पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । भवान्नारायणो देवश्चतुबाहुः सनातनः राक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्यय उत्पद्यत दस्युवध शरणागतवत्सलः ॥ २७ एषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ २८ चिरात्सुमाली व्यचरद्रसातलं सराक्षसो विष्णुभयार्दितस्तदा। पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः २९ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टमः सर्गः नवमः सर्गः ॥ ९ ॥ [ उत्तरकाण्डम् ७ कदाचन तनयासहरसातलाद्भदूतलंगतेनसुमालिनाराक्षसेन विश्रवसोदर्शनायपुष्पकविमानेनगच्छतःकुबेरस्य दर्शनम् तत्ल्यपौत्रकामेनतेन निजकन्याया:कैकस्याविश्रवस्समीपंप्रति प्रेषणम् ॥ २ ॥ तपःप्रभावेनकैकसीभावविदातेन तांप्रति प्रदोषसमयसमागमनाद्धेतो रूक्षराक्षसरूपापत्यजननोक्ति ततस्तयाप्रार्थनाप्रसादितेनतेन पुनस्तांप्रति धर्मिष्ठकनिष्ठतनयजननविषयकवरदानम् ततःकैकस्यां कालक्रमेणविश्रवस्सकाशाद्रावणकुंभकर्णशूर्पणखाविभीष णानजननम् ॥ ५ रावणेन मातृप्रेरणयाकुंभकर्णविभीषणाभ्यांसह गोकर्णेतपश्चरणम् ॥ ६ कस्य चित्त्वथ कालस्य सुमाली नाम राक्षसः ।। रसातलान्मत्यलोकं सर्वे वै विचचार ह ॥ १ । नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ २ ॥ राक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् ॥ तदाऽपश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ३ ॥ गच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । तं दृष्टाऽमरसंकाशं खच्छन्दं तपनोपमम् ॥ ४ रसातलं प्रविष्टः सन्मल्लोकात्सविस्मयः ॥ इत्येवं चिन्तयामास राक्षसानां महामतिः किंकृतं श्रेय इत्येवं वधेमहि कथं वयम् ॥ अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ।। ६ पुत्रि प्रदानकालोऽयं यौवनं तेतिवर्तते । प्रत्याख्यानाच भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७ स्त्यमपि तवैवेत्याह--न चान्य इति । राक्षसान्ह विना पदां पदां त्यक्त्वा स्थितां २-५ न्तेति । स त्वं ॥ २५-२९ इति श्रीगोविन्द्रा- | राक्षसानां श्रेयः किंकृतं स्यात् केनोपायेन कृतं स्यात् जविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने | कथं वयं वर्धमहीत्येवं चिन्तयामासेति योजना ॥६ उत्तरकाण्डव्याख्यान अष्टमः सग प्रत्याख्यानात् भीतैरस्माभिस्त्वं वरैर्न प्रतिगृह्यसे इतिषष्ठीनिषेधः । देवकण्टकान् देवपीडाकरान् देवशत्रून्। यस्वंहन्ता सनारायणमृते नारायणंविना । अन्योन केवलमनुष्योन २५॥ ति० उत्पन्नः माययागृहीतदेहः ॥ २६ ॥ स० ततः सुमाल्यादिपरित्यागानन्तरं । लङ्कांलङ्कायां । अवसदितिवापूरणीयं २९ ॥ इत्यष्टमःसर्गः ॥ ८ ति० रसातलादिति । निस्सृत्येतिशेष १ ॥ स० विनापद्मंश्रियमिव । तेनैवविशेषस्तस्याएतस्याइतिभाव पुष्पकेणविमानेनसहगच्छन्तं तदारूढमितियावत् ॥३॥ सं० अमरसंकाशं वरलब्धसुरखात्तत्सदृशं । गच्छन्तं सर्वमवगच्छन्तं सुज्ञमितियावत् ॥ ४ ॥ ति० तंदृष्टापुनारसातलंप्रविष्टइत्यर्थ रसातलात्प्रविष्टःसन्मल्लोकं'इतिपाठे उक्तानुवादएवायं इत्येवंचिन्तयामासेत्यन्वयः ॥५॥ ति० प्रत्याख्यानाद्रीतैः प्रत्याख्यानशङ्काभीतैः । नप्रतिगृह्यसे नयाच्यसे । स० प्रत्याख्यानात् नेतिवदेत्किमितिप्रत्याख्यानातू अपुरस्करणेतिरस्करणशङ्कायाः महाबलस्यसुमालिनः । किलबालायाअबलात्वेनवरणे नशक्तिरमा [ पा०] १ ड. च. छ. झ. अ ट. धर्मव्यवस्थानां. २ क-घ. च. ज. केनचित्वथकालेन. ३ ख-ट. संकाशंगच्छन्तं पाक्कोपमं. ४ क. च. ज हितार्थचिन्तयामास. ५ ख, च. छ. झ. अ. ट, व्यतिवर्तते ४ स०