पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ श्रीमद्वाल्मीकिरामायणम् । [उत्तरकाण्डम् ७ प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ॥ सा तु तद्वचनं श्रुत्वा ग्रणिपत्याब्रवीद्वचः ॥ २३ ॥ भगवन्नीदृशान्पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः । नेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ।। २४ ।। कन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः ॥ उवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ २५ ॥ पश्चिमो यस्तव सुतो भविष्यति शुभानने । मम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ २६ ॥ एवमुक्ता तु सा कन्या राम कालेन केनचित् ॥ जनयामास बीभत्सं रक्षेोरूपं सुदारुणम् ॥ २७ ॥ दशग्रीवं महादंष्ट्र नीलाञ्जनचयोपमम् । ताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २८ ॥ तस्मिञ्जाते तु तत्काले सज्वालकबलाः शिवाः ।। क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः॥२९ ॥ ववर्षे रुधिरं देवो मेघाश्च खरनिखनाः ॥ बभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ३० ॥ चकम्पे जगती चैव ववुर्वताः सुदारुणाः ॥ अक्षोभ्यः क्षुभितथैव समुद्रः सरितां पतिः ।। ३१ ।। अथ नामाकरोत्तस्य पितामहसमः पिता ।। दशग्रीवः प्रसूतोयं दशग्रीवो भविष्यति ।। ३२ ।। तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ।। ३३ ।। ततः शूर्पणखा नाम संजज्ञे विकृतानना । विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ।। ३४ ।। तस्मिञ्जाते महासत्वे पुष्पवर्ष पपात ह ॥ ३५ ॥ नभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा ॥ वाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तथा ॥३६॥ तौ तु तत्र महारण्ये ववृधाते महौजसौ । कुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ३७ ॥ कुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् ॥ त्रैलोक्यं भक्षयन्नित्यासंतुष्टो विचचार ह ॥ ३८ ॥ विभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः ।। खाध्यायनियताहार उवास विजितेन्द्रियः ॥३९ ॥ अथ वैश्रुवणो देवस्तत्र कालेन केनचित् ॥ आगतः पितरं द्रष्ट पुष्पकेण धनेश्वरः ॥ ४० ॥ तं दृष्टा कैकसी तत्र ज्वलन्तमिव तेजसा ॥ औगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ४१ ॥ पुत्र वैश्रवणं पश्य भ्रातरं तेजसा घृतम् ॥ भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ४२ ॥ दशग्रीव तथा यलं कुरुष्वामितविक्रम । यथा त्वमसि मे पुत्र भव वैश्रवणोपमः ।। ४३ ॥ । मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । अमर्षेमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ४४ ॥ सत्यं ते प्रतिजानामि भ्रातृतुल्योऽधिकोपि वा ॥ भविष्याम्योजसा चैव संतापं त्यज हृद्वतम्॥४५॥ कूरबन्धौ राक्षसरूपे प्रियं येषां तान् ।। २२-२८॥ |स्ति । प्रमाणभूतेष्विति शेषः ।। ३३-३६ ॥ तत्र सज्वालकबला: ज्वालारूपास्यान्तर्गतकबलाः । शिवा: | महारण्ये पितुराश्रमारण्ये ।। ३७-३८ । स्वाध्याय वृद्धजम्बुकाः ।। २९ । देवः पर्जन्यदेव ॥ ३० – | नियतं आहारः अहरहरिति स्वाध्यायनियताहारः ३२ । यस्य प्रमाणाद्विपुलं प्रमाणं. नेह विद्यते नैवा- !।। ३९-४१ । आत्मानं ईदृशं कुबेरवद्दिव्यवैभव सा । ऋषिचरणमवलोकयन्तीत्यर्थः ॥ १५ ॥ ति० भगवन्ब्रह्मवादिनस्त्वत्तःईदृशान्पुत्रान्नेच्छामि । अतउत्तमपुत्रार्थप्रसादंकर्तुम हेसीत्यन्वयः ॥ २४ ॥ ति० पश्चिमः कनिष्ठः ॥ २६ ॥ ति० दशग्रीवइति । कामरूपत्वाचान्तःपुरादावेकवक्रत्वंद्विभुजखंचास्ये तिबोध्यं । शि० यतोऽयंदशग्रीवःप्रसूतः अतोदशग्रीवः तन्नामाभविष्यतीतिनामाकरोत् ॥ ३२ ॥ ति० अन्तरिक्षे साधुसाध्वि तिवाक्यं तदासीदितिशेषः ॥ ३६ ॥ ति० निल्यासंतुष्टः कियदपिभक्षणेनकदाचिदप्यसंतुष्टः ॥ स० नित्यंसंतुष्टोनित्यसंतुष्टः । महर्षीन्भक्षयन्नेवनित्यसंतुष्टःसन्विचचार ॥ ३८ ॥ ति० खाध्यायनियताहारः खाध्यायनियतोनियताहारथेत्यर्थः । स० खाध्या यार्थनियतोनियमितः आहारोयस्य ॥ ३९ ॥ स० वैश्रवणोपमोयथाभवेः तथायत्रंकुरुष्व ॥ ४३ ॥ [पा० ] १ क. ख. ध. ज. अथाब्रवीन्मुनिस्तत्रपश्चिमोयस्तवात्मजः. २ ख. घ. ज. नप्रभातिचखेसूर्योमहोल्काश्चापत- न्क्षितौ. ३ क-घ. ज. आस्थायराक्षसींबुद्धिं. च. आगता. ४ क. ख. घ. ज, भविष्याम्यचिरान्मातःसंतापं ५