पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० श्रीमद्वाल्मीकि रामायणम् [ उत्तरकाण्डम् ७ तं चैनं परमोदारमुपेक्षसि महाबलम् || क्षणं हि नभवेत्रः क्रुद्धे त्वयि सुरेश्वर ॥ १४ ॥ यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः ॥ तदांप्रभृति लोकानां नाथत्वमुपलब्धवान् ॥१५॥ स त्वं प्रसादं देवानां कुरुष्व सुसमाहितः ॥ त्वत्कृतेन हि सर्वे प्रशान्तमरुजं जगत् ॥ १६ ॥ इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः || वृत्रघातेन महता त्वेषां साह्यं कुरुष्व ह ॥ १७ ॥ त्वया हि नित्यशः सायं कृतमेषां महात्मनाम् || असह्यमिदमन्येषामगतीनां गतिर्भवान् ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे चतुरशीतितमः सर्गः ॥ ८४ ॥ पञ्चाशीतितमः सर्गः ॥ ८५ ॥ विष्णुनादेवान्प्रति इन्द्रेतद्वज्रे चैकैकांशेनस्त्र प्रवेशन प्रतिज्ञानपूर्वक मिन्द्रंप्रति वृत्रवधविधानम् ॥ १ ॥ वृत्रतपोवनंगतेषु देवेषु तदीयदुस्सहतेजोसहिष्णुतयाचिन्तांगतेषु इन्द्रेण वज्रेणवृत्रशिरश्छेदनम् ॥ २ ॥ ततोब्रह्महत्यानुद्रुतेनेन्द्रेण पलाय- नम् ॥ ३ ॥ ब्रह्महत्याग्रस्तेन्द्र मोक्षणाय देवैर्विष्णुप्रार्थने तेनदेवान्प्रति तन्मोचनायेन्द्रेणाश्वमेवयाजनचोदना ॥ ४ ॥ लक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ॥ वृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥ राघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः || भूय एव कथां दिव्यां कथंयामास सुव्रतः ॥ २॥ सहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् || विष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥ पूर्व सौहृदबद्धोसि वृत्रस्य तु महात्मनः ॥ तेन युष्मत्प्रियार्थी हि नाहं हन्मि महासुरम् ॥ ४ ॥ अवश्यं करणीयं च भवतां सुखमुत्तमम् || तस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ५ ॥ त्रिंधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः || तेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ६ ॥ एकांशो वासवं यातु द्वितीयो वज्रमेव तु || तृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ ७ ॥ तमपीति शेषः ॥ १३ ॥ क्षणमपि नभवेत् न जीवे- | श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड - दित्यर्थः ॥ १४ ॥ उपलब्धवान् वृत्र इति शेषः ||१५|| व्याख्याने चतुरशीतितमः सर्गः ॥ ८४ ॥ स त्वमिति । रक्षणेनेति शेषः ॥ १६ ॥ वृत्रघातेन हेतुना साह्य उपकारं कुरु । हशब्दः पादपूरकः ॥ १७॥ सौहृदबद्धः भक्तिबद्धः । पूर्वमिति । युष्माभिस्त अन्येषामिदमसह्यं । अन्येषामसुराणां यद्यपि त्वत्सा- द्वधप्रार्थनात्पूर्वमित्यर्थः ॥ ४-५ ॥ त्रिधाभूतं त्रेधा मसामथापि तत्कुरु | हि यस्माद्भवानेवागतीनां विभक्तमित्यर्थः ॥ ६ ॥ तृतीयो भूतलं यात्विति । गतिः तस्मात् ॥ १८ ॥ इति श्रीगोविन्दराजविरचिते वृत्रदेहधारणशक्तिसिद्ध्यर्थ इन्द्रस्य वृत्रहननजब्रह्मह ति० त्वत्सन्तोषेणैवतस्य सौख्यमित्याह – यदाहीति । तदारभ्यैवेदं तस्यमाहात्म्यमितिशेषः ॥ १५ ॥ स० त्यजेदेक मितिनीत्या लोकारक्षणीयाइति विज्ञापयति — सत्वमिति । त्वत्कृतेनरक्षणेन सर्वेप्रशान्तं प्रकर्षेणत्वन्निष्टबुद्धि | अरुजं अरोगं | तस्यैवरोगरूपत्वात् । रुजाशब्दोऽयं ॥ १६ ॥ स० हा शोके | 'क्शेत्यागेगतौहास्यात्' इतिविश्वः ॥ १७ ॥ शि० इदंदैत्यरूपंवस्तु अन्येषामसह्यं । अतः अगतीनामस्माकं गतिर्भवानेव ॥ १८ ॥ इतिचतुरशीतितमः सर्गः ॥ ८४ ॥ • स० सर्वज्ञाय मया शैशवेन किंचिदुदञ्चितंनोदञ्चनीय मितिलज़्ज़योपरतंलक्ष्मणं विदित वेद्यो पिप्रेमविशेषेणश्रोतुकामोरामआह-वृत्र घातमिति ॥ १ ॥ स० प्रकृतोपयोगितयादिव्यां ॥ २ ॥ स० सुहृदांभावः सौहादें । "हृद्भगसिन्ध्वन्तेपूर्वपदस्यच " इत्यु भगपदवृद्धिः । क्वचित्सौहृदबद्धइतिदृश्यते । तत्राप्यच्छन्दः पीडायाएवमेव पठं ॥ ४ ॥ ति० आत्मानं स्वतेजोमूर्ति ॥ ६ ॥ स० तृतीयांश: भूतलंयातु ब्रह्महत्यानिर्हरणानन्तर मिन्द्रागमनपर्यन्तं स्थिरास्थित्यै ॥ ७ ॥ [ पा० ] १ क. ग. घ. ज. ट. कथयामासलक्ष्मणः २ ठ. सौहार्दबद्धोस्मि ३ ग. - ञ. माख्यास्येसहस्राक्षोवधिष्यति- क. ख. घ. माख्यास्येयेन वृत्रंवधिष्यथ ४ ङ. चं. छ. झ. न. त्रेधाभूतं.