पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः ॥ बालानां तु शुभं वाक्यं ग्राह्यं लक्ष्मणपूर्वज || तस्माच्छृणोमि ते वाक्यं साधुयुक्तं महामते ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्र्यशीतितमः सर्गः ॥ ८३ ॥ २१९ चतुरशीतितमः सर्गः ॥ ८४ ॥ लक्ष्मणेन रामंप्रत्यश्वमेधस्य सर्वार्थसाधकत्वोत्या तत्ररुच्युत्पादनाय वृत्रवधाख्यानप्रस्तावः ॥ १ ॥ चिरंधर्मेणराज्यंकृतव तात्रेण राज्येपुत्राभिषेचनपूर्वकंवनेतपश्चरणम् ॥ २ ॥ तत्तपश्चरणसंत्रस्नेन्द्रेण श्रीविष्णुमेत्य वृत्रवधप्रार्थना ॥ ३ ॥ तथोक्तवति रामे तु भरते च महात्मनि ॥ लक्ष्मणोथ शुभं वाक्यमुवाच रघुनन्दनम् ॥ १ ॥ अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् || पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ॥ २ ॥ श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि ॥ ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ॥ ३ ॥ पुरा किल महाबाहो देवासुरसमागमे || वृत्रो नाम महानासीदैतेयो लोकसंमतः ॥ ४ ॥ विस्तीर्णो योजनशतमुच्छ्रितत्रगुणं ततः ॥ अनुरागेण लोकांस्त्री स्नेहात्पश्यति सर्वतः ॥ ५ ॥ धर्मज्ञश्च कृतज्ञच बुद्ध्या च परिनिष्ठितः ॥ शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ॥ ६ ॥ तस्मिन्प्रशासति तदा सर्वकामदुधा मही ॥ रसवन्ति प्रसूनानि मूलानि च फलानि च ॥ ७ ॥ अकृष्टपच्या पृथिवी सुसंपन्ना महात्मनः || स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ॥ ८ ॥ तस्य बुद्धिः समुत्पन्ना तपः कुर्यामनुत्तमम् ॥ तपो हि परमं श्रेयः संमोहमितरत्सुखम् ॥ ९ ॥ स निक्षिप्य मुतं ज्येष्ठं पौरेषु मधुरेश्वरम् ॥ तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ॥ १० ॥ तपस्तप्यति वृत्रे तु वासवः परमार्तवत् || विष्णुं समुपसंक्रम्य वाक्यमेतदुवाच ह ॥ ११ तपस्यता महाबाहो लोका वृत्रेण निर्जिताः || बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ||१२|| यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वरः ॥ यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ॥ १३ ॥ स्मदभिप्रायात् अस्मदभिप्रायमेष्यत: मामकचिकीर्षा - | पशोधकत्वे पुरावृत्तकथनं – श्रूयते हीत्यादि ॥३-४॥ मागमिष्यत इत्यर्थः ।।१९ - २०|| इति श्रीगोविन्द- ततस्त्रिगुणमिति । योजनशतत्रयमित्यर्थः । अनुरा राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने गेण स्वीयत्वाभिमानेन हेतुना, स्नेहात् ॥ ५-८ ॥ उत्तरकाण्डव्याख्याने त्र्यशीतितमः सर्गः ॥ ८३ ॥ इतरत्सुखमिति | वैषयिक सुखमित्यर्थः ॥ ९ ॥ मधुरः सौम्यश्वासावीश्वरश्च मधुरेश्वरः तं | मधुराया नगर्या रोचतामित्यादि । अनुष्ठातुमिति शेष: । “सर्वे पाप्मानं तरति तरति ब्रह्महत्यां योश्वमेधेन यजते” ईश्वरं वा ॥ १० ॥ परमार्तवत् परमार्तः सन् इति श्रुतेः ॥ २ ॥ एवमश्वमेधस्य ब्रह्महत्यान्तसर्वपा- ॥११-- १२॥ भूय एव अतः परमपीत्यर्थः । भूतजा- ति० तुरप्यर्थे । बालानामपियद्वाक्यंयुक्तं उचितंसाधु शुभावहंचतद्ब्राह्यमेव | हि यस्मात् तस्मात् तेवाक्यं ईदृशं शृणोमि । स० साधुयुक्तं अत्यन्तयोग्यं । साधूनांमद्विधानांयुक्तमितिवा ॥ २० ॥ इतित्र्यशीतितमः सर्गः ॥ ८३ ॥ ति० वासवे वासवविषये ॥ ३ ॥ देवासुरसमागमे देवासुरस्नेहकाले ॥ ४ ॥ स० दुहःकपूघश्चेतिकामदुधा ॥ ७ ॥ शि० महात्मनः पृथिवी अकृष्टेवयमेवपच्यतेसा अतएव सुसंपन्ना आसीदितिशेषः ॥ ८ ॥ ति० संमोहं संमोहकरं ॥ ९ ॥ शि० वशानुगाः भविष्यन्तीतिशेषः ॥ १३ ॥ [ पा० ] १ च. छ. वासवस्य महात्मनः २ च. छ. झ. न. लोकाः सर्वेविनिर्जिताः