पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । त्वत्कृते च वयं सर्वे यत्रिता धर्मबुद्धयः । त्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ।। कन्यापितृत्वं दुःखं हि सर्वेषां मानकाद्विणाम् ।। ८ ।। न ज्ञायते च कः कन्यां वरयेदिति कन्यके ।। ९ ।। मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । कुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ १० ॥ सा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । भज विश्रवसं पुत्रि पौलस्त्यं वरय खयम् ॥ ११ ॥ इँदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः ॥ तेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥ १२ ॥ सा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । तत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥१३॥ एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । अग्निहोत्रमुपातिष्ठचतुर्थे इव पावकः ॥ १४ ॥ अंविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । विलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ १५ ॥ स तु तां प्रेक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । अत्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ १६ ॥ भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । किं कार्य कस्य वा हेतोस्तत्त्वतो बूहि शोभने ।॥१७॥ एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ॥ आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥ १८ ॥ किन्तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । कैकसी नाम नाम्राऽहं शेषं त्वं ज्ञातुमर्हसि ॥१९॥ स तु गत्वा मुनिध्र्यानं वाक्यमेतदुवाच ह । विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ २० ॥ सुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । दारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ २१ ॥ शृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ।। दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ २२ ॥ प्रतिग्रहं न प्राप्रेोषीत्यर्थ ।। ७ । याश्रताः कृतप्र - | नात् । चरणाधोमुखी चरणसमीपाधोमुखी । विलि यासाः । धर्मबुद्धयः विवाहधर्मनिमित्तचिन्तावन्त : | खन्तीति चिन्तानुभाव ।। १५-१६ । कुतः ॥ ८ । कन्यापितृत्वस्य दुःखत्वमेव प्रदर्शयति--न | कस्माद्देशात् । किं कार्यं मया कर्तव्यं कस्य हेतो ज्ञायत इति ॥ ९ ॥ अथ वरणानन्तरमपि विशिष्य | कस्मै प्रयोजनाय ॥ १७ ॥ मे मतं त्वद्भर्तृकत्वाभिः दुःखहेतुत्वं कन्याया इत्याह-मातुरिति । संशये |लाषित्वं ॥ १८ ॥ तच वतुं लज्जावशादनुचितमिति स्थाप्य तिष्ठतीति । कथमस्याश्चारित्रभ्रंशो न भवि- | सूचयित्वा वतुमुचितमाह-क्रिन्त्विति ।। १९ ।। ष्यतीति कुलत्रयं चिन्ताकुलमेव सदा भवतीत्यर्थः | कारणं आगमनकारणं ।। २० । तदेवाह-सुतेति ॥ १०-१३ । उपातिष्ठत् प्रदोषे अग्निहोत्रं कृत . |॥ २१ । दारुणान् क्रूरस्वभावान् । दारुणाकारान् वानित्यर्थः ।। १४ । पितृगौरवात् पितरि बहुमा- | क्रूरवेषान् । दारुणाभिजनप्रियान् दारुणाभेिजने कमितिभीतैश्च वरैः कन्याकामुकैः । नपरिगृह्यसे नयाच्यसे ॥७॥ति० त्वत्कृते तवविशिष्टवरलाभार्थे। यत्रिताः कृतप्रयासाः ॥ स यत्रिताः यत्रवरास्तत्रगन्तव्यमितिनत्रीभूताः दुःखं दुःखकरं ।शि०हि यतस्खसर्वगुणोपेता अतएवश्रीरिवसि । एतेनखत्सदृशःपति दुर्लभइतिद्योतितं ॥८॥ ति० भज सेवख। सेवनेनचभर्तृत्वेनवरय ॥ ११ ॥ स० भास्करसमइत्यादिकंसौभाग्यादेव नसौरूप्यानुरू प्यात् । “कुत्साय तशब्दोऽयं शरीरंबेरमुच्यते। कुबेरः कुशरीरखान्नान्नातेनैवसोङ्कितः” इतिवायुपुराणोक्तः । भानुदीक्षितोपिकु त्सितं बेरंशरीरमस्य । कुष्ठित्वादित्युक्तवान्। अन्यत्रापि*खच्छखशैलेक्षितकुत्सबेरः'इतिच ॥१२॥ स० पितृगौरवातूपितृलगुरुखात सा स:कोपोस्याअस्तीतिसा । पिताखयंवरवरर्णकृखानविवाहितवानितिमानसरोषवती । गौरवपदखारस्यात् । सःभावप्रधानः । साधकताऽस्याअस्तीतिसा । ‘सःकोपेसाधकेच' इतिविश्वः ॥ १३ ॥ ति० दारुणांतांवेलां प्रदोषकालमित्यर्थः । पितृगैौरवादुप सृत्यमहाबलपराक्रमत्वेनख्यातस्य सुमालिनःपुत्र्यहं । अतोनप्राकृतेनर्षिणाऽनादरणीयेत्याशयेनेत्यर्थः । चरणमवलोकयदधःप्रवर्तितं मुखंयस्यास्सा चरणाधोमुखीस्थिता । स० चरणयोरधः अधःप्रदेशः तत्रमुखंयस्याइतिथा । शि० चरणाधोभागेमुखंयस्या [पा०] १ ख. ग. ज. सातुतांदारुणांवेलांविचिन्त्यपितृगौरवातू.