पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । २१० नाह मौपायकं मन्ये तव भक्ष्यमिदं शवम् ॥ २१ ॥ [ उत्तरकाण्डम् ७ इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च ॥ श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वे तथा चाकथयन्ममेति ॥ २२ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७ ॥ • अष्टसप्ततितमः सर्गः ॥ ७८ ॥ अगस्त्येनरामंप्रतिश्वेतराजोपाख्यान कथन पूर्वकंस्वस्याभरणलाभप्रकारकथनम् ॥ १ ॥ श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् || प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ॥ १ ॥ शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः ॥ अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ २ ॥ पुरा वैदर्भको राजा पिता मम महायशाः || सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ३ ॥ तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत || अहं श्वेत इति ख्यातो यवीयान्त्सुरथोऽभवत् ॥ ४ ॥ ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ॥ तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ॥ ५ ॥ एवं वर्षसहस्राणि मातीतानि सुव्रत ॥ राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ ६ ॥ सोहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ॥ कालधर्म हृदि न्यस्य ततो वनमुपागमम् ॥ ७ ॥ सोहं वनमिदं दुर्गे मृगपक्षिविवर्जितम् || तपश्चर्तु प्रविष्टोसि समीपे सरसः शुभे ॥ ८ आतरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् || इदं सर: समासाद्य तपस्ततं मया चिरम् ॥ ९ ॥ सोहं वर्षसहस्राणि तपस्त्रीणि महावने || तत्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ १० ॥ तस्यै मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम ॥ बाधेते पैरमोदार ततोहं व्यथितेन्द्रियः ॥ गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ॥ ११ ॥ भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः || कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ॥ १२ ॥

.

अंतस्तत्सर्वं तत्त्वतः श्रोतुमिच्छामि ॥ २० – २२ || | ति शेषः ॥ २-४ ॥ धर्म्यं धर्मादनपेतं यथा भवति इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने सप्तसप्तति- तमः सर्गः ॥ ७७ ॥ तथा ॥ ५-६ ॥ निमित्ते कस्मिंश्चिदिति । केनचि न्निमित्तेन लक्षणेन सामुद्रिकादिना | विज्ञातायुः निश्चितायुरवधिः । कालधर्म हृदि न्यस्य | स्वस्य मर णकालं ज्ञात्वेत्यर्थः ॥ ७-१२ ॥ स्वर्गभूतस्य स्वर्ग सुखदुःखयोरिति देवत्वशवभुक्तरूपयोः कारणमि- राक्षसयोग्यः ॥ २० ॥ औपयिकं योग्यं ॥ २१ ॥ स० नरेन्द्रनाकी नाक्यभिन्नोराजा | ममसवाक्यंश्रुत्वासूनृतयागिराम मचकौतूहलादकथयत् । सर्वेमपृष्टं ॥ २२ ॥ इतिसप्तसप्ततितमः सर्गः ॥ ७७ ॥

स० सुखदुःखयोः दिव्यदेहशवाशन निमित्तकयोःकारणमितिशेषः । अनतिक्रमणीयं अत्येतुमशक्यं एतत्कारणंयथाट-

च्छ सितथाआनुपूर्व्येण । पुरावृत्तंवक्ष्यामि ऋण्वित्यन्वयः ॥ २ ॥ स० द्वाभ्यांस्त्रीभ्यां एकस्यामेकएकस्या मेक इतिपुत्रद्वयमजायत । तन्नामनीआह–अहमिति । अहंज्येष्ठः । सुरथइल्यपरःयवीयान् ॥ ४ ॥ स० कारयतः कुर्वतः ॥ ६ ॥ स० कस्मिंश्चिन्निमित्ते मरणसूचकचिह्ने । प्राप्तेसतिं ॥ ७ ॥ ति० त्रिभुवनश्रेष्ठं तृतीयेभुवने भूखःपदापेक्षयातृतीयब्रह्मलोके । श्रेष्ठंहिरण्यगर्भमित्यर्थः । " [ पा० ] १ क–घ. च. छ. ज. दुरतिक्रमणीयंहि. २ क. – ट. समतीतानि. ३ झ ञ ट तस्येमे. ४ ङ च छ. झ. ट. परमेवीर.