पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ ॥ परिष्वज्य तदा रामो वाक्यमेतदुवाच ह ॥ २ ॥ कृतं मया यथा तथ्यं द्विजकार्यमनुत्तमम् ॥ धर्मसेतुमतो भूयः कर्तुमिच्छामि राघवौ ॥ ३ ॥ अक्षय्यश्चाव्ययश्चैव धर्मसेतुर्मतो मम || धर्मप्रसाधकं ह्येतत्सर्वपापप्रणाशनम् || ४ || युवाभ्यामात्मभूताभ्यां राजसूयमनुत्तमम् || सहितो यष्टुमिच्छामि तत्र धर्मो हि शाश्वतः ॥ ५ ॥ इट्वा तु राजसूयेन मित्र: शत्रुनिबर्हणः ॥ सुहुतेन सुयज्ञेन वरुणत्वमुपागमत् ॥ ६॥ सोमञ्च राजसूयेन इष्ट्वा धर्मेण धर्मवित् ॥ प्राप्तश्च सर्वलोकेषु कीर्तिस्थानं च शाश्वतम् ॥ ७ ॥ अस्मिन्नहनि यच्छ्रेयश्चिन्त्यतां तन्मया सह ॥ हितं चायतियुक्तं च प्रयतौ कर्तुमर्हथः ॥ ८ ॥ श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः ॥ भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ॥ ९ ॥ त्वयि धर्मः परः साधो त्वयि सर्वा वसुंधरा ॥ प्रतिष्ठिता महाबाहो यशश्वामितविक्रम ॥ १० ॥ महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः ॥ निरीक्षन्ते महात्मानं लोकनाथं यथा वयम् ॥ ११ ॥ प्रजाथ पितृवद्राजन्पश्यन्ति त्वां महाबल || पृथिव्या गतिभूतोसि प्राणिनामपि राघव ॥ १२ ॥ स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप | पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ॥ १३ ॥ पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः ॥ सर्वेषां भविता तत्र संक्षयः सर्वकोपजः ॥ १४ ॥ स त्वं पुरुषशार्दूल गुणैरंतुलविक्रम | पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ॥ १५ ॥ भरतस्य तु तद्वाक्यं श्रुत्वाऽमृतमयं तदा || प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ॥ १६ ॥ उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् || प्रीतोसि परितुष्टोस्मि तवाद्य वचनेऽनघ ॥ १७ ॥ इदं वचनमक्कीचं त्वया धर्मसमाहितम् || व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ॥ १८ ॥ एष्यदसदभिप्रायाद्राजसूयात्क्रतूत्तमात् || निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ॥ १९ ॥ तथ्यं कृतं । बालो जीवित इत्यर्थः । धर्मसेतुं राजध- र्ममर्यादाभूतं राजसूयमित्यर्थः ॥ ३ ॥ धर्मप्रसाधकं धर्मवर्धक मित्यर्थः । धर्मप्रवचनमिति च पाठः ॥ ४ ॥ तत्र धर्मो हि शाश्वत इति । तत्र राजसूये । क्षत्रिय- स्यासाधारण: अक्षयकीर्तिहेतुर्धर्म इत्यर्थः ॥५- ७॥ हितं । इह लोके सुखं आयतियुक्तं । उत्तरः काल आ यतिः । उत्तरकाले च हितमित्यर्थः ॥८–९॥ सर्वा वसुंधरा प्रतिष्ठितेति | सार्वभौमत्वादिति भावः ॥ १०- ११ ॥ पितृवत्पितरमिव ॥ १२ – १४ ॥ तव वशे वर्तते तव स्वाधीने वर्तत इत्यर्थः ॥१५- १८॥ एष्यद- स० धर्मसेतुं राजाराजसूयेनयजेतेत्यादिबोधितराजमर्यादारूपंकर्म । 'यदिह्यहंनवर्तेयंजातुकर्मण्यतन्द्रितः | ममवर्त्मानुवर्तन्तेमनु- व्याः पार्थसर्वशः' इत्युत्केरीश्वरस्यापीतरप्रवृत्तये कर्मानुष्ठानं विहित मितिकर्तुमिच्छामीत्युक्तिः । नत्वप्राप्तफललाभार्थमितिभावः । हेराघवौ ॥ ३ ॥ ति० अक्षयः बहुकालानुभवयोग्यफलत्वात् । अव्ययः सजातीय धर्मान्तरहेतुत्वात् । राजसूयानुष्ठानमेवंभूत- मितिकिंवक्तव्यं यत्कीर्तनमपि विशिष्टफल मित्याह – एवं धर्मप्रपचनं चेति । मममर्यादाभूतराजसूयधर्म संकीर्तनं चेत्यर्थः । 'यउचैनमेवं वेद' इतिश्रुतेः ॥ ४ ॥ स० आत्मभूताभ्यां प्राणसमाभ्यां | यष्टुं कर्तु । तत्र तस्मिन्कृते । शाश्वतोधर्मः शाश्वतिकं पुण्यं भवति ॥ ५ ॥ स० मित्रः तत्पदयोग्यः | वरुणत्वमुपागमत् ॥ ६॥ शि० पुत्राः पितृवत् त्वांपश्यन्ति | महीपालादयइतिशेषः ॥१२॥ ति० राजसूयस्य सर्वराजविजयपूर्वेसाघनीयत्वात्तत्रचास्मासुप्रवृत्तेषुपृथिव्यांयेक्षत्रियाः । पौरुषमागताः शौर्येप्राप्ताः तेषांसर्वेषांतत्र राजसूयार्थेविजये सर्वप्रकोपजः संक्षयोऽवश्यंभविता । एवं विधंक्षत्रिय नाशकं यज्ञंसर्वराजभिः पितृवदुपास्यमानः कथमाहर्तुमर्हसि । सर्वथैवानुचितंतवेत्यर्थः ॥ १४ ॥ ति० वचने वचनरूपेनिमित्त । अनघेतिसंबुद्धिः ॥ १७ ॥ ति० निवर्तयामिअभिप्रायमिति शेषः । तत्रहेतुस्तवसुव्याहृतं ॥ १९ ॥ [ पा० ] १ झ ठ. धर्मप्रवचनचैव सर्वपाप २ क. ग. ङ.. -ट, वक्तुमर्हथः ३ झ. ठ. पुत्राच. ४ च. छ. क्षयः सर्वान्तकोपमः ५ ग रमितविक्रम. 3