श्रीमद्वाल्मीकि रामायणम् । दशोत्तरशततमः सर्गः ॥ ११० ॥ श्री रामेण सकलजनैः सहस्त्रलोकगमनाय सरयूगमनम् ॥ १॥ तथा तत्रागतचतुर्मुखप्रार्थनया वैष्णवतेजःप्रवेशनम् ॥२॥ तथा स्वान्वागतानांजनानां चतुर्मुखद्वारा सांतानिकलोकप्रापणम् ॥ ३ ॥ वानरादिभिश्चसह सरय्वामवगाहनेनस्वलोकग- मनम् ॥ ४ ॥ अध्यर्धयोजनं गत्वा नहीं पश्चान्मुखाश्रिताम् || सरयूँ पुण्यसलिलां ददर्श रघुनन्दनः ॥ १ ॥ तां नदीमाकुलावर्ती सर्वत्रानुसरन्नृपः || आगतः समजो रामस्तं देशं रघुनन्दनः ॥ २ ॥ अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ॥ सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥ ३ ॥ आययौ यत्र काकुत्स्थ: स्वर्गाय समुपस्थितः ॥ विमानशतकोटीभिर्दिव्याभिरभिसंवृतः ॥ ४ ॥ दिव्यतेजोवृतं व्योम ज्योतिर्भूतमनुत्तमम् ॥ स्वयंप्रभैः स्वतेजोभिः स्वर्गिभिः पुण्यकर्मभिः ॥ ५॥ पुण्या वाता चतुश्चैव गन्धवन्तः सुखप्रदाः ॥ पपात पुष्पवृष्टिश्च देवैर्मुक्ता महौघवत् ॥ ६ ॥ तस्सिंस्तूर्यशतैः कीर्णे गन्धर्वाप्सरसंकुले || सरयूसलिलं रामः पद्भ्यां समुपचक्रमे ॥ ७ ॥ ततः पितामहो वाणिमन्तरिक्षादभाषत || आगच्छ विष्णो भद्रं ते दिष्ट्या प्राप्तोसि राघव ॥ ८ ॥ भ्रातृभिः सह देवामैः प्रविशस्व स्विकां तनुम् || यामिच्छसि महाबाहो तां तनुं प्रविश स्विकाम् || वैष्णवीं तां महातेजस्तद्वाऽऽकाशं सनातनम् ॥ ९ ॥ त्वं हि लोकगतिर्देव न त्वां केचित्प्रजानते ॥ ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम् || .२६४ [ उत्तरकाण्डम् ७ सप्राणमित्यर्थः । सुसूक्ष्ममपि न दृश्यते । अननुया- | समृद्धार्था ॥ ६ ॥ गन्धर्वाप्सरसंकुले गन्धर्वाप्सर:- तमितिशेषः ॥ २२ ॥ इति श्रीगोविन्दराजविरचिते संकुले | पद्भ्यां समुपचक्रमे गन्तुमिति शेषः ॥ ७ ॥ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- अन्तरिक्षादभ्याशमागत्याभाषतेत्यर्थः ॥ ८॥ स्विकां व्याख्याने नवोत्तरशततमः सर्गः ॥ १०९ ॥ तनुमिति | त्वं विष्णुतनुं लक्ष्मण: शेषतनुं भरतो | गरुडतनुं शत्रुघ्नो विष्वक्सेनतनुमित्यर्थः । तद्वाऽऽ- काशं सनातनं । “ऋचो अक्षरे परमे व्योमन् ” इति श्रुत्युक्तपरमाकाशं विष्ण्ववतारकुलस्थानं वैकुण्ठं वा प्रविशेत्यर्थः ॥ ९ ॥ अनन्तरोक्तपक्षं विवृणोति — त्वं अर्धाधिकं योजनमध्यर्धयोजनं । पश्चान्मुखाश्रितां पश्चान्मुखेन स्वेनाश्रितां ॥ १-४ ॥ स्वयंप्रभैः स्नेहं विना स्वयमेव प्रकाशमानैः ॥ ५ ॥ महौघवत् महा- तंदेशं स्वर्गप्रापकंदेशं ॥ २ ॥ ति० तस्मिन्मुहूर्तेलोकपितामहोब्रह्माआययावित्युत्तरेणान्वयः | रामपरिकरस्ययथोचितलो- कप्रापणार्थमितिशेषः ॥ ३ ॥ ति० स्वर्गाय स्वर्गेगन्तुं ॥ ४ ॥ ति० प्रथमतोदिव्यतेजसाव्याप्तंव्योम | स्वयंप्रभैः स्वयमेवप्रका- शान्तर नैरपेक्ष्येण प्रकाशमानैः खर्गिभिःख तेजोभिः किरणैः अनुत्तमं अतिशयेनज्योतिर्भूतं ज्योतिर्मय मभूदित्यर्थः ॥ ५ ॥ ति० अन्त- रिक्षात्समीपमागत्यअभाषतेत्यर्थः । हेविष्णो लोकानुग्रहायगृहीत विष्णुशरीर ब्रह्मवाघवदिष्ट्या प्राप्तोसि । मायागृहीतदुःखमयनट- नयोग्यमनुष्यशरीरविसर्जनकालंप्राप्तोसि । तेभद्रमस्तु कल्याणमस्तु । अद्यागच्छ । यतोलोकान्मनुष्यलोकंगत स्तंलोकमित्यर्थः ॥ स० दिष्ट्याभुवंप्राप्तोसिनोहग्विषयः । ' अध्यर्धयोजनंगत्लानदीपश्चान्मुखःस्थितः । सरयूंपुण्यस लिलांप्रविवेशसहानुगः | अब्रवी- द्राघवंब्रह्माप्रविष्टंसरयूजलम् । आगच्छविष्णोभद्रं तेपरंधामसमाश्रय |' इतिपाद्मोक्तेः । तेसकाशाद्भद्रंनोस्त्वितिया ॥ ८ ॥ ति० तदर्थच देवाभैः देवस्यतवसदृशैर्भ्रातृभिः सह स्विकांतनुं स्वतनुवदत्यन्तप्रियंलोकंप्रविश । अत्रभ्रातृभिरिति बहुवचनेनलक्ष्मण- स्यापितदानींतत्रागमनंसूचयती तितीर्थः । ऋतकस्तुयद्यपिशत्रुघ्न एक एवगच्छति । तथापिपुरोगतस्यसहगच्छतःपश्चादागमिष्यतश्च भ्रातुस्तत्रप्रवेशः सामान्येनाद्यतन प्रवेश इत्युच्यते इतिनविरोधइतिव्याचख्यौ । भरतानुगमनंभगवद्देह विसर्जनदर्शनपर्यन्त मितिचपूर्व- सर्गे ' सान्तः पुरश्चभरतः शत्रुघ्नस हितोययौ ' इतिपथेव्याख्यातिस्मच | तत्रभरतस्यपश्चाद्गमनेमूलमन्वेष्टव्यम् । पूजायांबहुवचन- मित्यन्ये । ननुमदीयतनूनाम नेकत्वात्क्कचित्प्रविशेत्युच्यतेतत्राह - यामिति ॥ स० भ्रातृभिः प्राग्गतलक्ष्मणेनसह । पुरश्चभरतःशत्रुघ्नसहितोययौ ' इतिपद्यस्य | पिसरयूप्रवेशकालेभरतादिमेलनमर्थइतिनतद्विसंवादः । स्विकांतनुं प्रविश विश | व स्वतन्त्र । ' स्वातन्त्र्यात्खइतिप्रोक्त: ' इतिस्मृतेः । खकां सुखरूपिणीं ॥ ९ ॥ ति० तदेवविशदयति — वैष्णवीमिति । [ पा० ] १ च. छ. ञ. ट. देवैर्भूषितैश्च २ क. वृष्टिश्चवायुमुक्ता महात्मनि. • सान्तः-
पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६८
दिखावट