पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् || प्रमोदनं मोदूकरं तथा दुर्वाससं मुनिम् ॥ ५ ॥ एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शिनः ॥ उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ॥ ६ ॥ अयं राजा महाबाहुः कर्दमस्य इलः सुतः || जानीतैनं यथाभूतं श्रेयो ह्यस्य विधीयताम् ॥ ७ ॥ तेषां संवदतामेव तमाश्रममुपागमत् ॥ कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ॥ ८ ॥ पुलस्त्य ऋतुचैव वषारस्तथैव च ॥ ओङ्कारथ महातेजास्तमाश्रममुपागमत् ॥ ९॥ ते सर्वे हृष्टमनसः परस्परसमागमे || हितैषिणो बाहिपतेः पृथग्वाक्यान्यथाब्रुवन् ॥ १० ॥ कर्दमस्त्वनवीद्वाक्यं सुतार्थं परमं हितम् ॥ द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ॥ ११ ॥ नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् || नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः ॥ तस्माद्यजामहे सर्वे पार्थिवार्थ दुरासदम् ॥ १२ ॥ कमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः ॥ रोचयन्ति स तं यज्ञं रुद्रस्याराधनं प्रति ॥ १३ ॥ संवर्तस्य तु राजर्षेः शिष्यः परपुरंजयः ॥ मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ॥ १४ ॥ ततो यज्ञो महानासीहुधाश्रमसमीपतः ॥ रुद्रश्च परमं तोषं जगाम सुमहायशाः ॥ १५ ॥ अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा ॥ उमापतिर्द्विजान्त्सर्वानुवाच इलसन्निधौ ॥ १६ ॥ प्रीतोरिस हयमेधेन भक्त्या च द्विजसत्तमाः ॥ अस्य बाढीपतेश्चैव किं करोमि प्रियं शुभम् ॥ १७ ॥ तथा वदति देवेशे द्विजास्ते सुसमाहिताः ॥ प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ॥ १८ ॥ ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः ॥ इलायै स महातेजा दत्त्वा चान्तरधीयत ॥ १९ ॥ निवृत्ते ह्रयमेधे तु गंतश्चादर्शनं हरः || यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ॥ २० ॥ राजा तु बाहिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् || निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ॥ २१ ॥ २२९ वसो राज्य प्राप्तिरभून्न वेति प्राशयः || २-५ || | लक्ष्मणोक्त्या विष्ण्वाराधनमेवाश्वमेधः । तदाराधन- सुहृदः स्वसखीभूतान् ॥ ६ ॥ यथाभूतमिलस्य वृत्ता- त्वेनैव हरस्यापि प्रियत्वं । प्रकृतब्रह्महत्यावारकत्वेन न्तं ।। ७–११ ।। वृषध्वज एव स्वकृतशापनिव तस्य प्रशंसाथै पुनरपि रामेण तद्विषयार्थवाद उक्तः। र्तकः । तत्प्रीतिश्चाश्वमेधेन सर्वदेवताप्रीतिकरेणैवेति एतेन यत्केनचिदुक्तं लक्ष्मणेन विष्ण्वाराधनयज्ञे भावः । नाश्वमेधात्पर इति । राज्ञां ब्रह्महत्यान्तसर्व- पापनिबारक इति शेषः । प्रियश्चैव महामन इति । प्रस्तुते पुनः रामेण रुद्राराधनत्वप्रदर्शनं विष्ण्वपेक्षया यद्यपि प्रजापतिदेवताकः प्रजापतिप्रीतिकरोश्वमेधः रुद्राधिक्यस्य प्रतिपादनार्थमिति, तद्दूरोत्सारितं । तथापि सर्वदेवताप्रीतिकरत्वादस्य रुद्रप्रीतिकरत्वमपि ब्रह्महत्यावारकप्रदर्शनार्थत्वाद्रामोक्तस्य ।। १२-१३ ॥ सिद्धं । वस्तुतस्तु " यज्ञो वै विष्णुः" इति श्रुतिवचना- समुपाहरत् संभारजातमुपहृतवान् ॥ १४ – २० ॥ द्यज्ञपुरुषाराधनमश्वमेधः | विष्ण्वाराधनमित्युपक्रमे | बाह्निमुत्सृज्येति । ज्येष्ठपुत्रशशबिन्द्वधिष्ठितमिति ति० यथाभूतं ईश्वराज्ञयानुभवसिद्धंत्रीपुंसरूपप्रकारद्वयंप्राप्तं एनं जानीत ॥ ७ ॥ ति० नन्वश्वमेधेनकथंवृषभध्वजसंतोषो- तआह - प्रियएवमहात्मनः । यद्यपिप्रजापतिदैवत्यत्वात्प्रजापतिप्रीतिकरःसः । तथापि हिरण्यगर्भावस्थाविशेषस्यैव रुद्रत्वान्नदो- षः ॥ स० महात्मनोब्रह्मणोविष्णोर्वाऽयं यज्ञः प्रियश्च । रुद्रस्यशापदातृत्वात्तद्वारा श्रीहरिप्रसादआसादनीयइतिवृषभध्वजमित्यु- तिर्नतुपर ममुख्यतयेति मन्तव्यं ॥ १२॥ स० रुद्रश्चेतिशब्दात्परम मुख्य मुख्येशब्दवाच्य हरिहिरण्यगर्भहराणांप्रीतिंतरतमतोऽभिप्रैति ॥ १५ ॥ ति० देवेशंप्रसादयन्तिस्म । पुरुषत्वं विनान्यंवरंवृणीष्वेतिपूर्ववद्यथानवदेत्तथाविशिष्यप्रसन्न मकुर्वन्नित्यर्थः । तदेवो- तं यथास्यादिति ॥ १८ ॥ [ पा० ] १ झ ठ प्रियएव. २ ग. ज. समुपागमत् ३ क—ङ झ ञ गतेचादर्शनंहरे.