पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । व्युत्तरशततमः सर्गः ॥ १०२ ॥ भरतवाक्यश्रवणरामेण सौमित्रिप्रति तत्पुत्रयोरङ्गदचन्द्र केस्वोर्निवासाय देशान्वेषणचोदने भरतेनरामंप्रति कारुप- थदेशस्थयोरङ्गदीय चन्द्रकान्ताख्यपुरयोर्वासार्हत्वकथनम् ॥ १ ॥ रामेणाङ्गदीय चन्द्रकान्ताख्यपुरयोः क्रमेणाङ्गदचन्द्रकेस्वोर- भिषेककरणपूर्व कंप्रस्थापने तदनुगताभ्यां सौमित्रिभरताभ्यां तन्त्रसंवत्सरमधिवासेन पुनरयोध्यांप्रत्यागमनम् ॥ ३ ॥ २४९ तच्छ्रुत्वा हर्षमापेदे राघवो भ्रातृभिः सह || वाक्यं चाद्भुतसंकाशं तदां प्रोवाच लक्ष्मणम् ॥ १ ॥ इसौ कुमारौ सौमित्रे तव धर्मविशारदौ ॥ अङ्गदश्चन्द्रकेतुश्च राज्यार्थे दृढविक्रमौ ॥ २ ॥ इमौ राज्येऽभिषेक्ष्यामि देशः साधु विधीयताम् ॥ रमणीयो ह्यसंबाधो रमेतां यत्र धन्विनौ ॥ ३ ॥ न राज्ञो यत्र पीडा स्यान्नाश्रमाणां विनाशनम् || स देशो दृश्यतां सौम्य नापराध्यामहे यथा ॥४॥ तथोक्तवति रामे तु भरतः प्रत्युवाच ह || अयं कारुपथो देशो रमणीयो निरामयः ॥ ५ ॥ निवेश्यतां तत्र पुरमङ्गदस्य महात्मनः ॥ चन्द्रकेतोः सुरुचिरं चन्द्रकान्तं निरामयम् ॥ ६ ॥ तद्वाक्यं भरतेनोक्तं प्रतिजग्राह राघवः ॥ तं च कृत्वा वशे देशमङ्गदस्य न्यवेशयत् ॥ ७ ॥ अङ्गदीया पुरी रम्या ह्यङ्गदस्य निवेशिता || रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा ॥ ८ ॥ चन्द्रकेतोस्तु मल्लस्य मल्लभूम्यां निवेशिता || चन्द्रकान्तेति विख्याता दिव्या स्वर्गपुरी यथा ॥९॥ ततो रामः परां प्रीतिं लक्ष्मणो भरतस्तथा ॥ ययुर्युद्धे दुराधर्षा अभिषेकं च चक्रिरे ॥ १० ॥ अभिषिच्य कुमारौ स प्रस्थापयति राघवः ॥ अङ्गदं पश्चिमां भूमिं चन्द्रकेतुमुदज्युखम् ॥ ११ ॥ अङ्गदं चापि सौमित्रिर्लक्ष्मणोऽनुजगाम ह || चन्द्रकेतोस्तु भरतः पाणिग्राहो बभूव ह ॥ १२ ॥ लक्ष्मणस्त्वङ्गदीयायां संवत्सरमथोषितः ॥ पुत्रे स्थिते दुराधर्षे ह्ययोध्यां पुनरागमत् ॥ १३ ॥ भरतोपि तथैवोष्य संवत्सरमतोधिकम् ॥ अयोध्यां पुनरागम्य रामपादावुपास्त सः ॥ १४ ॥ उभौ सौमित्रिभरतौ रामपादावनुव्रतौ ॥ कालं गतमपि स्नेहान्न जज्ञातेऽतिधार्मिकौ ॥ १५ ॥ एवं वर्षसहस्राणि दश तेषां ययुस्तदा ॥ धर्मे प्रयतमानानां पौरकार्येषु नित्यदा ॥ १६ ॥ विहृत्य कालं परिपूर्णमानसाः श्रिया वृता धर्मपुरे सुसंस्थिताः ॥ राज्यार्थे राज्यरक्षाविषये ॥ २३ ॥ नापरा | भूम्यां मल्लदेशे उत्तरे ॥ ९-१३ ॥ भरतोपि तथै- ध्यामहे | कस्यापि भूतस्येतिशेषः ॥ ४ ॥ कारुपथः वोष्येति । चन्द्रकेतुसमीप इति शेषः ॥ १४ ॥ न कारुपथाख्यः पाश्चात्यदेशविशेषः ॥ ५ ॥ तत्र देशे जज्ञाते जानातेलिद्विवचनं । नावगतवन्तौ । संधिः अङ्गदस्य पुरं अङ्गदीयाख्यं निवेश्यतां चन्द्रकेतोः छान्दसः ॥ १५ - १६॥ धर्मसाधनं पुरं धर्मपुरं चन्द्रकान्ताख्यं ॥ ६—८ || मल्लस्य श्रेष्ठस्य | मल्ल- तस्मिन् ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते 6 ति० भ्रातृभिरितिबहुवचनंद्विवेआर्षे ॥ स० भ्रातृभिर्भ्रातृनितिजा तौबहुवचनं ॥ बहुवचनमाद्यर्थइतिवा | भ्रातृभ्यांत्रात्रा- दिभिः । भ्रातरौभ्रात्रादीनित्यर्थः । भ्रातृपुत्रयोरपिभ्रातृत्वेन विवक्षणाद्वैवमुक्तिः ॥ १ ॥ स० विधीयतां मनसाऽऽलोच्यनि- धर्यतां ॥ ३ ॥ स० राज्ञां अस्मदनुरोधिनां । नापराध्यामहे भूतघातेन ॥ ४ ॥ ति० तत्रदेशेऽङ्गदस्यपुरीरामेणनिर्मिता । लक्ष्मणद्वारेतिशेषः ॥ स० रामेणसुगुप्ता अन्तरायातान्तरायपरिहारेण ॥ ८ ॥ स० मल्लस्यचन्द्रकेतोः बलीयसश्चन्द्रकेतुनाम्नः । 'मलोमत्स्यभेदे बलीयसि ' इतिविश्वः ॥ ९ ॥ ति० युद्धेदुराधर्षारामादयोऽभिषेकं चक्रिरे । अङ्गदचन्द्र के त्वोरितिशेषः ॥ १० ॥ ति० दशसहस्राणि आयुस्त्वे कादशसहस्राणीतिस्पष्टमेव ॥ १६ ॥ ति० धर्मपुरे धर्मसाधने । पुरे अयोध्यायां । “अयोध्या- मधुरामायाकाशीकाञ्चीअवन्तिका | पुरीद्वारवतीचैवसप्तैतामोक्षदायिकाः । ” इतिस्मृतेः ॥ स० येप्रागहुताग्नयः अहुताश्वते [ पा० ] १ क-ट. भ्रातृप्रोवाचराघवः. २ क-ट. राज्ञां. ३ क. घ - छ. झ ञ ट प्रस्थाप्यसुसमाहितौ ४ क, च. छ. धर्मपथेपरेस्थिताः. वा. रा. २७२ "