पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ८३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१७ ये च त्वां घोरंचक्षुर्भिः पश्यन्ति प्राणिनो भुवि || हतास्ते यमदण्डेन सद्यो निरयगामिनः ॥११ ॥ ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनाम् || भुवि त्वां कथयन्तोपि सिद्धिमेष्यन्ति राघव ।। १२ ॥ गच्छ चारिष्टमव्यग्रः पन्थानमकुतोभयम् || प्रशाधि राज्यं धर्मेण गतिर्हि जगतो भवान् ॥ १३ ॥ एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः ॥ अभ्यवादयत प्राज्ञस्तमृषिं पुण्यशालिनम् ॥ १४ ॥ अभिवाद्य मुनिश्रेष्ठं तांश्च सर्वोस्तपोधनान् || अध्यारोहत्तदव्यग्रः पुष्पकं हेमभूषितम् ॥ १५ ॥ तं प्रयान्तं मुनिगणा ह्याशीर्वादेः समन्ततः ॥ अपूजयन्महेन्द्राभं सहस्राक्षमिवामराः ॥ १६ ॥ खस्थः स दहशे रामः पुष्पके हेमभूषिते ॥ शशी मेघसमीपस्थो यथा जलधरागमे ॥ १७ ॥ ततोर्धदिवसे प्राप्ते पूज्यमानस्ततस्ततः ॥ अयोध्यां प्राप्य काकुत्स्थो मध्यकक्ष्यामवारुहत् ॥ १८ ॥ ततो विसृज्य रुचिरं पुष्पकं कामगामि तत् ॥ विसर्जयित्वा गच्छेति स्वस्ति तेऽस्त्विति च प्रभुः ॥१९॥ कक्ष्यान्तरविनिक्षिप्तं द्वाःस्थं रामोऽब्रवीद्वचः ॥ लक्ष्मणं भरतं चैव गत्वा तौ लघुविक्रमौ ॥ ममागमनमाख्याय शब्दापयत मा चिरम् ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे व्यशीतितमः सर्गः ॥ ८२ ॥ त्र्यशीतितमः सर्गः ॥ ८३ ॥ कृतमिति ॥ द्विजकार्य यथा प्रतिज्ञातं तत्तथा रामेण भरलक्ष्मणप्रति राजसूयचिकीर्षांनिवेदनम् ॥ १ ॥ भरतेन तंप्रति तस्य सर्वराजपराजयपूर्वकत्वोक्त्यापृथ्वीवि नाश हेतुत्वकथनेन तत्करणस्यानौचित्यकथनम् ॥ २ ॥ रामेण तंप्रति तद्वचनप्रशंसनपूर्वकं राजसूयनिवर्तनोक्तिः ॥ ३ ॥ तच्छ्रुत्वा भाषितं तस्य रामस्याक्लिष्टकर्मणः ॥ द्वाःस्थः कुमारावाहूय राघवाय न्यवेदयत् ॥ १ ॥ प्राप्ताः ॥ १०–११ ।। सिद्धिं परमं तत्त्वं ब्रह्मभावं | मार्षं ॥ २० ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- ॥ १२ ॥ अरिष्टं सुखं ॥ १३ ॥ प्रग्रहः उद्यतबाहुः मायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने ।। १४-१७ ।। मध्यकक्ष्यां प्राप्येति शेषः ।।१८-१९॥ व्यशीतितमः सर्गः ॥ ८२ ॥ विनिक्षिप्तं योजितमिति यावत् । शब्दापयतेति पुगार्षः । आत्मानं शब्दवन्तं कुर्वित्यर्थः | बहुवचन- येपश्यन्तीत्यर्थः । तेपाविताः वद्ध्यानदर्शनाभ्यामितिशेषः । अतएव देहान्तेस्वर्गभूताः परमपरंवा स्वर्गप्राप्ताः । अतएव तेसर्वदै- वतैः पूज्या: । एवमनुकूलदृष्टेः फलमुक्तं । स० स्वर्गभूताः सुखरूपिणः 'तत्सुखंस्खःपदास्पदं' इत्युक्तेः स्वर्ग स्ये वसुख स्यापिस्वर्गशब्द- वाच्यत्वसंभवात् ॥ १० ॥ ति० अथप्रतिकूलदृष्टेस्तदाह — येचेति । प्राणिनइतिसामान्योक्त्यातपःप्रभावेसत्यपित्व द्वेषमात्रेणनि- रयगामितोक्ता । परंतु तेसद्यःतत्क्षणमेव निरयगामिनइत्युक्त्याकालान्तरे तादृशरीत्यापित्वद्दर्शनमाहात्म्यात्तेस्वर्ग मोक्षभाजइति सूचितं ॥ ११ ॥ ति० ईदृशसकलकल्याणगुणः परमानन्दरूपः सर्वदेहिनांपावनोसि । अतःकालान्तरेत्वां कथयन्तः त्वचरितंकी- र्तयन्तोपिसिद्धिं ब्रह्मतारूपां चित्तशुद्धिद्वाराएष्यन्ति प्राप्स्यन्ति । किंचई दृशस्त्वंपावनः इतर विलक्षणपावनत्वस्वभावः । ते त्वांराग- द्वेषकामभयान्यतमैरपिकथयन्तस्तेसिद्धिं मोक्षं गमिष्यन्ति । स० हेरघुश्रेष्ठत्वमीदृशः सर्वदेहिनांपावनः । वेदानींविमुच्यन्ते । पारोक्ष्येत्वां कथयन्तःत्वचरितमुदाहरन्तोजनाः सिद्धिं मुक्ति एष्यन्ति ॥ १२ ॥ ति० गतिः स्वर्गातिगदिसाधनं ॥ १३ ॥ ति० विसृज्य स्वरहितंकृत्वा । विसर्जयित्वा कुबेरंवहेत्यनुज्ञाय | स० अविसृज्य | कुबेर मितिशेषः । अत्यक्त्वातिष्ठ । तेस्खस्त्यस्तु । गच्छेतिविसर्जयित्वेत्यन्वयः । अतोनान्यतरवैयर्थ्य नक्लिष्टकल्पनाच | पुष्पकशब्दः पुंस्यपि | तेनकामगामिनमितियुज्यते ॥ १९ ॥ ति० शब्दापयत दौवारिकेणाहयखेत्यर्थः । बहुवचनमार्षं । आह्वानंकारयेत्यर्थः । स० शब्दापयत प्रातिस्विकोक्तिरियमिति बहुवचनोपपत्तिः ॥ २० ॥ इतिशीतितमः सर्गः ॥ ४२ ॥ स० कुमारौ लक्ष्मणभरतौ । द्वास्स्थः । तन्मध्येमुख्य इत्ये कवचन मितिवाऽवसेयम् ॥ १ ॥ [ पा०] १ ख. ग. घ. चक्षुर्भिरीक्षन्तेप्राणिनो २ ङ च झ ञ ट सत्यशीलिनं. ३ ङ. झ ञ ट मध्यकक्ष्यामवातरत्. च. छ. विमानादवरोहत ४ झ. ठ. कामगामिनं. वा० रा. २६८ 1 1