पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ शशविन्दुस्तु राजर्षिर्वाह्नि परपुरञ्जयः ॥ प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ॥ २२ ॥ स काले प्राप्तवाँल्लो कमिलो ब्राह्ममनुत्तमम् ॥ ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ॥ २३ ॥ ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ || स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे नवतितमः सर्गः ॥ ९० ॥ एकनवतितमः सर्गः ॥ ९१ ॥ रामेण लक्ष्मणमुखाद्वसिष्ठाद्याह्वानेन तैःसहाश्वमेधकरणनिर्धारणपूर्वकं लक्ष्मणप्रति यज्ञशाला निर्मापणसुग्रीवविभीषणा- द्यानयनयागीयसामग्रीसंपादनादिचोदना ॥ १ ॥ एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः ॥ लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ॥ १ ॥ वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् || द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ॥ २ ॥ एतान्त्सर्वान्त्समानीय मन्त्रयित्वा च लक्ष्मण || हयं लक्षणसंपन्नं विमोक्ष्यामि समाधिना ॥ ३ ॥ तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरित विक्रमः || द्विजान्त्सर्वान्त्समाहूय दर्शयामास राघवम् ॥ ४ ॥ ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम् || राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ॥ ५ ॥ प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् || आँचचक्षेऽश्वमेधस्य ह्यभिप्रायं महायशाः || ६ || ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् || अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ॥ ७ ॥ स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् || अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतोऽभवत्तदा ॥ ८॥ शेषः ॥ २१ ॥ बाह्रिमिति | अध्युवासेति शेषः ||२२|| | पाठः || ६ || वृषध्वजं नमस्कृत्वेति । सोल्लुण्ठनं वचः काले शरीरावसानकाले । ब्राह्मं ब्रह्मसंबन्धि ||२३|| |इलवद्रुद्राराधनं विहायेत्यर्थः । कमकृतयागस्येवास्य यच्चान्यदिति । उक्तब्रह्मलोकादित्यर्थः ॥ २४ ॥ इति रुद्रात्प्रयोजनगन्धाभावात् परदेवतामुद्दिश्याश्वमेधं श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमु- कर्तुमुसुक्ता इति भावः । रुद्रस्तु सर्वयज्ञानह: शूद्रा- कुटख्याने उत्तरकाण्डव्याख्याने नवतितमः राध्यः । यज्ञमध्ये च तत्प्रसङ्गे अबुपस्पर्शनादिप्राय- सर्गः ॥ ९० ॥ श्चित्तस्य प्रसिद्धत्वात् । “इमं पशुं पशुपते ते अद्य बध्नाम्यग्ने" इत्यादिश्रुतिस्तु अग्नेरेव यज्ञान्वयप्रतिपा- भ्रातृभ्यामिति चतुर्थी ॥ १ ॥ द्विजांश्च सर्वप्रवरा- दिका | कर्दमकृतयज्ञस्य नाराध्यो रुद्रः । किंतु निति गुरुवैषम्यमा । अश्वमेधपुरस्कृतानिति । अश्व- स्वाभिमतदेवतारूपविष्ण्वाराधनत्वेन प्रीतो रुद्र इत्यु - मेधप्रयोगकुशलानित्यर्थः ॥ २ ॥ मन्त्रयित्वा विचार्य च्यते | उपक्रमे तत्पूर्वसर्गेषु " यज्ञो वै विष्णुः" इत्यु- ॥ ३-५ ॥ अश्वमेधस्येति । अनुष्ठानविषयकमिति क्तरीत्या विष्णोराराध्यत्वसमर्थनात् । यद्वा विष्णुद- शेषः । उवाच धर्मसंयुक्तमश्वमेधातिं वच इति च त्तवरत्वाद्रुद्रस्य । विष्णुमपूजयन् । रामस्त्वश्वमेधं स० स्त्रीपूर्वः पूर्वेस्त्रीत्वेनजातः । पौरुषं पुरुषत्वं । लेभे । नकेवलमेतावत् किंतु यच्चान्य दुर्लभंतदपिप्राप्तवानित्यर्थः ॥ २४ ॥ इतिनवतितमः सर्गः ॥ ९० ॥ ति० समाधिना सावधानचित्ततयार्यविमोक्ष्यामीतिलक्ष्मणमाहेतिपूर्वेणसंबन्धः ॥ ३ ॥ ति० वृषध्वजं रुद्रं । त्रेताग्निरूप- [ पा० ] १. उ. स्त्रीपूर्वः २ क. ख. घ. च. छ. कृतेपादाभिवन्दने ३ क. च. घ - उ. उवाचधर्मसंयुक्तमश्वमे- धाश्रितंवचः.