पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ प्रजघ्ने च नृपोऽरण्ये मृगाशतसहस्रशः || हत्वैव तृप्तिर्नाभूच राज्ञस्तस्य महात्मनः ॥ ९॥ नानामृगाणामयुतं वध्यमानं महात्मना ॥ यत्र जातो महासेनस्तं देशमुपचक्रमे ॥ १० ॥ तस्मिन्प्रदेशे देवेशः शैलराजसुतां हरः || रमयामास दुर्धर्षः सर्वैरनुचरैः सह ॥ ११ ॥ कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः || देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वत निर्झरे ॥ १२ ॥ 'ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः || वृक्षाः पुरुषनामानस्तेभवन्त्रीजनास्तदा ॥ १३ ॥ यच्च किंचन तत्सर्वं नारीसंज्ञं बभूव ह || एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः ॥ निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ॥ १४ ॥ सदृष्ट्वा स्त्रीकृतं सर्वे सव्यालमृगपक्षिकम् ॥ आत्मानं स्त्री कृतं चैव सानुगं रघुनन्दन ।। १५ ।। तस्य दुःखं महच्चासीदृष्ट्वाऽऽत्मानं तथागतम् || उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ॥ १६ ॥ ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् ॥ जगाम शरणं राजा सभृत्यबलवाहनः ॥ १७ ॥ ततः ग्रहस्य वरदः सह देव्या महेश्वरः || प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ॥ १८ ॥ उत्तिष्ठत्तिष्ठ राजर्षे कामेय महावल || पुरुषत्वमृते सौम्य वरं वरय सुव्रत ॥ १९ ॥ ततः स राजा दुःखातः प्रत्याख्यातो महात्मना ॥ नै च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ॥ २०॥ ततः शोकेन महता शैलराजसुतां नृपः ॥ प्रणिपत्य हुमां देवीं सर्वेणैवान्तरात्मना ॥ २१ ॥ ईशे वराणां वरदे लोकानामसि भामिनी ॥ अमोघदर्शने देवि भज सौम्येन चक्षुषा ॥ २२ ॥ हृद्भुतं तस्य राजर्षेविंज्ञाय हरसन्निधौ ॥ प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ॥ २३ ॥ अर्धस्य देवो वरदो वरार्धस्य तव ह्यहम् ॥ तस्मादर्धे गृहाण त्वं स्त्रीपुंसोर्यावदिच्छसि ॥ २४ ॥ तदद्भुततरं श्रुत्वा देव्या वरमनुत्तमम् || संग्रहृष्टमना भूत्वा राजा वाक्यमथाब्रवीत् ॥ २५ ॥ यदि देवि प्रसन्ना मे रूपेणाप्रतिमा भुवि ॥ मासं स्त्रीत्वमुपासित्वा मासं स्यां पुरुषः पुनः ॥ २६ ॥ ईप्सितं तस्य विज्ञाय देवी सुरुचिरानना || प्रत्युवाच शुभं वाक्यमेवमेव भविष्यति ॥ २७ ॥ भ्यन्निति । बिभियुरित्यर्थः ॥ ६९ ॥ अयुतं अयु | त्प्राप्तं ज्ञात्वा त्रासमुपागमत् ||१६ - १८॥ कार्दमेयेति तसंख्याकं । वध्यमानमभूदिति शेषः । यत्र जात शुभ्रादित्वाडकू । पुरुषत्वं ऋते पुरुषत्वं विना ॥ १९॥ इत्यादि । महासेनः स्कन्दः ॥ १०-१२ ॥ पुरुष न च जग्राह स्त्रीभूत इति । गुरुवैषम्यमार्षे । अन्यद्वरं इति वादो व्यपदेशो येषामिति पुरुषवादिनः । पुल्लि पुंस्त्ववरणव्यतिरिक्तं वरं न जग्राह ॥ २० – २१ ॥ जशब्दवाच्या ये पदार्थाः सन्ति ॥ १३ ॥ अन्यच्च सौम्येन चक्षुषा अनुग्रहचक्षुषा । मां भज अनुगृहाण यच किंचन नपुंसकलिङ्गवाच्यमस्ति तत्सवै नारीसंज्ञं ||२२ – २३|| स्त्रीपुंसोरर्धस्य | समासाजन्तनिपाता- स्त्रीलिङ्गशब्दवाच्यतार्ह स्त्रीवेषं बभूव ॥१४॥ आत्मानं भाव आर्ष: । पुरुषत्वप्राप्तिरूपे वरे अर्धस्य देवो वरदो च स्त्रीकृतं ॥ १५ ॥ तथागतं तथावस्थां प्राप्तमा- दाता । अर्धस्यैवाहं दात्री | अस्मात्त्वं मत्तो गृहाण । स्मानं दृष्ट्वा तच्चात्मनस्तथाप्राप्तिरूपं कर्म तदिच्छावशा- यावदिच्छसि यदिच्छसि ॥ २४-२५ ॥ उपासित्वा ऋतुमाहात्म्येन ॥ ८ ॥ ति० हत्वैव हत्वापीत्यर्थः ॥ ९ ॥ स० प्रजापतिसुतं कर्दमसुतं ॥ १८ ॥ स० कार्दमेय कर्दमस्यस्त्री कर्दमी । तस्याअपत्यं । स्त्रीभ्योढगितिढकिएयादेशः ॥ १९ ॥ स० प्रत्याख्यातः पुरुषत्वमृतइतिनिराकृतः ॥ २० ॥ ति० सर्वेणैवान्तरात्मनामनोबुद्ध्यभिमानलक्षणेन सर्वेणान्तःकरणेनप्रणिपत्य | साष्टाङ्गं प्रणिपत्येत्यर्थः ॥ २१ ॥ वराणामीशे । अतएव लोकानांवरदेवंभामिनीअसि ॥ २२ ॥ स० अर्धस्यवरदइति । अर्धस्येत्यभेदेषष्ठीराहोः शिरइतिवत् | अर्धाभिन्नवरदः सदेवइत्यर्थः ॥ २४ ॥ स० विदिततदुदितभावइतिसंप्रहृष्टमनाः ॥ २५ ॥ स० एकदैवार्धाङ्गस्य स्त्रीत्वमस्त्रीत्व मर्धाङ्गस्येत्य संभावित मितिमला [ पा० ] १ ङ. च. छ. झ ञ ट यत्रयन्त्रवनोद्दे - २ झ ठ. स्त्रीभूतोसौनजमाद्द.