पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१३ नाम तस्य च दण्डेति पिता चक्रेऽल्पमेधसः ॥ अवश्यं दण्डपतन शरीरेऽस्य भविष्यति ॥ १५ ॥ अपश्यमानस्तं देशं घोरं पुत्रस्य राघव || विन्ध्यशैवलयोर्मध्ये राज्यं प्रादादरिन्दम ॥ १६ ॥ स दण्डस्तत्र राजाऽभूद्रम्ये पर्वतरोधसि ॥ पुरं चाप्रतिमं राम न्यवेशयदनुत्तमम् ॥ १७ ॥ पुरस्य चाकरोन्नाम मधुमन्तमिति प्रभो ॥ पुरोहितं तूशनसं वरयामास सुव्रतम् ।। १८ ।। एवं स राजा तद्राज्यमकरोत्सपुरोहितः ॥ ग्रहृष्टमनुजाकीर्ण देवराज्यं यथा वृषा ॥ १९ ॥ ततः स राजा मनुजेन्द्रपुत्रः सार्धं च तेनोशनसा तदानीम् || चकार राज्यं सुमहन्महात्मा शक्रो दिवीवोशनसा समेतः ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥ अशीतितमः सर्गः ॥ ८० ॥ कदाचनवसन्तेशुक्रासंनिधाने तदाश्रमंगतेनदण्डनाम्नाराज्ञाअरजानामिकायास्तत्कन्याया बलात्कारेणोपभोगः ॥ १ ॥ एतदाख्याय रामाय महर्षि : कुम्भसंभवः ॥ अस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥ ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् || अकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥ अथ काले तु कसिंश्चिद्राजा भार्गवमाश्रमम् || रमणीयमुपाक्रामञ्चैत्रे मासि मनोहरे ॥ ३ ॥ तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि ॥ विचरन्तीं वनोद्देशे दण्डोपश्यदनुत्तमाम् ॥ ४ ॥ सदृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः ॥ अभिगम्य सुसंवां कन्यां वचनमब्रवीत् ॥ ५ ॥ कुतस्त्वमसि सुश्रोणि कस्य वाऽसि सुता शुभे । पीडितोऽहमनङ्गेन गैच्छामि त्वां शुभानने ॥ ६॥ तस्य चैब्रुवाणस्य मोहोन्मत्तस्य कामिनः ॥ भार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७ ॥ भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः ॥ अरजांनाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥ ॥ १४ ॥ दण्ड इत्याख्याकरणं पितुः सर्वज्ञत्वात् अन्वर्थतावसायपूर्वकमित्याह - अवश्यमित्यादि ॥१५- ॥ १६ ॥ पर्वतरोधसि पर्वतप्रान्ते ॥ १७–२०॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकोनाशी- तितमः सर्गः ॥ ७९ ॥ एतदित्यादि || अस्यामेवापरं वाक्यमिति । प्रोक्त दानकथायामेव संबद्धं अपरं तत्पृष्टोत्तरभूतं कथान्त- रमित्यर्थः ॥ १--२ ॥ भार्गवः शुक्रः तस्यायमपि भार्गवः तं ॥ ३ ॥ मोहेन काममोहेन । उन्म त्तः उचितानुचितवचनकर्मविवेकरहितः ॥ ७- ति० घोरंदेशमपश्यमानः दण्डराज्ययोग्यंघोरंदेशमपश्यन्नित्यर्थः ॥ १६ ॥ स० अप्रतिमं असदृशं । अनुत्तमं उत्तमरहितं ॥ १७ ॥ ति० शक्रोत्रबलिः ॥ स० समेतः समेनइतः | उशनसाझुक्रेणयः समः तेन दानवदेवगुरुत्वेनसाम्यं तेनबृहस्पतिनाइतः युक्तइत्यर्थः । अन्यथाऽनानुरूप्यापत्तेः । पुनरुक्तिश्चानेवँकरणेदुरुत्तरास्यात् । अशक्रः शक्रभिन्नः तत्सदृशोबलिः | तत्पदस्थत्वात्शको बलिर्वा । शक्रःशक्तिमानूबलिरितिवा । 'शकःशक्तेमहेन्द्रेच' इतिविश्वः ॥ शि० राजाउशनसासार्धराज्यंचकार । तत्रदृष्टान्तः दिविउशनसासमेतः शक्रइव | अभूतोपमैषा ॥ २० ॥ इत्येकोनाशीतितमः सर्गः ॥ ७९ ॥ • ति० दान्तात्मा जितेन्द्रियः ॥ २ ॥ स० भार्गवं भार्गवोस्यास्तिस्वामित्वेन तमाश्रमं ॥ ३ ॥ स० तत्रवनोद्देशेइत्यन्वयः ॥ ४ ॥ स० सुसंविनः केयं किंवदति किंभवेदित्यन्तभतियुतः ॥ ५ ॥ स० कुतःकारणादत्रासि | शिo कुतः त्वमागतेति शेषः ॥ ६ ॥ स० देवस्य त्वयागुरुत्वेनस्वीकारात्स्तुत्यस्य | ज्येष्ठां देवयानीतः ॥ ८ ॥ [पा० १ क. घ. ट. देवराजोयथादिवि २ झ ठ. सुसंविनः ३. क. ग.ट. पृच्छामित्वां. 1