पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● 1 सर्गः १०९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २६३ तं यान्तमनुगच्छन्ति ह्यन्तः पुरचराः स्त्रियः ॥ सद्धबालदासीका: सवर्षवरकिङ्कराः ॥ १० ॥ सान्तः पुरश्च भरतः शत्रुघ्नसहितो ययौ ॥ रामं गतिमुपागम्य साग्निहोत्रमनुव्रतः ॥ ११ ॥ ते च सर्वे महात्मानः साग्निहोत्रा : समागताः || सपुत्रदाराः काकुत्स्थमैनुजग्मुर्महामतिम् ॥ १२ ॥ मन्त्रिणो भृत्यवर्गाश्च संपुत्र पशुवान्धवाः || सर्वे सहानुगा राममन्वगच्छन्ग्रहृष्टवत् ॥ १३ ॥ ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ॥ गच्छन्तमन्वगच्छंस्तं राघवं गुणरञ्जिताः ॥ १४ ॥ ततः सस्त्रीपुमांसस्ते सपक्षिपशुवाहनाः || राघवस्थानुगाः सर्वे हृष्टा विगतकल्मषाः ॥ १५ ॥ स्नाता : प्रमुदिताः सर्वे हृष्टाः पुष्टाश्च वानराः ॥ दृढं किलकिलाशब्दैः सर्वं राममनुव्रतम् ॥ १६ ॥ न तत्र कश्चिंद्दीनो वा वीडितो वाऽपि दुःखितः ॥ हृष्टं प्रमुदितं सर्व बभूव परमाद्भुतम् ॥ १७ ॥ कमोथ निर्यान्तं रामं जानपदो जनः ॥ यः प्राप्तः सोपि द्वैव स्वर्गायानुगतो मुदा ॥ १८ ॥ ऋक्षवानररक्षांसि जनाश्च पुरवासिनः || आगच्छन्परया भक्त्या पृष्ठतः सुसमाहिताः ॥ १९ ॥ यानि भूतानि नगरेप्यन्तर्धानगतानि च ॥ राघवं तान्यनुययुः स्वर्गाय समुपस्थितम् ॥ २० ॥ यानि पश्यन्ति काकुत्स्थं स्थावराणि चराणि च ॥ सर्वाणि रामगमने ह्यनुजग्मुर्हतान्यपि ॥ २१ ॥ नोच्छ्रसत्तदयोध्यायां सुसूक्ष्ममपि दृश्यते || तिर्यग्योनिगताश्चापि सर्वे राममनुव्रताः ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥ • नपुंसका वर्षवराः ॥ १०-१२ || प्रहृष्टवत् देह- | मिति | वानरबलमिति शेषः ||१६|| ब्रीडित इति । विसर्जनसमये समीपावस्थानजःप्रहर्षः ||१३-१५|| भगवदपराधादिना | पूर्वकृतेनेतिशेषः ॥१७-१९॥ किलकिलाशब्दैरिति । उपलक्षितमिति शेषः । सर्व- | स्वर्गाय ब्रह्मलोकगमनाय || २०–२१ ॥ उच्छृसत् जन्तूनांब्रह्मलोकस्यैव प्राप्तेरितिबोध्यं । अतएव बहुशः प्रागुतं | ' रामोराज्यमुपासिलाब्रह्मलोकंग्रमिष्यति ' इति रामस्थितिलोक- स्यैव ब्रह्मलोकत्वाच ॥ स० स्वर्गद्वारं सांतानिकादिवैकुण्ठपर्यन्तं | तत्तयोग्यतामनुसृत्यगतिः । अतएवमुक्तिः ॥ ९ ॥ स० स्त्रियः अन्तःपुरचराः अन्तःपुरचर्यः | पचादिरयं । तेनाकारान्तता | अन्तःपुरचराः पुरुषाः विश्वस्तावृद्धावा ॥ १० ॥ स० गतिं मुख्यप्राप्यं ॥ ११ ॥ स० सर्वे तदन्ये । प्रहृष्टवत् प्रहृष्टाः | स्वार्थेवतिः । यत्तुनागोजिभट्टेन — देहविसर्जनेसमी पावस्था- नलाभजःप्रहर्षः । पुत्रैस्तुतन्नलब्ध मिति प्रहृष्टव दितिव्याख्यातं । सर्वसंगविभङ्ग पूर्वकंमहातोषेणगच्छतांस्वच्छहृदयानांपोतचिन्तया किंचित्संकुचितता मुदि नवक्तमुचितेतितन्नोचितम् ॥ इदानीमेवाशेषतोषाविर्भावाभावाद्वा प्रहृष्टवदित्युक्तिः ॥ १३ ॥ स० गुणरजिताः तद्गुणरजिताः ॥ १४ ॥ ति० दृढं दृढानुगमननिश्चयं ॥ १६ ॥ ति० दीनः दीनाकृतिः । व्रीडितः गतेरामेकथ- महंतिष्ठामीतिलज्जावशान्नरामानुगमनं । किंतुसंतोषेणैवेत्यर्थः । समुदितं मिलितंसर्वेपरमाद्भुतं परलोकगमनायैवंविधहर्षयुक्त- मित्यत्याश्चर्यकरमभूदित्यर्थः ॥ स० दीनः आकारतः । व्रीडितः । वस्तुतस्तु ममवस्तुमिच्छा | निर्गतेरामेकथमवस्थानमितिल- ज्जावर्जितः । मनःपूर्वकमेवगमनमनेनाभित्रैति ॥ १७ ॥ स० योजानपदोजनःप्राप्तः सोपिनिर्यान्तंरामंदृष्ट्वानुगतः । स्वगृहगत - सुतादिमुखाविलोकनादिकंसूचयत्येवकारेण । स्वर्गायैवानुगतः । संकल्पकालेऽसत्त्वान्मध्ये मार्गमागतानांनमुक्तिभाक्त्वं किमित्यत आह—अजनइति । सोपिजनः पुनर्जन्मतन्म हिमतोनाप्नोदितिभावः । अतोनजनपुनर्वचनशङ्का ॥ १८ ॥ ति० अन्तर्धानगतानि भूतप्रेतपिशाचादीनि भद्रकाल्यादीनिच ॥२०॥ ति० स्थावराणीति | स्थावराणामनुगमनंभगवतोरामस्य सदयावलोकनेनतदानीं ज्ञानक्रियाशक्त्युद्भवादुपपद्यते ॥ २१ ॥ इतिनवाधिकशततमःसर्गः ॥ १०९ ॥ [ पा० ] १ क-घ. ततोविप्रामहात्मानः. २ ज. मन्वगच्छन्महीपतिं. क. ग. घ. मन्वगच्छन्महामतिं. ३ क. ग. घ. ज. सपुत्रास्सहबान्धवाः ख. सभृत्याः सहबान्धवाः. ४ ख. ज. अनुजग्मुःप्रयान्तं हिराघवं. ङ च झ ञ ट गच्छन्तमनुगच्छन्तिराघवं. ५ ङ. झ. हृष्टपुत्राचवानराः ६ च सर्वेराममनुव्रताः ७ ज. द्दीनोभूद्वालिशोवापि. च. द्दीनो- भूनक्कीबोनापिदुःखितः ८ झ. ठ. समुदितं. ९ क - घ. ज. निर्याणराज्ञोजानपदो. १० क. ख. ग. ज. संप्राप्तः ११ क. ख. ज. सत्वानिस्वर्गगमने. १२ क. नचसक्तमयोध्यायां च. नासीत्सत्वमयोध्यायां.