पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् || एवमेतन्न सन्देहो यथा वदसि दैत्यन् ॥ ८ ॥ भद्रं तेस्तु गमिष्यामो वृत्रासुरवधैषिणः ॥ भजस्व परमोदार वासवं स्वेन तेजसा ॥ ९ ॥ ततः सर्वे महात्मानः सहस्राक्ष पुरोगमा: ॥ तदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ १० ॥ तेऽपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् || पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ११ ॥ दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् || कथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ १२ ॥ तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ॥ वज्रं प्रगृह्य पाणिभ्यां ग्राहिणोत्रमूर्धनि ॥ १३ ॥ कालाग्निनेव घोरेण तप्तेनैव महार्चिषा | पतता वृत्रशिरसा जगत्रासमुपागमत् ॥ १४ ॥ असंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः || चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ||१५|| तमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ॥ अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥ हतारयः प्रणष्टेन्द्रा देवाः साग्निपुरोगमा: || विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ १७ ॥ त्वं गतिः परमेशान पूर्वजो जगतः पिता || रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥ हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् || बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ १९ ॥ तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् || मामेव यजतां शऋः पावयिष्यामि वज्रिणम् ॥ २० ॥ पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ॥ पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ २१ ॥ एवं संदिश्य तां वाणीं देवानाममृतोपमाम् || जगाम विष्णुर्देवेशस्तूयमान त्रिविष्टपम् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चाशीतितमः सर्गः ॥ ८५ ॥ २२१ याबाधानिवृत्तिर्यावद्धरारक्षणार्थं चेत्यर्थः ॥७-१० ॥ जगाम । ब्रह्महत्याभिया पलायितोभूत् ॥ १५ ॥ तं भूतं व्याप्तं । पिबन्तमित्यादिकं तेजोदुर्धर्षत्वपरं पलायमानमिन्द्रं । ब्रह्महत्या, त्वष्ट्रा मुनिना वृ॒त्रस्यो - ११ – १३ ।। तप्तेन दीप्यमानेन । “तप संतापदी- त्पादितत्वात् । अस्य गात्रेष्वपतञ्च | ब्रह्महत्येति शेषः । योः” इति धातुः । दीप्तेनेति च पाठः । वज्रेण तमिन्द्रं ब्रह्महत्याग्रस्तमिन्द्रमित्यर्थः ॥ १६ --२२ ।। छेदनहेतुना पतता वृत्रशिरसा जगत्रासमुपागमत् इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ॥ १४ ॥ असंभाव्यमनपराधिनस्तप्यतो वृत्रस्य वध - मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पश्चाशीति- मसंभाव्यमनुचितं कृतमिति चिन्तयानो विबुधाधिपः तमः सर्गः ॥ ८५ ॥ लोकस्यान्तमन्तप्रदेश लोकालोकात्परं तमः प्रदेशं स० तेसकाशात् नोस्मभ्यंभद्रमस्तु । वासवमिन्द्रं तत्संबन्धिनं वज्रं भूमिं चेति त्रितयंभजस्व । तादृशंसामर्थ्य त्वयिवर्तत इति वक्तुं त थासंबोधयन्ति - परमोदारेति ॥ ९ ॥ ति० पिबन्तमित्यादितपआधिक्यपरं ॥ ११ ॥ स० पराजयः पराभवः । कथंनस्यात् । एनंकथंवधिष्यामइतिचिन्तयतामित्युत्तरेणान्वयः | पाणिभ्यां अन्तर्निविष्टविष्ण्वंश पाणिरेकः एकः स्वपाणिरितिदक्षिणाभ्यांपाणिभ्या- मित्यर्थः । महतोवज्रस्यसभगवदंशस्यवामास्पृश्यत्वात् । भवेद्भगवदंशाभावेबाहुबहुरप्य किंचित्करः । तदनुग्रहे चैक एवाल मितिव्या- ख्यानमिदंसमञ्जसमितिभावः । अयंमेहस्तोभगवान्' इतिश्रुतेः ॥ १२ – १३ ॥ स० जगत्प्रतिपतता शिरस: निमित्ते- नेन्द्रस्त्रासमुपागमत् । उत्तरग्रन्थस्वारस्यात् इन्द्रइत्यध्याहारमात्रंक्षाम्यन्तुमहान्तः ॥ १४ ॥ स० लोकस्यान्तं मानससरो- वरस्थनालीकनालं । भागवतोक्तेः ॥ १५ ॥ ति० पूर्वजः जगतःपिता । ' अहमस्मिप्रथमजाऋतस्य " इतिश्रुतेः । एवं कारण मूर्तिर्हिरण्यगर्भएव । सर्वभूतरक्षोद्देशेन विष्ण्वाकारत्वंपालनशक्तिप्राधान्येनप्राप्तः ॥ १८ ॥ स० तस्य वासवस्य | मोक्षं मोचन प्रकारं ॥ १९ ॥ ति० मां औपासनाग्निहोत्राद्यश्वमेधान्ताशेषयज्ञयजनीयं विशिष्याश्वमेधस्यसाक्षाद्दैवतंमामेवशक्रोयजतां । • इन्द्रायखा हा' इत्यादिमन्त्रैश्चतत्तद्देवतान्तर्याम्यहमेवतत्तत्पदैर्बोध्य इतिभावः ॥ स० यजतां अश्वमेधादिभिः पूजयतु ॥ २० ॥ इतिपञ्चाशीतितमः सर्गः ॥ ८५ ॥ [ पा० ] १ झ ठ तस्यविनिर्दिश