पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१५ क्षयोस्य दुर्मतेः प्राप्तः सानुगस्य दुरात्मनः ॥ यः प्रदीप्तां हुताशस्य शिखां वै स्प्रष्टुमिच्छति ॥५॥ यस्मात्स कृतवान्पापमीदृशं घोरसंहितम् || तस्मात्प्राप्स्यति दुर्मेधाः फलं पापस्य कर्मणः ॥ ६ ॥ सप्तरात्रेण राजाऽसौ सभृत्यबलवाहनः ॥ पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः ॥ ७॥ समन्तायोजनशतं विषयं चास्य दुर्मः ॥ धक्ष्यते पांसुवर्षेण महता पाकशासनः ॥ ८ ॥ सर्वसत्त्वानि यानीह स्थावराणि चराणि च ॥ महता पांसुवर्षेण विलयं सर्वतोऽगमन् ॥ ९ ॥ दण्डस्य विषयो यावत्तावत्सर्वसमुच्छ्रयम् || पांसुवर्षमिवालक्ष्यं सप्तरात्रं भविष्यति ॥ १० ॥ इत्युक्त्वा क्रोधताम्राक्षस्तदाश्रमनिवासिनम् ॥ जनं जनपदान्तेषु स्थीयतामिति चाब्रवीत् ॥ ११ ॥ श्रुत्वा तूशनसो वाक्यं सोश्रमावसथो जनः ॥ निष्क्रान्तो विषयात्तस्मात्स्थानं चक्रेऽथ बाह्यतः ॥ १२॥ स तथोक्त्वा मुनिजनमरजामिदमब्रवीत् || इहैव वस दुर्मेधे आश्रमे सुसमाहिता ॥ १३ ॥ इदं योजनपर्यन्तं सर: सुरुचिरप्रभम् || अरजे विज्वरा भुङ्क्ष्व कालचात्र प्रतीक्ष्यताम् ॥ १४ ॥ त्वत्समीपे च ये सत्त्वा वासमेष्यन्ति तां निशाम् || अवध्या: पांसुवर्षेण ते भविष्यन्ति नित्यदा ॥१५॥ श्रुत्वा नियोगं ब्रह्मर्षेः सारजा भार्गवी तदा ॥ तथेति पितरं प्राह भार्गवं भृशदुःखिता ॥ इत्युक्त्वा भार्गवो वासमन्यत्र समकारयत् ॥ १६ ॥ तच राज्यं नरेन्द्रस्य सभृत्यबलवाहनम् || सप्ताहाद्भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना ॥ १७ ॥ तस्यासौ दण्डविषयो विन्ध्यशैवलयोर्नृप || शप्तो ब्रह्मर्षिणा तेन वैधर्म्ये सहिते कृते ॥ १८ ॥ ततः प्रभृति काकुत्स्थ दण्डकारण्यमुच्यते || तपस्विनः स्थिता ह्यत्र जनस्थानमतोऽभवत् ॥ १९ ॥ एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव || सन्ध्यामुपासितुं वीर समयो ह्यतिवर्तते ॥ २० ॥ प्राप्तः क्षय इति योजना ॥ ५ ॥ शिखां वै स्प्रष्टुमि- | निवृत्तं ॥ १२ ॥ निर्जनं वनं कथं तपसे प्रविष्ट इत्य- च्छतीत्युक्तान्यापदेशार्थं विशदयति – यस्मादित्यादि || स्योत्तरमाह- इ – स तथेत्यादि ॥ तव समलत्वात् इहैव ईदृश मिति । मत्पुत्रीधर्षणरूपमित्यर्थः ॥६-७॥ धक्ष्यत वसेति । वासप्रयोजनमाह - - सुसमाहितेति । शोभ- इति । नाशयिष्यतीत्यर्थः ॥ ८ ॥ विलयमगमन् नसमाधिमतीत्यर्थः । समाध्यनुष्ठानस्यापि निमित्त- गमिष्यन्तीति यावत् ॥ ९ ॥ सर्वसमुच्छ्रयं चराचर- प्राणिमात्रमित्यर्थः । उच्छ्रयत्यस्मादित्युच्छ्रयं । पांसु- |माह - दुर्मेध इति । यस्माद्धर्पणसहिष्णुर्दुर्बुद्धिरसि, वर्षमिवालक्ष्यमिति । पांसुवर्षं प्रसिद्धप्रलयपांसुमहा- ततः तादृशमलमोचनार्थं समाधिमती सती वसेत्यर्थः वर्षमिव प्राप्य सप्तरात्रं सप्तरात्र पर्यन्तमलक्ष्यं भवि- ॥ १३ ॥ कथं वस्तुं शक्यं पांसुवर्ष इत्यत्राह - इदं व्यतीति । विनष्टपुरपौरजानपदकं । भविष्यतीत्यर्थः योजनपर्यन्तमित्यादि ॥ १४ ॥ सत्त्वाः पक्ष्यादयः । ॥ १० ॥ तदाश्रमवासिनमिति । स्वाश्रमनिवासिन- एवं चोशनसोनुग्रहेण सर: प्रदेशस्य सुखावहत्वात्सुख- मित्यर्थः । जनपदान्तेषु दण्डजनपदसीमान्तदेशे- वित्यर्थः ॥ ११ ॥ सोश्रमावसथ इति छान्दसः संन्धिः । एतावता कथं तदमृगद्विजमित्यस्योत्तरं वासत्वाञ्चात्र तपसे प्रविष्ट इति भावः ॥ १५-१७ ।। तस्यासौ । व्यत्ययात् षष्ठी । सोसावित्यर्थः । सहिते पूर्णधर्मपूर्णसौख्यसहित इत्यर्थः । कृते कृतयुगे ॥१८ स० यः मन्त्रमण्यादिरहितः ॥ ५ ॥ स० महतापांसुवर्षेणधक्ष्यते तत्कोपानलसहकृतत्वात्पांसूनांधक्षणशकताज्ञेया ॥ ८ ॥ शि० सप्तरात्रंपांसुवर्षं प्राप्येतिशेषः । अलक्ष्यभविष्यति ॥१०॥ स० हेदुर्मेधे दुर्मेधः । दुर्मेधे नि (दु ) र्यज्ञादिमत्याश्रमे इतिवा । असिच्बुद्धिपर्यायमेधाशब्दस्येतिज्ञायते | स्त्रीलिङ्गप्रजाशब्दसाहचर्यात् । यज्ञवाच्ययंपुल्लिङ्गः । 'मेधःऋतौस्त्रियांमेधामतौ'इतिवि- श्वः । एतत्पापपरिहारार्थेसमाहिता इहाश्रमेवस || १३ || ति० विन्ध्यशैवलयोःमध्ये इतिशेषः । सहिते पूर्णधर्मपूर्णसौख्यस- ह्निते । कृते कृतयुगे । तेनराज्ञा वैधर्म्ये धर्मवैपरीत्येकृतेसति । योब्रह्मर्षिणाशप्तः सोसावित्यन्वयः ॥ १८ ॥