i श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ त्रयः समिद्धा इव दीप्ततेजसो महाध्वरे साधु हुतास्त्र योग्नयः ॥ १७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे धुत्तरशततमः सर्गः ॥ १०२ ॥ २५०
- युत्तरशततमः सर्गः ॥ १०३ ॥
कढाचनतापसरूपिणारुद्वेण राममेत्य रहस्यवृत्तान्तकथनायस्वागमनस्वनिवेदने रामेण तञ्चोदनयामन्त्रणसमये तच्छ्रोतु- योर्निरीक्षमाणस्य च स्वेनहननप्रतिज्ञाकरणेन सौमित्रेररक्षकत्वेनस्थापनपूर्वकं तंप्रतिरहस्यकथनचोदना ॥ १ ॥ कस्य चित्त्वथ कालस्य रामे धर्मपथे स्थिते || कालस्तापसरूपेण राजद्वारमुपागमत् ॥ १॥ सोब्रवील्लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम् || मां निवेदय रामाय संप्राप्तं कार्यगौरवात् ॥ २ ॥ दूतोस्म्यतिबलस्याहं महर्षेरमितौजसः || रामं दिदृक्षुरायातः कार्येण हि महाबल ॥ ३॥ तस्य तद्वचनं श्रुत्वा सौमित्रिस्त्वरयान्वितः || न्यवेदयत रामाय तापसं तं समागतम् ॥ ४ ॥ जयस्व राम धर्मेण उभौ लोकौ महाधुते ॥ दूतस्त्वां द्रष्टुमायातस्तपसा भास्करप्रभः ॥ ५ ॥ तद्वाक्यं लक्ष्मणेनोक्तं श्रुत्वा राम उवाच ह || प्रवेश्यतां मुनिस्तात महौजास्तस्य वाक्यभृत् ॥ ६ ॥ सौमित्रिस्तु तथेत्युक्त्वा प्रावेशयत तं मुनिम् || ज्वलन्तमिव तेजोभिः प्रदहन्तमिवांशुभिः ॥ ७ ॥ सोभिगम्य रघुश्रेष्ठं दीप्यमानं स्वतेजसा || ऋषिर्मधुरया वाचा वर्धस्खेत्याह राघवम् ॥ ८ ॥ तस्मै रामो महातेजा: पूजामर्थ्य पुरोगमाम् ॥ ददौ कुशलमव्यग्रं प्रष्टुमेवोपचक्रमे ॥ ९ पृष्टश्च कुशलं तेन रामेण वदतां वरः ॥ आसने काञ्चने दिव्ये निषसाद महायशाः ॥ १० ॥ तमुषाच ततो रामः स्वागतं ते महामुने || प्रापयस्व च वाक्यानि यतो दूतस्त्वमागतः ॥ ११ ॥ चोदितो राजसिंहेन मुनिर्वाक्यमभाषत || ईन्द्वमेतत्प्रवक्तव्यं हितं वै यद्यपेक्षसे ॥ १२ ॥ श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड | वाक्यानि संदेशवाक्यानि | प्रापयस्व निवेदय । तत्र व्याख्याने द्रुथुत्तरशततमः सर्गः ॥ १०२ ॥ हेतुः - यतो दूत इत्यादि ॥ ११ ॥ मुनिवाक्यं प्रागु- क्तमहर्षिसंदिष्टवाक्यं । द्वन्द्वमेतदिति | "द्वन्द्व रहस्य" इत्यादि द्वन्द्वशब्दस्य रहस्यार्थे द्विवचननिपातः । रहस्यमेतत्प्रवक्तव्यमित्यर्थः । द्वन्द्वे हि तत्प्रवक्तव्यमिति कालस्य कस्यचित् गमनानन्तरमिति शेषः ॥१-२॥ महर्षेरिति । ब्रह्मण इत्यर्थः ॥ ३५ ॥ तस्य वाक्यस्य धृदिति रामवाक्यधारीति सौमिन्निविशेषणं ||६-१०॥ | च पाठः । तदेव विशिष्टि - न चैषामित्यादि ॥ एषां अमयश्च तेतथा । आहिताभ्यादिः । तेत्रयः आहवनीयादयोऽनन्तरमध्वरेसमिद्धाहुतिदीप्ततेजसोयथातथात्रयोरामलक्ष्मणभरताः संस्थिताः । कमितिमन्तव्यं ॥ १७ ॥ इतिव्युत्तरशततमः सर्गः ॥ १०२ ॥ इत्थंचयोजनायांसमिद्धाहुतिदीप्ततेजसत्रयोहुताग्नयइतिपदयोरपौनरुक्त्येनव्याकरणाचातुरीनागोजिभद्दादिवन्नास्मा- 1 स० कालोरुद्रः विधिनिदेशात्तापसरूपेणराजद्वारमुपागमत् ॥ १ ॥ स० अमितौजसः अतिबलस्यमहर्षेः | रहस्यप्रमेयं रामे- तरेभ्योन कथनीयमित्याच्छायोक्तिरियमितिज्ञेयं ॥ ३ ॥ ति० उभौलोकौजयस्वेत्युक्त्यापरलोकप्रवेशकालसूचनं ॥ स० खराज- धर्मेण खंचराजाच खराजानौ । तयोर्धर्मस्तेन । स्वधर्मेणयज्ञादिनापरलोकं । राजधर्मेणशौर्यादिना इमंलोकं इत्युभौजय । खपूर्वराजधर्मेणेतिवा ॥ ५ ॥ ति० तेजोभिः अंशुभिरित्येतेपदे शरीरकान्तिकिरणप्रतिपाद के इतिनपुनरुक्तिः ॥ स० तेजोभिः प्रदहन्तंवह्निवत् । अंशुभिर्ज्वलन्तंसूर्यवत् ॥ ७ ॥ ति० हितंवैयद्यवेक्षसे देवानामितिशेषः । देवगोप्यगोपने हिदेवानांहितंभवती- तिभावः ॥ स० द्वन्द्वे रहस्ये । 'षटुकर्णोभिद्यतेमन्त्रः' इत्युक्तेः । यदिदेवेभ्यः स्वस्मै चह्नित मवेक्षसे तर्हिगोप्यत्वेनयुक्तोक्तिरेकान्त [पा० ] १ झ ठ. समिद्धाहुतिदीप्ततेजसोहुताग्नयःसाधुमहाध्वरेत्रयः २ झ ठ धर्मपरे ३ झ. ठ. जयखराजधर्मेण• ४ ङ. च. छ. झ. ल. द्वन्द्वेत्येतत्प्रवतव्यं. ५ झ. व. यद्यवेक्षसे.