पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ उत्तरकाण्डम् ७ + प्रनष्टे तु शरीरेऽसौ राजर्षिः परया मुदा || तृप्तः प्रमुदितो राजा जगाम त्रिदिवं सुखम् ॥ २९ ॥ तेनेदं शऋतुल्येन दिव्यमाभरणं मम || तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥

एकोनाशीतितमः सर्गः ॥ ७९ ॥ अगस्त्येनराम चोदनयातंप्रतिश्वेतराजतपोवनस्य निर्जनत्वकारणकथनारंभः ॥ १ ॥ मनुपुत्रेणेक्ष्वाकुणापित्राज्ञयायागायु- पायैः पुत्रशतकोत्पादनं ॥ २ ॥ तत्रान्तिमपुत्रस्यभाविदण्ड विज्ञानेनदण्डइतिनामकरणपूर्वकंतप्रतिविन्ध्यशैवलमध्ये राज्यक रणनियोजनम् ॥ ३ ॥ दण्डेनराज्ञाशुक्राचार्यस्य पौरोहित्येवरणपूर्वकंराज्यकरणम् ॥ ४॥ तदद्भुततमं वाक्यं श्रुत्वाऽगस्त्यस्य राघवः ॥ गौरवाद्विमयाञ्चैव पुनः प्रष्टुं प्रचक्रमे ॥ १ ॥ भगवंस्तद्वनं घोरं तपस्तप्यति यत्र सः || श्वेतो वैदर्भको राजा कथं स्यादमृगद्विजम् ॥ २ ॥ तने स कथं राजा शून्यं मनुजवर्जितम् ॥ तपश्चर्तुं प्रविष्टः स श्रोतुमिच्छामि तत्त्वतः ॥ ३ ॥ रामस्य वचनं श्रुत्वा कौतूहलसमन्वितम् || वाक्यं परमतेजस्वी वक्तुमेवोपचक्रमे ॥ ४ ॥ पुरा कृतयुगे राम मनुर्दण्डधरः प्रभुः ॥ तस्य पुत्रो महानासीदिक्ष्वाकु: कुलनन्दनः ॥ ५ ॥ तं पुत्रं पूर्वकं राज्ये निक्षिप्य भुवि दुर्जयम् ॥ पृथिव्यां राजवंशानां भव कर्तेत्युवाच ह ॥ ६॥ तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव ॥ ततः परमसंतुष्टो मनुः पुत्रमुवाच ह ॥ ७ ॥ श्रीतोमि परमोदार त्वं कर्तासि न संशयः ॥ दण्डेन च प्रजा रक्ष मा च दण्डमकारणे ॥ ८ ॥ अपराधिषु यो दण्डः पात्यते मानवेषु वै ॥ स दण्डो विधिवन्मुक्त: स्वर्गे नयति पार्थिवम् ॥ ९ ॥ तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक || धर्मो हि परमो लोके कुर्वतस्ते भविष्यति ॥ १० ॥ इति तं बहु संदिश्य मनुः पुत्रं समाधिना || जगाम त्रिदिवं हृष्टो ब्रह्मलोकं सनातनम् ॥ ११ ॥ प्रयाते त्रिदिवं तस्मिन्निक्ष्वाकुरमितप्रभः ॥ जनयिष्ये कथं पुत्रानिति चिन्तापरोऽभवत् ॥ १२ ॥ कर्मभिर्बहुरूपैश्च तैस्तैर्मनुसुतः सुतान् || जनयामास धर्मात्मा शतं देवसुतोपमान् ॥ १३ ॥ तेषामवरजस्तात सर्वेषां रघुनन्दन ॥ मूढवाकृतविद्यश्च न शुश्रूषति पूर्वजान् ॥ १४ ॥

इ पुनर्भक्षणाय नोपस्थितमित्यर्थः ॥ २८-३० ॥ | ॥ ३-४॥ दण्डधरो राजा प्रभुः वर्णाश्रम विभागत- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे द्धर्मप्रवर्तनाधिकृतः ॥ ५–७ ॥ दण्डेन चेति । क्षत्रि मणिमुकुटख्याने उत्तरकाण्डव्याख्याने अष्टसप्त- यसहजधर्मभूतेन । अकारणे दण्डं मा पातयेतिशेष:: तितमः सर्गः ॥ ७८ ॥ ॥ ८ ॥ ननु कथं परपीडावहो दण्डो युक्तः कर्तुमिति : तत्राह -- अपराधिष्वित्यादि || विधिवद्यथाशास्त्रं तदित्यादि || गौरवात् सर्वज्ञः सर्ववक्तेति संभाव- यथापराधं | मुक्त: प्रवर्तित इत्यर्थः ॥ ९-१० ॥ नया ॥ १ ॥ स यत्र तप्यति तद्वनं कथममृगद्विजम् समाधिना योगेन ॥ ११-१२ ॥ वहुरूपैरिति । || २ || कथं तादृशं तद्वनं तपश्चर्तुं चरितुं प्रविष्टः यज्ञदानतपोलक्षणैरित्यर्थः ॥ १३ ॥ पूर्वजाः ज्येष्ठाः सं० तस्मिन्निमित्ते स्वतारणकारणेन ॥ ३० ॥ इत्यष्टसप्ततितमः सर्गः ॥ ७८ ॥ शि० विस्मयात् विस्मयंप्राप्य | अगस्यस्य गौरवात् गुरुत्वात् सर्वज्ञत्वादित्यर्थः । भूयःप्रष्टुंप्रचक्रमे ॥ १ ॥ ति० कुर्षतः दण्डमितिशेषः ॥ शि० कुर्वतः यत्नमितिशेषः ॥ १० ॥ ति० समाधिना प्रणवानुसन्धानस हितचित्तैकाम्येण ॥ ११ ॥ स० शुश्रूषति शुश्रूषते सेवते ॥ १४ ॥