पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ सा तं जलाशयं सर्वे क्षोभयामास विस्मिता || सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ॥ ११ ॥ बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः ॥ नोपलेभे तदाऽऽत्मानं संचचाल तदाऽम्भसि ॥१२॥ इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् ॥ चिन्तां समभ्यतिक्रामत्का न्वियं देवताधिका १३ न देवीषु न नागीषु नासुरीष्वप्सरस्सु च ॥ दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ॥ १४ ॥ सहशीयं मम भवेद्यदि नान्यपरिग्रहः ॥ इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ॥ १५ ॥ आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः || शब्दापयत धर्मात्मा तानं च ववन्दिरे ॥ १६ ॥ स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी || किमर्थमागता चैव सर्वमाख्यात मा चिरम् ॥१७॥ शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् || श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥ अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ॥ अपतिः काननान्तेषु सहासाभिश्चरत्यसौ ॥ १९ ॥ तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च ॥ विद्यामावर्तिनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥ सोर्थ विदित्वा सकलं तस्य राज्ञो यथागतम् || सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ॥ २१ ॥ अत्र किंपुरुषीभूत्वा शैलरोधसि वत्स्यथ || आवासस्तु गिरावस्मिञ्शीघ्रमेव विधीयताम् ॥ २२ ॥ मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा || स्त्रियः किंपुरुषान्नाम भर्तुत्समुपलप्स्यथ ॥ २३ ॥ तां श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः || उपासांचक्रिरे शैलं वध्वस्ता बहुलास्तदा ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥ क्षोभयामासेति । क्रीडयेति शेषः ॥ ११ ॥ आत्मानं | यूयं सर्वाः किंपुरुषीभूत्वा किंपुरुषाख्यदेवयोनिस्त्रियो नोपलेभे । आत्मध्यानं न प्राप्तवानित्यर्थः । कामपरवश- भूत्वा । अत्रास्मिन् शैलस्य रोधसि वत्स्यथ । अतो- चित्तोभूदिति भावः ॥१२॥ चिन्तां समभ्यतिक्रामत् । स्मिन् गिरौ शीघ्रमेव आवास: उटजादिः विधीयतां इलायामिति शेषः । इलाविषयकचिन्तां प्राप्त इत्यर्थः | | || २२ || स्त्रियः किंपुरुषस्त्रियो यूयं । किंपुरुषान्नाम तदेवाह—कान्वित्यादि ॥१३–१४॥ नान्यपरिग्रहः प्रसिद्धान् भर्तृन् समुपलप्स्यथ । अन्विष्य प्राप्स्यथेत्यर्थः अन्यपरिग्रहत्वरहिता ॥ १५ ॥ शब्दापयत | पुगार्ष: ||२३|| किंपुरुषीकृताः बुधस्य योगबलात्कंपुरुषस्त्री- ।। १६–१८ ।। अपतिः पतिरहिता ॥ १९ ॥ अव्य- क्तपदं अस्पष्टाक्षरमित्यर्थः । आवर्तिनीं आवर्तिन्या- कृता इत्यर्थः । शैलमुप शैलस्य समीप इत्यर्थः ॥२४॥ ख्यां विद्यामावर्तयत आवर्तयति स्म । प्रकृतप्रयो- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे जनाथै । द्विजः क्षत्रियो बुधः ॥ २० ॥ स बुधः तस्य मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टाशीति- राज्ञः कार्दमे: सकलमर्थ वृत्तान्तं विदित्वा । योगमा तमः सर्गः ॥ ८८ ॥ हात्म्यादिति शेषः । ताः स्त्रियः इलासहचरीः ॥ २१॥ ॥ ३ ॥ ति० मधुरं सन्ध्यादिकृतश्रुतिकटुत्वरहितं | मधुराक्षरं टवर्गादिरहितं || १८ || इत्यष्टाशीतितमः सर्गः ॥ ८८ ॥ [ पा० ] १ क–घ. कामबाणनिपीडितः २ ख. ग. ञ, सत्यमाख्यात ३ ज. चक्रिरेतस्मिन्वध्वस्ताबहुधातदा.