पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

13 श्रीमद्वाल्मीकि रामायणम् । षडशीतितमः सर्गः ॥ ८६ ॥ ब्रह्महत्यापीडितेइन्द्वेदिगन्तंगते संक्षुभितेचसकललोके देवैरिन्द्रान्वेषणपूर्वकं तेनाश्वमेधयाजनम् ॥ १ ॥ तेनेन्द्रत्यक्त वत्याब्रह्महत्यया देवान्प्रति स्वयस्थान कल्पनप्रार्थने देवैस्तस्थानद्यादिस्थानचतुष्टयकल्पनम् ॥ २ ॥ एवं लक्ष्मणेन रामंप्रत्य- श्वमेधमहिमोक्तिः ॥ ३ ॥ २२२ [ उत्तरकाण्डम् ७ तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ॥ कथयित्वा नरश्रेष्ठ: कथाशेषं प्रचक्रमे ॥ १ ॥ ततो हते महावीर्ये वृत्रे देवभयंकरे ॥ ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥ २ ॥ सोन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ॥ कालं तत्रावसत्कंचिद्वेष्टमान इवोरगः ॥ ३ ॥ अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ॥ भूमिश्च ध्वस्तसंकाशा निस्नेहा शुष्ककानना ॥ ४ ॥ निःस्रोतसश्च ते सर्वे ह्रदाश्च सरितस्तथा ॥ संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥ क्षीयमाणे तु लोकेऽस्मिन्त्संभ्रान्तमनसः सुराः ॥ यदुक्तं विष्णुना पूर्व तं यज्ञं समुपानयन् ॥ ६ ॥ ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ॥ तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥ ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया || तं पुरस्कृत्य देवेश मंश्वमेधमुपाक्रमन् ॥ ८ ॥ ततोश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ॥ ववृधे ब्रह्महत्यायाः पावनार्थ नरेश्वर ॥ ९ ॥ ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः || अभिगम्याब्रवीद्वाक्यं क मे स्थानं विधास्यथ ॥ १० ॥ ते तामृचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः ॥ चतुर्था विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥ देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् || सैन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ॥ १२ ॥ एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ॥ चतुरो वार्षिकान्मासान्दर्पघ्नी कौमवारिणी ॥ १३ ॥ भूम्यामहं सर्वकालमेकेन शेन दुर्वसा || वसिष्यामि न सन्देहः सत्येतद्रवीमि वः ॥ १४ ॥ योयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु || त्रिरात्रं दर्पपूर्णासु वसिष्ये दर्पघातिनी ॥ १५ ॥ हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् || तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १६ ॥ कथाशेषं वक्तुमिति शेषः ॥ १ ॥ न संज्ञां लेभ | देवानां सन्निधौ | संद्धाविति पाठे चतुर्धा विभाग इति । ग्रहग्रस्तवदप्रकाशोभूदित्यर्थः ॥ २ ॥ कंचि- संपादितवतीत्यर्थः । अन्यत्र महेन्द्रादन्यत्र | दुर्वसा त्कालमित्यन्वयः ॥ ३ ॥ नष्टे अदृष्टे | उद्विग्नमिति । महेन्द्रे दुर्वसा ॥ १२ ॥ चतुर इति । " सिंहकर्कट - अराजकत्वादिति शेषः | निस्नेहा अनार्द्रा ॥ ४ ॥ योर्मध्ये सर्वा नद्यो रजस्वला:" इति स्मरणात् । अनावृष्टिकृत इति । इन्द्राभावमूलानावृष्टिकृत इत्यर्थः " पक्षा वै मासा : ” इति पक्षानुसारेण चतुवात् । ॥ ५ ॥ समुपानयन् संपादयन्ति स्म ॥ ६-७ | दर्पघ्नी । अपुण्यकृतामिति शेष: । कामवारिणी । तं देवेशमिति । विष्णुमित्यर्थः ॥ ८-१० ॥ हे स्नातुमिच्छतामिति शेषः । कामचारिणीति च पाठ: दुरासदे ब्रह्महत्ये इति शेषः ॥ ११ ॥ सन्निधौ | ||१३ – १४|| दर्पघातिनी | पुरुषसंभोगसुखहारिणी- स० वेष्टमानः संकुचत्स्वाङ्गः || ३ || ति० समुपानयन् आवेदयन् स्मृतवन्तइतियावत् ॥ ६ ॥ ति० तंदेवेशं विष्णु मिन्द्रवा ॥ ८ ॥ शि० दुर्वसा दुष्टवस्त्रयुक्ताब्रह्महत्या ॥ १२ ॥ ति० तत्रैववासेहेतुः - कामचारिणीति । तेनगङ्गादिषुनवास इत्युक्तं ॥ १३ ॥ ति० भूम्यामूषररूपेणवासः ॥ १४ ॥ शि० यौवनशालिषु यौवनशालिनीषु ॥ स० यौवनशालिषु पुरुषेषु | ताधारतया विद्यमानासुस्त्रीषु । तदपेक्षयातारुण्योपेताखितियावत् । एतेन यौवनशालिनीष्वितिभाव्य मितिशङ्कानिरासः ॥ १५ ॥ ति० अदूषकान् ब्रह्मब्रह्मविद्याब्राह्मणब्रह्मलोकानांमार्गान्तरावलंबे नदूषणकरणरहितान् । उक्त पदार्थेषुदृढविश्वासान् । मृषापूर्व मृषावादपूर्व | राजस्थानादौघातं कुर्वन्ति धिक्कारादि कुर्वन्ति लोहितादि सावं कुर्वन्ति कैमुतिकन्यायेनैवयेप्राणवियोगं कुर्वन्ति [ पा० ] १ घट. मश्वमेधंप्रचक्रिरे २ झ ठ. संदधौ स्थानमन्यत्र ३ झ. ठ. कामचारिणी.