड. झ. ज. ट. तुष्टुवुश्चापिदेवताः. ६ च. विधृतात्मन