पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०८ ] श्रीमद्गोबिन्दराजीयव्याख्यासमलंकृतम् । अभिषिच्य सुतौ वीरौ प्रतिष्ठाप्य पुरे तदा || दूतान्संप्रेषयामास शत्रुघ्नाय महात्मने ॥ २१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥ २५९ अष्टोत्तरशततमः सर्गः ॥ १०८ ॥ दूतमुखात्परलोकगमनोद्यमादिरामवृत्तान्तमवगतवताशत्रुघ्नेन पुत्रद्वयस्य राज्यद्वयेऽभिषेचन पूर्वंकमयोध्या मेत्यरामंप्रति सप्रणामस्वस्थानुगमनाभ्यनुज्ञानप्रार्थने रामेण तदनुज्ञानम् ॥ १ ॥ सुग्रीवेणाङ्गदस्य राज्येऽभिषेचन पूर्वक मृक्षवानरादिभिः सहाभिवादन पूर्वकरामंप्रतिसानुचरस्य स्वस्य तदनुगमनाङ्गीकरणप्रार्थने तेन तदङ्गीकरणम् ॥ २ ॥ रामेण हनुमद्विभीषणौप्रति धरण्यामा चन्द्रार्कावस्थानचोदन पूर्वकंमैन्दद्वि विदजाम्बवतांमे दिव्यांचिरावस्थानचोदना ॥ ३ ॥ ते दूता रामवाक्येन चोदिता लघुविक्रमाः || प्रजग्मुर्मधुरां शीघ्रं चक्रुर्वासं च नाध्वनि ॥ १ ॥ ते तु त्रिभिरहोरात्रैः संप्राप्य मधुरामथ || शत्रुघ्नाय यथातत्वमाचख्युः सर्वमेव तत् ॥ २ ॥ लक्ष्मणस्य परित्यागं प्रतिज्ञां राघवस्य च ॥ पुत्रयोरभिषेकं च पौरानुगमनं तथा ॥ ३ कुशस्य नगरी रम्या विन्ध्यपर्वतरोधसि || कुशावतीति नाम्ना सा कृता रामेण धीमता || श्रावस्तीति पुरी रम्या श्राविता च लवस्य च ॥ ४ ॥ अयोध्यां विजनां कृत्वा राघवो भरतस्तथा ॥ स्वर्गस्य गमनोद्योगं कृतवन्तौ महारथौ ॥ ५ ॥ एवं सर्वे निवेद्याशु शत्रुघ्नाय महात्मने || विरेमुस्ते ततो दूतास्त्वर राजेति चाब्रुवन् ॥ ६ ॥ तच्छ्रुत्वा घोरसंकाशं कुलक्षयमुपस्थितम् || प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ॥ ७ ॥ तेषां सर्वे यथावृत्तमब्रवीद्रघुनन्दनः || आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ॥ ८ ॥ ततः पुत्रद्वयं वीरः सोभ्यषिञ्चनराधिपः || सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ॥ ९॥ द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः ॥ धनं चयुक्तं कृत्वा वै स्थापयामास पार्थिवः ॥१०॥ सुबाहु मधुरायां च वैदिशे शत्रुघातिनम् ॥ ययौ स्थाप्य तदाऽयोध्यां रथेनैकेन राघवः ॥ ११ ॥ स ददर्श महात्मानं ज्वलन्तमिव पावकम् || सूक्ष्मक्षौमाम्बरधरं सुनिभिः सार्धमक्षयैः ॥ १२ ॥ थे ।। १८-२१ ॥ इति श्रीगोविन्दराजविरचिते | नुमतिं ॥ ३ ॥ कुशस्य कुशावती पुरी लवस्थ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड - श्रावस्तीति श्रावितेत्यन्वयः ॥ ४–५॥ त्वर गमनाय व्याख्याने सप्तोत्तरशततमः सर्गः ॥ १०७ ॥ त्वरितो भव । राजेति | राजन्नित्यर्थः ||६|| काञ्चनं काञ्चनाख्यं ||७|| विपर्यासं देहवियोगं ॥८-९॥ धनं युक्तं च कृत्वेति । यथोचितं यथाशास्त्रं विभागं कृत्वे राघवस्य प्रतिज्ञामिति । कालपुरुषं प्रति ब्रह्मलोका गमन प्रतिज्ञामित्यर्थः । पौरानुगमनं पौरानुगमना- ॥ १७ ॥ स० शत्रुघ्नाय इमांवातवक्तुं ॥ २१ ॥ इतिसप्ताधिकशततमः सर्गः ॥ १०७॥ स० ततः अयोध्यातोनिर्गमनानन्तरं | अथ शत्रुघ्नदर्शनानन्तरं ॥ २ ॥ स० श्राविता प्रसिद्धिंप्रापिता ॥ ४ ॥ विजनां सर्व- जनानामनुगमनमनस्कत्वाद्विजनांकृत्वेतिसंभवति ॥ ५ ॥ यथावृत्तमब्रवीत् लक्ष्मणत्यागस्य निर्हेतुकत्वशङ्काव्यावृत्त्यर्थमितिभावः ॥ स० भ्रातृभिः गतेनसहत्रिभिः | ति० भविष्यं भविष्यन्तं ॥ ८ ॥ स० तन्नामनीआह— सुबाहुरिति । वैदिशं तन्नामकंग्रामं । ननुपाद्मे — 'शत्रुघ्नोपिसुतौस्थाप्यमधुरायामथागमत् ' इत्युक्ते रित्युक्तिः कथमितिचेत् — वैदिशस्यापिमधुराधस्तनपत्तनतयामधुरा- यामित्युक्तिःपाद्मेइतिसमाधिरवधेयः | माधुरीं पूर्वमधुरानगरगां ॥ ११ ॥ ति० मुनिभिः सार्धं आसीनमितिशेषः ॥ १२ ॥ [ पा० ] १ झ. ठ. ततस्त्रिभिः• २ च. छ. च्यवनंचपुरोधसं. ३ क. ग. घ. च. छ. धनधान्यसमायुक्तौस्थापयामासपा- र्थिवौ. ४ क. ख. घ. ज. ततोविसृज्यराजानंवैदिशे. ५ क–घ, ज. जगामत्वरितोऽयोध्यां