पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । युद्धश्रद्धाऽथवा तेऽस्ति शङ्खचक्रगदाधर । अहं स्थितोस्मि पश्यामि बलं दर्शय यत्तव ॥ ५ ॥ माल्यवन्तं स्थितं दृष्टा माल्यवन्तमिवाचलम् ॥ उवाच राक्षसेन्द्रं तं देवराजानुजो बली ।। ६ ।। युष्मत्तो भयभीतानां देवानां वै मयाऽभयम् ।। राक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७ ॥ प्राणैरपि प्रियं कार्य देवानां हि सदा मया ।। सोहं वो निहनिष्यामि रसातलगतानपि ॥ ८ ॥ देवदेवं बुवाणं तं रक्ताम्बुरुहलोचनम् ।। ३शक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो भुजान्तरे ।। ९ ।। माल्यवदुजनिर्मुक्ता शक्तिर्षण्टाकृतखना । हरेरुरसि बभ्राज मेघस्येव शतहदा ॥ १० ॥ ततस्तामेव चोत्कृष्य शक्ति शक्तिधरप्रियः ॥ माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ।। ११ ॥ स्कन्दोत्सृष्टेव सा शक्तिगविन्दकरनिःसृता । काङ्गन्ती राक्षसं प्रायान्महेन्द्रीवाञ्जनाचलम् ॥१२॥ सा तस्योरसि विस्तीर्णे हारभासावभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ।। १३ ॥ तया भिन्नतनुत्राणः प्राविशद्विपुलं तमः ॥ माल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ १४ ॥ ततः काष्णर्णायसं शूलं कण्टकैर्बहुभिर्तृतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ १५ ॥ तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ १६ ॥ ततोऽम्बरे महान्शब्दः साधु साध्विति चोदितः । आहत्य राक्षसो विष्णु गरुडं चाप्यताडयत् ॥१७॥ वैनतेयस्ततः कुद्धः पक्षवातेन राक्षसम् । व्यपोहद्धलवान्वायुः शुष्कपर्णचयं यथा ॥ १८ ॥ द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली खबलैः सार्ध लङ्कामभिमुखो ययौ ।। १९ ।। पक्षवातबलोदूतो माल्यवानपि राक्षसः ।। खबलेन समागम्य ययौ लङ्कां हिया वृतः ।। २० ।। एवं ते राक्षसास्तेन हरिणा कमलेक्षण । वहुशः संयुगे भग्रा हतप्रवरनायकाः ॥ २१ ॥ अशक्नुवन्तस्ते विष्णु प्रतियोढुं भयार्दिताः । त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपतयः ॥२२॥ सुमालिनं समासाद्य राक्षसं रघुसत्तम ॥ स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २३ ॥ ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः ॥ सुमाली माल्यवान्माली ये च तेषां पुरस्सराः ।। संवें तेभ्यो महाभाग रावणाद्वलवत्तराः ।। २४ ।। न चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् ॥ ऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ २५ ॥ क्षुद्रजन इव ॥३-५ ॥ पराङ्झुखवधोक्तदोषः स्वप्र- | तथा पक्षपातेन राक्षसं व्यपोहत् ।। १८ । दृश्य तिज्ञापालनपरस्य नास्तीत्याह-माल्यवन्तमिति ॥ ६ | दृष्टा ।। १९-२१ ॥ सहपन्नयः सस्रीका इत्यर्थः १० । तामेव स्ववक्षोलझामेव । शक्तिधरप्रियः | ।। २२ । सालकटङ्कटे सालकटङ्कटा माल्यवदादीनां सुब्रह्मण्यप्रियः । माहेश्वरार्चनं चिन्त्यं ॥ ११-१२॥ | पितामही विद्युत्केशपत्री तस्याः संबन्धी सालकट हारभासा मुक्ताहारकान्त्या । कूटं श्रृङ्गं ॥ १३ ॥ |ङ्कट: तस्मिन्वंशे प्रख्यातवीर्याः । वृद्धाच्छाभाव आर्षे तमः मोहः ।। १४-१५ । रणेरक्त: रणप्रियः । |॥ २३ ॥ ये पौलस्त्या रावणाद्यो निहतास्तेभ्य मुष्टिना च ताडयित्वा अपक्रान्त : । पृष्ठत इति शेषः | रावणाच माल्यवदाद्यो बलवत्तराः ॥ २४ ॥ ताह ॥ १६-१७ । वायुः शुष्कपर्ण यथा व्यपोहति | किं मे प्राशस्यं भवद्भिरुच्यत इति शङ्कायां तत्प्राश इतोदेहाद्भतः सन् खर्गनलभते । सहृन्तानहतइतिपाठे हतः दैवहतइत्यर्थः ॥४॥ ति० तत्तवबलमहं यथापश्यामि तथा दर्शयेत्यर्थ ॥ ५ ॥ स० प्रियंकार्ये देवराजावरजत्वात्सखांशखाच ॥ शि० येनमयादेवानांप्रियंप्राणैरपिकार्ये सोहंरसातलगतानपिवोयुष्मा निहनिष्यामि ॥८॥ ति० हारभारः हारसमूहः तेनावभासिते ॥१३॥ स० अभ्यहनत् अभ्यहन् ॥ १५ ॥ स० द्विजेन्द्रोगरुड ॥ १९ ॥ स० वलार्दिताः विष्णुबलार्दिताः । सहपन्नयः सभार्याः ॥ २२ ॥ राक्षसान्हन्ता । तृन् । “ नलोक [ पा०] १ क. ध. ज. शक्तिमुमोचसंकुद्धोराक्षसेन्द्रोररासह. २९ झ. भारावभासिते. ३ क-ट. राक्षसाराम. ४ ग छ, झ. अ. ट, सर्वएतेमहाभाग. ज. सर्वएतेमहावीर्ये