पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २५१ यः शृणोति निरीक्षेद्वा स वध्यो भविता तव ॥ भवेद् मुनिमुख्यस्य वचनं यद्यपेक्षसे ॥ १३ ॥ स तथेति प्रतिज्ञाय रामो लक्ष्मणमब्रवीत् ॥ द्वारि तिष्ठ महाबाहो प्रतिहारं विसर्जय ॥ १४ ॥ स मे वध्यः खलु भवेत्कथाद्वन्द्वं समीरितम् ॥ ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ॥ १५ ॥ ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि संग्रहम् || तमुवाच मुने वाक्यं कथयस्वेति राघवः ॥१६॥ यत्ते मनीषितं वाक्यं येन वाऽसि समाहितः ॥ कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे व्युत्तरशततमः सर्गः ॥ १०३ ॥ चतुरुत्तरशततमः सर्गः ॥ १०४ ॥ रुण रामंप्रति तस्यजगत्सृष्ट्या दिकर्तृत्वगुणवर्णन पूर्वकं रामावतारप्रयोजनभूतरावणवधस्यनिर्वृत्तत्वोक्तिपूर्वक स्वावासप्र तिनिवर्तनप्रार्थनारूपचतुर्मुखसंदेशनिवेदने तेनतदभ्युपगमः ॥ १ ॥ शृणु राजन्महासत्त्व यदर्थमहमागतः ॥ पितामहेन देवेन प्रेषितोसि महाबल ॥ १ ॥ तवाहं पूर्वसद्भावे पुत्रः परपुरंजय || मायासंभावितो वीर कालः सर्वसमाहरः ॥ २ ॥ त्वत्समीपवर्तिलोकाना मित्यर्थः ॥ १२ ॥ अस्मद्वचनं | जानामीत्यर्थः ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते निरीक्षेत् मन्त्रयितारौ स तव वध्यः । कथमेवम- श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड- तिक्रूरसंकेत इत्यत्राह्—भवेदिति । तस्य मुनिमुख्यस्य व्याख्याने व्युत्तरशततमः सर्गः ॥ १०३ ॥ वचनमित्थं संकेतपूर्वकं वदेति चोदितवानित्यर्थः ॥ . यद्यपेक्षस इति । तथा संकेतपरिपालनमिति शेष: ॥ १३ ॥ प्रतिहारं विसर्जय अन्यतोपसारय ॥ १४॥ किमर्थमित्यत आह — सम इत्यादि ॥ हे सौमित्रे ऋषेर्मम च कथाद्वन्द्रं कथारहस्यं | वाचं द्वन्द्वमिति च पाठः | यः शृणुयात् ॥ १५ ॥ संग्रहं रक्षितारं ॥ १६ ॥ समाहितः । ममापि हृदि वर्तत इति । एवंविधं रहस्यं तन्मयापि श्रोतव्यमित्यर्थः । अहमपि येन संदेशः कृतः स पितामह एवेत्याह - पिता- महेनेति ॥ १ ॥ अहं च न तापसः किंतु काल इत्याह - तवाहमित्यादि ॥ पूर्वसद्भावे पूर्वजन्मनि अहं तव पुत्रः । सर्वसमाहर: कालरुद्र इति यावत् । परपुरंजय: त्रिपुरसंहारकः । तवाहं पूर्वके भावे पुत्रः परपुरंजय इति च पाठ: । केवलं यमस्य पूर्वभावादु- त्थितत्वाभावात् मायासंभावितः मायया उत्पादित : (?) इतिभावः ॥ १२ ॥ ति० संग्रहं सम्यगुक्तार्थग्रहणवन्तं ॥ १६ ॥ इतित्र्युत्तरशततमः सर्गः ॥ १०३ ॥ स० महासत्व बहुलबल ॥ १ ॥ ति० तत्प्रेषितदूतोप्यहं त्वत्संबन्ध्येवेत्याह- तवाहंपूर्वकेभावइति । पूर्वावस्थायाहिरण्य- गर्भोत्पत्तिसमयेहिरण्यगर्भावस्थायांवा । कथमहंपुत्रस्त त्राह – मायासंभावितः माययासंकल्पेनसंभावितः उत्पादितः । सर्वस- माहरः सर्ववस्तुसंहारकर्तेति तीर्थः । कतकस्तु— 'तवाहं पूर्वसद्भावे' इतिपाठः | पूर्वसृष्टेः प्राक्सद्भावे ' सदेवसौम्येदमप्रआसीत् ' इतिश्रुतेः । सत्तारूपब्रह्मभावे करिष्यमाणाखिलसंसारस्यसृष्टिस्थितिसंहारनिग्रहानुग्रहलक्षणपञ्चकृत्यनिर्वाहकःकालाख्यः क्षणधारा- रूपोनाडीदिनपक्षादिविभागनिर्वाहकः पुत्रोमायासंभावितः त्वदीयमायापरिणामइत्यर्थः । शेषंप्राग्वत् । यद्यपिरामोहिरण्यगर्भाशवि- ष्णोरेवावतारः। तथापितस्य स्वस्वरूपांशेनावृतज्ञानत्वाद्वामदेववदेवव्यपदेशेनदोषइत्याह । यत्तुकतके नसद्भावशब्देनहिरण्यगर्भउक्तः तत्तु मछमितिस्पष्टमेवाद्वैतविद्या विदाम् ॥ स० दूतइत्येवन । किंतुत्वत्पुत्रः सः । अहंतुपौत्र इत्याह —–—तवेति । पूर्वकेभावे अतीतजातौ । मायासंभावितःरमायामुत्पादितोविरिंचपदवाच्यस्तवपुत्रः । परपुरं तदपरोदेहोऽहं । तत्पुत्रोऽहं | अतःपौत्रस्तवेतिभावः । स्वव्या- पारमप्यावेदयति । सर्वसमाहरः सर्वसंहर्ता | नामाह -- कालइति । तवमायासंभावितः इच्छयापद्मोत्पन्नो यस्तस्याहंपूर्वकेभावे अहंकारतत्वेकार्योन्मुखे पुत्रोजातोऽहं । पूर्ववदुर्वरितं । ' महत्तत्वादहंकारंससर्जशिव विग्रहम् ।' इत्यादेः । ' पुत्रस्तवेशकमल- प्रभवस्तथाऽहंपौत्रस्तुपौत्रकवचोयदपिययोग्यम् | संभावयन्तिगुणिनः ' इत्याद्युक्तेश्च ।' मांत्वंपूर्वमजीजनः' इत्युक्तिस्वारस्या [ पा० ] १ झ ठ. यद्यवेक्षसे. २ झ ठ. पूर्वकेभावे.