पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः ॥ कृतोदका नरव्याघ्र आदित्यं पर्युपासते ॥ २१ ॥ स तैर्ब्राह्मणमभ्यस्तं सहितैर्ब्रह्मवित्तमैः ॥ रविरस्तं गतो राम गच्छोदकमुपस्पृश ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकाशीतितमः सर्गः ॥ ८१ ॥ द्वाशीतितमः सर्गः ॥ ८२ ॥ शंबुकशुद्रवधानंन्तररात्रावगस्त्याश्रमे स्थितवतारामेण प्रभातेतदभिवादनपूर्वकं पुष्पकारोहणेनपुनरयोध्यांप्रत्यागम नम् ॥ १ ॥ B ऋषेर्वचनमाज्ञाय रामः सन्ध्यामुपासितुम् ॥ उपाक्रमत्सरः पुण्यमप्सरोगण सेवितम् ॥ १ ॥ तत्रोदकमुपस्पृश्य सन्ध्यामन्वास्य पश्चिमाम् || आश्रमं प्राविशद्रामः कुम्भयोनेर्महात्मनः ॥ २ ॥ तस्यागस्त्यो बहुगुणं कन्दमूलं तेथौषधिम् || शाल्यादीनि पवित्राणि भोजनार्थमकल्पयत् ॥ ३ ॥ स भुक्तवान्नर श्रेष्ठस्तदन्नममृतोपमम् || प्रीतश्च परितुष्टश्च तां रात्रिं समुपाविशत् ॥ ४ ॥ प्रभाते काल्यमुत्थाय कृत्वाऽऽह्निकमरिन्दमः ॥ ऋषिं समुपचक्राम गमनाय रघूत्तमः ॥ ॥ अभिवाद्याब्रवीद्रामो महर्षि कुम्भसंभवम् || आपृच्छे खां पुरीं गन्तुं मामनुज्ञातुमर्हसि ॥ ६ ॥ धन्योस्म्यनुगृहीतोसि दर्शनेन महात्मनः ॥ द्रष्टुं चैवागमिष्यामि पावनार्थमिहात्मनः ॥ ७ ॥ तथा वदति काकुत्स्ये वाक्यमद्भुतदर्शनम् || उवाच परमप्रीतो धर्मनेत्रस्तपोधनः ॥ ८ ॥ अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरम् || पावनः सर्वभूतानां त्वमेव रघुनन्दन ॥ ९॥ मुहूर्तमपि राम त्वां ये च पश्यन्ति केचन ॥ पाविताः स्वर्गभूताथ पूज्यास्ते सर्वदैवतैः ॥ १० ॥ – २० ॥ कृतोदकाः कृतस्नानादिकर्माण इत्यर्थः ॥ २१ ॥ स रविः ब्रह्मवित्तमैः तीर्थसमीपे सहितैः संगतैस्तैऋषिभिरभ्यस्तं ब्राह्मणं ब्रह्ममंत्रतत्रयोगाभ्या संलक्षणपूजां प्राप्येति शेषः ॥ २२ ॥ इति श्रीगोवि- दुराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकाशीतितमः सर्गः ॥ ८१ ॥ 3 2 णप्रयोजनार्थ ददौ । भोजनार्थं तु शालिपवित्राणि पवित्रशाल्यन्नानीत्यर्थः ॥ ३-४ ॥ काल्यं प्रातः कालिकमाहिकं कृत्वा । गमनायेति । गमनानुज्ञार्थ - मित्यर्थः ॥५-६ ॥ आगमिष्यामीति । अतःपरमपि यदाऽऽकाङ्क्षा तदा आमन: पावनार्थमागमिष्या मीत्युक्तवानित्यर्थः ॥ ७ ॥ परमप्रीत इति । एवं विन • कन्दमूलं कन्दरूपं मूलं कन्दमूलं । तथा ओषधिं यवचनादिति शेषः । धर्मनेत्र इति । धर्मो नेत्रं ज्ञान- दिव्यौषधिरूपं । जरापलितघ्नमित्यर्थः । एवं बहुगु- साधनं यस्य स तथा ॥८-९ ॥ स्वर्गभूताः स्वर्ग स० पूर्णकुंभाः पूर्णार्णःकुंभा: ॥ २१ ॥ इत्येकाशीतितमः सर्गः ॥ ८१ ॥ 'स० कन्दमूलं कन्दरूपंमूलमितिनागोजिभः | कन्दःसूरणादिः 'कन्दस्तुसूरणेसस्यमूलेजलधरेपिच । इति विश्वः । मूलं शिफा 'मूलमायेशिफायांस्यात्' इतिविश्वः । औषधं आरोग्यदममृतवलयादि । शाल्यादीनि दिव्यतण्डुलादीनि ॥ ३ ॥ स० आपृच्छे, 'आडिनुप्रच्छयोः' इत्यात्मनेपदता । स्वाश्रमं स्वनगरीं । सीतांलोकरीत्यात्यक्तवतोरामस्य विरक्तिवशात्खाश्रम मित्युक्तिरिति मन्त- व्यं ॥ ६ ॥ स० पावनार्थं लोकदृष्ट्यामम आन्तरङ्गिकतयातव पावनार्थमित्यर्थः ॥ ७ ॥ स० यद्वा धर्मनेत्रः धर्मकरणेनियाम.. कः । प्रज्ञानेत्रशब्दवदयंशब्दः । ति० तथावदति आत्मनः पावनार्थेग मिण्या मी तिवदति ॥ ८ ॥ ति० अथागस्त्योरामस्यब्रह्म- संहदिकृत्वाह पावनः सर्वभूतानामिति । सर्वजीवानां 'क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिःपरमामता' इतिशास्त्रादित्याशयः । त्वमेवेत्यने.. नसर्वपावनस्यभगवद्रूपत्वमेवोक्तं । स० पावनार्थमित्युक्तस्यबाह्यार्थमसहमानोऽगस्त्यआह— पावनइति । 'पवित्राणांप वित्रयः- इतिमानादितिभावः ॥ ९॥ ति० ये त्वां पश्यन्ति चित्तेस्वतत्त्वब्रह्मतयापश्यन्तीत्यर्थः । तवलीलावतारमूर्ति विष्णुत्वेन चक्षुषाच [ पा० ] १ ङ. स. न. दं. अपाकामतू. २ झ . तथौषधं. ३ झ. ठ. स्वाश्रमं..