पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७८ ] आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ १३ ॥ पितामहस्तु मामाह तवाहारः सुदेवज || स्वादूनि खानि मांसानि तानि भक्षय नित्यशः ॥ १४ ॥ स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् || अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ १५ ॥ तृप्तिर्न तेऽस्ति सूक्ष्माऽपि वने सत्त्वनिषेविते || पुरा तु भिक्षमाणाय भिक्षा वै यतये नृप ॥ नहि दत्ता त्वयेन्द्राभ यस्मादतिथयेऽपि वै ॥ १६ ॥ दत्तं न तेऽस्ति स्रुक्ष्मोपि तप एव निषेवसे || तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ १७ ॥ स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ॥ भक्षयित्वाऽमृतरसं तेन तृप्तिर्भविष्यति ॥ १८ ॥ यदा तु तद्वनं श्वेत अगस्त्यः सुमहानृषिः ॥ आगमिष्यति दुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे ॥ १९ ॥ स हि तारयितुं सौम्य शक्तः सुरगणानपि ॥ किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ||२०|| सोहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् || आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ॥ २१ ॥ बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया || क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा || २२ ॥ तस्य मे कृच्छ्रभूतस्य कृच्छ्रादसाद्विमोचय || अन्येषां न गतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ २३ ॥ इदमाभरणं सौम्य तारणार्थं द्विजोत्तम ॥ प्रतिगृह्णीष्व भद्रं ते प्रसादं कर्तुमर्हसि ॥ २४ ॥ श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २११ च इदं तावत्सुवर्णं च धनं वस्त्राणि च द्विज || भक्ष्यं भोज्यं च ब्रह्मर्षे ददात्याभरणानि च ॥ २५ ॥ सर्वान्कामान्प्रयच्छामि भोगांव मुनिपुङ्गव || तारणे भगवन्मह्यं प्रसादं कर्तुमर्हसि ॥ २६ ॥ तस्याहं स्वर्गिणो वाक्यं श्रुत्वा दुःखसमन्वितम् || तारणायोपजग्राह तदाभरणमुत्तमम् ॥ २७ ॥ मया प्रतिगृहीते तु तस्मिन्नाभरणे शुभे ॥ मानुषः पूर्वको देहो राजर्विननाश ह ॥ २८ ॥ प्राप्तस्य । स्वर्गोत्र ब्रह्मलोकः ॥११ – १४॥ स्वशरीरं | वानित्यर्थ: । "मनसश्चेन्द्रियाणां च होकायं परमं त्वया पुष्टमिति || मुख्यं तपो न कृतं स्वशरीरमेव तपः" इत्युक्तम् । दृढसमाधिरूपं तप एव कृतमि - केवलं त्वया पुष्टम् । अनुप्तमकृतावापं बीजं न रोहते त्यर्थः ॥ १७–२० ॥ कुर्मिं करोमि ॥ २१–२२ ॥ हि ॥ १५–१६ ॥ सूक्ष्मोपि । लिङ्गव्यत्ययः आर्षः । सूक्ष्ममपि अत्यल्पमपि । ते दत्तं दानं नास्ति देवपि- कृच्छ्रभूतस्य कृच्छ्रं प्राप्तस्य | विमोचय मामिति शेष: त्रतिथिषु । किन्तु तप एव केवलं निषेवसे निषेवित- ॥ २३ --२७ ।। तस्मिन् तारणनिमित्ते । विननाश यद्वात्रिष्वपिभुवनेषुश्रेष्ठमित्यर्थः ॥ शि० पितामहमुवाच । अहमितिशेषः । हर्षातिशयात्पारोक्ष्यं ॥ ११ ॥ स० खानि स्वसंबन्धीनि ॥ १४ ॥ स० स्वशरीरंपुष्ट॑कुर्वताउत्तमंतपस्तप्तं । नद्विजातिभोजनंकारितं । तेनत्वंतत्वंक्षुत्पिपासानुगः | मया- भवत्वन्नमदत्तं तथापिममतदलाभः कुतइत्यतआह - अनुप्तमिति । अनुप्तंभूमौ | त्वयानदत्तमिति नदत्तंतुभ्यमीश्वरेणेतिभावः ॥१५॥ • स० तेतवदत्तंदानं अन्नादेर्नास्ति । तर्हिमहापदप्राप्तिःकथमित्यत आह - सूक्ष्मइति । सूक्ष्मः स्वर्गमात्रप्रदः अन्नाद्यघटकः कश्चन धर्मोवर्तते । सकिंरूपइत्यत आह - तप एवेति । यद्वासूक्ष्मः एकत्रदृष्टिरितित्वंतप एव निषेवसे | तेननिमित्तेन । क्षुत्पिपासया क्षुधासहिताचसापिपासाचतया ॥ १७ ॥ स० सवंबाध्य सइतिपूर्वेणा न्वेति । स्वशरीरंभक्षयित्वास्थितस्यवृत्तिः क्षुदादिनिवृत्तिः । वृत्तिर्वर्तनंस्थितिरितियावत् । भविष्यति इतिवा ॥ १८ ॥ स० वेतअगस्त्यइत्यत्र सवर्णदीर्घा भावआर्षः । विवक्षाभावाद्वास- न्ध्यभावः ॥ १९ ॥ ति० ननुकथमहमगस्त्यइतित्वयाऽवगतस्तत्राह - अन्येषामिति । कुंभयोनिंद्विजमृतेभयात्अन्येषांअत्र निर्मानुषेगतिर्नास्ति । अतस्त्वमगस्त्य इति निर्णीत मितिभावः ॥ २३ ॥ ति० नन्वेतद्दानस्यानन्नदानत्वात्कथंपुन रेतद्दानेपिदुः- खमोक्षस्तत्राह—इदमिति । अस्यसर्वदत्वादेतद्दानं सर्वदानात्मक मितिभावः ॥ २५ ॥ ति० तस्माद्यदिदंप्रयच्छामितत्सर्वान्का- मान्सर्वभोगांश्चप्रयच्छामीतिजानीहि । तारणे तारणनिमित्तं ॥ २६ ॥ स० आभरणं मालां । 'श्वेतदत्तांतथामालामगस्त्या- दापराघवः' इत्युक्तेः ॥ २७ ॥ ति० मयाप्रतिगृहीते । तत्सुकृतबलादितिशेषः ॥ २८ ॥ [पा०] १ ङ. च. छ. झ. ट. वृत्तिर्भविष्यति. २ क. - ञ, ददाम्याभरणानिच,