पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ सोभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः || उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ॥ १३ ॥ कृत्वाऽभिषेकं सुतयोर्युक्तं राघवनन्दन || तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ १४ ॥ न चान्यदपि वैक्तव्यमतो वीर न शासनम् ॥ [ त्यक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः ॥ ] विलोक्यमानमिच्छामि त्वद्विधेन विशेषतः ॥ १५ ॥ तस्य तां बुद्धिमलीवां विज्ञाय रघुनन्दनः || बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ॥ १६ ॥ तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः ॥ ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ॥ १७ ॥ सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः ॥ ते रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ॥ १८ ॥ देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा || रॉमक्षयं विदित्वा ते सर्व एव समागताः ॥ १९ ॥ ते राममभिवाद्योचुः सर्वे वानरराक्षसाः ॥ तवानुगमने राजन्सप्राप्ताः कृतनिश्रयाः ॥ २० ॥ यदि राम विनाऽस्माभिर्गच्छेस्त्वं पुरुषोत्तम || यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ||२१|| तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत्स्मयन् ॥ २२ ॥ एतस्मिन्नन्तरे रामं सुग्रीवोपि महाबलः ॥ प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ॥ २३ ॥ अभिषिच्याङ्गदं वीरमागतोस्सि नरेश्वर ॥ तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ॥ २४ ॥ तस्य तद्वचनं श्रुत्वा रामो रमयतांवरः || वानरेन्द्रमथोवाच मैत्रं तस्यानुचिन्तयन् ॥ २५ ॥ सखे शृणुष्व सुग्रीव न त्वयाहं विनाकृतः ॥ गच्छेयं देवलोकं वा परमं वा पदं महत् ॥ २६ ॥ विभीषणमथोवाच राक्षसेन्द्रं महायशाः ॥ यावत्प्रजा धरिष्यन्ति तावत्वं वै विभीषण || राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ॥ २७ ॥ यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ॥ यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ॥ २८ ॥ शासितस्त्वं सखित्वेन कार्य ते मम शासनम् || प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ॥ २९ ॥ किंचान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ॥ ३० ॥ त्यर्थः ।।१० - १४॥ अन्यन्न वक्तव्यमिति । मास्त्विति | ण्डमुद्यम्येव त्वया विनिपातिताः स्म । हताः स्मेत्यर्थः म वक्तव्यमित्यर्थः । विलोक्यमानमित्यादि । त्वद्विधेन ॥ २१–२६ ॥ एवं तेषामनुगमनार्थवचनं श्रुत्वा परमानुग्रहसमर्थेन । विलोक्यमानं अनुगृह्यमाणमेव व्यवस्थामाह - विभीषणमित्यादि ॥ विभीषणस्य संपादयितुमालानमिच्छामि ॥ १५-२० ॥ यमद- | ब्रह्मणा अमरत्वप्रदानप्रदर्शनात् स्नेहेनैवावस्थानं शा- स० प्रयतेन्द्रियः सरामव्यापारानुकूल्यप्रवर्तनेन्द्रियः ॥ १३ ॥ स० सुतयोः सुबाहुशत्रुघातिनोः ॥ १४ ॥ ति० 'विहन्य- मानमिच्छामि मद्विधे नविशेषतः' इतिपाठेहेवीर तवशासनंम द्विधेन विहन्यमानंनेच्छामीतिसंबन्धः ॥ १५ ॥ स० वाक्यान्ते वचनावसाने । वाक्यस्यवाक्यान्तइतिपाठे वाक्यमस्यास्तीतिवाक्योवक्ता रामस्तस्यवाक्यान्तइत्यर्थः । यत्तुनागोजिभट्टेन वाक्यान्ते उच्चारणान्तेइत्युक्तं । ' तिङ्सुबन्तचयोवाक्य' मिल्यमरसुधायां 'वचेर्ण्यत्चजोरितिकुवंशब्दसंज्ञायां अन्यत्रतुवाच्यं' इत्युक्तेरुच्चा- रणार्थकत्वे क्रियार्थकत्वादशब्द संज्ञार्थकत्वा हुर्निरूपंरूप मित्ययुक्तं । लक्षणयेतिन विचक्षणेनोक्तं । नयुक्तंचगत्यन्त र स्य सुमिलस्यसंभवे ॥ १७ ॥ ति० समागताः मिलिताः ॥ २० ॥ ति० शासितः आज्ञप्तः ॥ स० सखित्वेननिमित्तेनशासितः शिक्षितः । तेवयाममशासनंकार्ये । उत्तरं मदूचनप्रतिकूलमुत्तरं ॥ २९ ॥ ति० अत्रस्थानेपाझे विशेषः - तावद्रमखराज्यस्थःकाले [ पा० ] १ ख. ग. वक्तव्यंतववीर. च. छ. ज. वक्तव्यंदुस्तरंतवशासनं २ इदमर्धे क. घ. ज. पाठेषुदृश्यते ३ ख. ङ. च. छ. झ. ट. विहन्यमान मिच्छामि मद्विधे नविशेषतः ४ क तस्यरामस्य च. छ. तस्यवीरस्य. ५ क. रामाभिप्रायमाज्ञाय सर्वएव. ६ क. सर्वेप्राञ्जलयःस्थिताः ७ क – घ. ज. संप्राप्ताः स्ममहायशः झ. ठ. संप्राप्ताः स्मसमागताः• ८ क-घ. च. छ. ज. मथोवाचमधुरंश्लक्ष्णयागिरा,