पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ८८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २२५ राजपुरुषभूतस्त्वं स्त्रीभावं न मरिष्यसि | स्त्रीभूतश्च परं मासं न मरिष्यसि पौरुषम् ॥ २८ ॥ एवं स राजा पुरुषो मासं भूत्वाऽथ कार्दमिः ॥ त्रैलोक्यसुन्दरी नारी मासमेकमिलाऽभवत् ॥ २९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥ अष्टाशीतितमः सर्गः ॥ ८८ ॥ स्त्रीभूतैर्निजपरिजनैससहवनान्तरेविहरमाणायाइलायाअवलोकनेन क्षुभितमनसातत्र सरसितपस्यताविधुसुतेनबुधेन तप- रणांकिंपुरुषनरीकरणपूर्वकं शैलतटप्रेषणम् ॥ १ ॥ तां कथामिलसंबन्ध रामेण समुदीरिताम् ॥ लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १॥ तौ रामं प्राञ्जली भूत्वा तस्य राज्ञो महात्मनः ॥ विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥ कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिः ॥ पुरुषः स यदा भूतः कां वृत्ति वर्तयत्यसौ ॥ ३ ॥ तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ॥ कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ॥ ४ ॥ तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी || ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ॥ ५ ॥ तत्काननं विगाद्याशु विज लोकसुन्दरी || द्रुमगुल्मलताकीर्ण पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥ वाहनानि च सर्वाणि सो त्यक्त्वा वै समन्ततः ॥ पर्वताभोगविवरे तमित्रेमे इला तदा ॥ ७ ॥ अथ तस्मिन्वनोद्देशे पर्वतस्थाविदूरतः || सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ॥ ८ ॥ ददर्श सा त्विला तस्मिन्बुधं सोमसुतं ततः || ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ॥ ९ ॥ तपन्तं च तपस्तीत्र मम्भोमध्ये दुरासदम् || यशस्करं कामकरं तारुण्ये पर्यवस्थितम् ॥ १० ॥ प्राञ्जली इति द्विवचनं । तस्य भावस्येति । स्त्रीपुं- सभावस्येत्यर्थः ॥ २ ॥ स्त्रीभूतः अतएव दुर्गतिः कथं वर्तयामास । तत्कालमिति शेषः ॥ ३–६॥ पर्वतानां आभोगो विस्तारः ॥ ७ ॥ अविदूरतः यत्र | स्त्रीत्वप्राप्तिस्तस्याविदूरत इत्यर्थः । अन्यदेशत्वात् बुधस्य स्त्रीत्वाप्राप्तिरिति भावः ॥ ८-१० ।। व्यवस्थांस्वयमेवाह—मासमिति ॥२६॥ स० प्रसन्ना संनतायाधिकमपिकिंचित्प्रयच्छति देवी तिवदति – स्त्रीभावमित्यादिना ॥२८॥ कार्दमिः बाह्लादिः ॥ स० अत्रपितुः कर्दमेत्युक्तिः स्वयंहरस्येच्छयाभामिनीभावोक्तिरिलस्यप्रयत्नेनैवपार्वत्यावरोक्तिर्व्यवस्थयेत्येव- मायुक्तिश्च ‘ ततोमनुःश्राद्धदेवः' इत्यारभ्यनवमेभागवते मातृबोधित होतृव्यतिक्रमेणस्त्रियाजननं । अनन्तरंवसिष्ठतपस्संतुष्ट- विष्णुप्रसादतोयोषितः पुरुषत्वाप्तिः । तदनन्तरंसतीसहितस्यहरस्यसमीपमुपयातवतांमुनीनांप्रेषणानन्तरमुमासंतुष्ट्यैवनं प्रविष्टपुं- मात्रस्य स्त्रीत्वप्राप्तिशापः । तदुपरिसुद्युम्नगमनंस्त्रीत्वाप्तिः । पुनर्गुरुतपसाहरेणैवव्यवस्थयापुंस्त्वा वाप्तिश्चेत्याद्युक्तिर्भारतेहरिवंशे ‘ मनोवैवस्वतस्यासन्' इत्यारभ्य मित्रावरुणांशेनस्यपत्योत्पत्तिःपुनर्मित्रावरुणसंनिधिगमनंतत्प्रेषितायाइलायाःपुनर्वैवस्वतंप्रत्या- गमनंमित्रावरुणयोः ' आवयोस्त्वं महाभागेख्यातिंकन्येतियास्यसि | मनोवैशकरः पुत्रस्त्वमेव च भविष्यसि | सुयुम्नइतिविख्यातः इत्यादिवाक्यादेवपुंस्त्वावाप्त्युक्तिः अन्यत्रागस्त्यकृतबालभारते ' बुधस्ततोऽभून्नवसुग्रहेषुरत्नेषुमुक्ताफलवन्मनोज्ञः । यःकर्दमापत्य- मिलाभिधानंपर्यग्रहीत्पञ्चशरायुधातः ' इत्यत्रोक्तिश्चकल्पभेदेनेयल्पमतिभिरभिधातुंयोग्यंनापरथागति रितिसंतोष्टव्यं ॥ २९ ॥ इत्युत्तरेसप्ताशीतितमः सर्गः ॥ ८७ ॥ प्राप्य ।। २६-२७ ॥ अनुग्रहान्तरमाह - राज- न्नित्यादि ॥ २८ ॥ कार्दमिः । “अत इञ्” ॥ २९ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्ताशीति- तमः सर्गः ॥ ८७ ॥ ● स० ऐलसंबन्धामिति । ऐलेतिस्वार्थेऽण् । इलासंबन्धिनकथां ॥ १ ॥ स० दुर्गतिः बहिर्गमनागमनानुपयुक्तस्त्रीभावात् [ पा० ] १ झ ठ. कथामैलसंबन्धां. २ म. ङ. च. छ. झ. न. ट. संत्यक्त्वा. वा. रा. २६९