पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ मा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् ॥ गुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ॥ व्यसनं सुमहत्क्रुद्धः स ते द्यान्महातपाः ॥ ९ ॥ यदि वाऽन्यन्मया कार्यं धर्मदृष्टेन सत्पथा || वरयख नृपश्रेष्ठ पितरं मे महाद्युतिम् ॥ १० ॥ अन्यथा तु फलं तुभ्यं भवेद्धोराभिसंहितम् || क्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥११॥ दास्यते चानवद्याङ्ग तव मां याचितः पिता ॥ १२ ॥ एवंब्रुवाणामरजां दण्डः कामवशं गतः || प्रत्युवाचं मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥ प्रसादं कुरु सुश्रोणि न कालं क्षेतुमर्हसि ॥ त्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥ त्वां प्राप्य मे वधो वा स्याच्छापोवा यदि दारुणः ॥ भक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥१५॥ एवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्वली ॥ विस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥१६॥ ऐतमर्थ महाघोरं दण्डः कृत्वा सुदारुणम् || नगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥ अरजापि रुदन्ती सा आश्रमस्याविदूरतः || प्रतीक्षन्ती सुसंत्रस्ता पितरं देवसन्निभम् ॥ १८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अशीतितमः सर्गः ॥ ८० ॥ एकाशीतितमः सर्गः ॥ ८१ ॥ शिष्यमुखावगतदण्ड राजकृत स्वसुताधर्षणवृत्तान्तेनशुक्रेण तंप्रति तदीय देशेनसह भस्मीभवनशापदानपूर्वकं निजतनयां प्रति तत्रैवाश्रमेतपश्चरणचोदना ॥ १ ॥ एवमगस्त्येन रामंप्रति श्वेतोपाख्यानकथनम् ॥ २ ॥ स मुहूर्तादुपश्रुत्य देवर्षिरमितप्रभः || स्वमाश्रमं शिष्यवृतः क्षुधातः सभ्यवर्तत ॥ १ ॥ सोपश्यदरजां दीनां रजसा समभिष्टुताम् || ज्योत्स्नामिवारुणग्रस्तां प्रत्यूषे न विराजतीम् ॥ २॥ तस्य रोषः समभवत्क्षुधार्तस्य विशेषतः || निर्दहन्निव लोकांस्त्रीशिष्यांश्चैतदुवाच ह ॥ ३ ॥ पश्यध्वं विपरीतस्य दण्डस्याविजितात्मनः ॥ विपत्ति घोरसंकाशां क्रुद्धामग्निशिखामिव ॥ ४ ॥ ९ ॥ यदि वा अन्यत् कामभोगानुकूलम् ॥ १० ॥ | अशीतितमः सर्गः ॥ ८० ॥ घोराभिसंहितं महानर्थसंबद्धम् ॥ ११-१३ ॥ कालं क्षेप्तुं विलम्बं कर्तुमित्यर्थः ॥ १४ ॥ त्वां प्राप्य मे उपश्रुत्येति । शिष्यमुखाद्वृत्तान्तमिति शेषः ॥ १ ॥ यदि वधादिर्भवेत् । भवतु नामेति शेषः ॥ १५ ॥ प्रत्यूषे प्रातःकाले ॥२ – ३ || विपरीतस्य विपरीतानु- विस्फुरन्तीं विलुठन्तीम् ॥ १६ ॥ प्रतीक्षन्ती पित- ष्ठानस्य । विपत्तिं विनाशं मत्क्रोधतो जायमानामिति रमास्त इति शेषः । प्रतीक्षन्ते स्म संत्रस्तेति पाठः शेष: | अग्निशिखामिव स्थितां क्रुद्धामरजां । क्रुद्धा- ॥१८॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- दग्निशिखामिवेति पाठे क्रुद्धान्मत्तो जायमानामग्निशि- णभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने | खासदृशीं विपत्तिं विनाशं पश्यध्वं ॥ ४ ॥ अस्य स० पितामेतेगुरुंः । एवंचमम ज्येष्ठ भ्रातृसमइयसूचि ॥ ९ ॥ स० यदिवाअन्यत्सुरतादिकं कार्येतर्हिधर्मदृष्टेन सत्पथा वेदविहित - विवाहमार्गेण | समासान्त विधेर नित्यत्वान्नाकारप्रत्ययः ॥ १० ॥ स० मदोन्मत्तः सत्कार्यविषये । शिरस्याधायेत्यनेनस्वाभिप्रे- तसाधनेजस्मृतिमा नितिसूच्यते ॥ १३ ॥ स० अनर्थ परत्रनिष्फलं । महाघोरं प्रजानां । सुदारुणं देशनैर्जन्यदत्वेनेति विवेकः ॥ १७ ॥ १० सुसंत्रस्ता ममामनःपूर्वके कर्मणिरोषपराभूतः पिता किंकरिष्यतीतिभीता । ति० अरजापीतिआकारान्तंनाम | पितरं प्रतीक्षतेस्म ॥ १८ ॥ इत्यशीतितमः सर्गः ॥ ८० ॥ [ पा० ] १ ख. - ञ तमनर्थमहा. २ ङ. च. छ. झ ञ प्रतीक्षते. ३ ङ. झ. अ. .ट. मिवग्रहग्रस्तां.