पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ श्रीमद्वाल्मीकिरामायणम् । उत्तरकाण्डम् ७ प्रजानां वचनं श्रुत्वा निश्चयित्वाऽर्थमुत्तमम् ॥ ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् || समाहूयाब्रवीत्सर्वास्तेजोभागान्प्रयच्छत ॥ ४१ ॥ ततो ददुर्लोकपालाः सर्वे भागान्त्स्वतेजसः ॥ अक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ ४२ ॥ तं ब्रह्मा लोकपालानां सहांशै ! समयोजयत् ॥ ततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ ४३ ॥ तत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः || वारुणेन तु भागेन वपुः पुष्यति राघव ॥ ४४ ॥ कौबेरेण तु भागेन वित्तमासां ददौ तदा || यस्तु याम्योऽभवद्भागस्तेन शास्ति स स प्रजाः ॥४५॥ तत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन || प्रतिगृह्णीष्व भद्रं ते तारणार्थ मम प्रभो ॥ ४६ ॥ तस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ॥ तद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ ४७ ॥ प्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् || आगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ ४८ ॥ अत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ॥ कथं भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ ४९ ॥ कुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ॥ आचर्याणां बहूनां हि निधिः परमको भवान् ॥ ५० ॥ एवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ॥ शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे || ५१ ॥ रमणीय प्रदेशसिन्वने यदृष्टवानहम् || आश्चर्य मे महाबाहो दानमाश्रित्य केवलम् ॥ ५२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे सप्ततितमः सर्गः ॥ ७६ ॥ सप्तसप्ततितमः सर्गः ॥ ७७ ॥ अगस्त्यै नरामंप्रतिस्वस्यदिव्याभरणलाभप्रकारकथनायश्वेतराजोपाख्यान कथनारंभः ॥ १ ॥ पुरा त्रेतायुगे राम ह्यरण्यं बहुविस्तरम् || समन्ताद्योजनशतं निर्मृगं पक्षिवर्जितम् ॥ १ ॥ तस्मिन्निर्मानुषेऽरण्ये कुर्वाणस्तप उत्तमम् || अहमाक्रमितुं सौम्य तदरण्यमुपागमम् ॥ २ ॥ ४७॥ आगमं प्राप्तिमार्ग ॥४८॥ अत्यद्भुतमिति || कुतो | व्याख्याने षट्सप्ततितमः सर्गः ॥ ७६ ॥ वा केन वा निमित्तेन केन पुरुषेण वा हृतमुपहृतम् । दत्तमिति यावत् ॥ ४९ – ५० ।। त्रेतायुगे त्रेतायुगा पुरेत्यादि ॥ पुरा त्रेतायुगे पूर्वचतुर्युगवर्तित्रेतायुगे । ख्ये ।। ५१–५२ ॥ इति श्रीगोविन्दराजविरचिते बहुविस्तरं बहुविस्तारम् । पक्षिवर्जितमिति । अरण्यं श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्ड - | अभूदिति शेषः ॥ १ ॥ तस्मिन्नरण्ये तदेकदेशे । तपः सं० तेजोभागान् नृपरूपसंपादने भागान् अंशान् ॥ ४१ ॥ स० अक्षुपत् श्रुतंकृतवान् । ततोजातःक्षुपः ॥ ४२ ॥ तंक्षुपं लोकपालानांसमांशैः तयोग्यांशैः । समयोजयत् मेलयामास । ततः योजनानन्तरं । तासांप्रजानां । ईश्वरंस्वामिनं तत्त्वेनक्षु- पंददौ ॥ ४३ ॥ स० तत्तद्भागकार्यमीरयति-तत्रैन्द्रेणेति । महीमाज्ञापयन्नृपउच्यते । वपुःपुष्यति पोषयति ॥ ४४ ॥ स० आसां प्रजाभ्यः । याम्यः यमीयः ॥ ४५ ॥ ऐन्द्रेणभागेन | देवताधिपतित्वेनाहुत्या दिवदेवैतद्रहणयोग्यत्वमनेनसूचयति ॥ मुख्यंनिमित्तमाह - तारणार्थमिति ॥ ४६ || ति० इदंदिव्यंअद्भुतं अत्याश्चर्यमित्यर्थः । अद्भुतंयथाभवतितथा । वपुषा संनिवेशविशेषेणयुक्तं ॥ स० विज्ञोप्यज्ञवत्पृच्छति -- ऋथमिति । कुतः कस्माद्देशात् । केमसाधनेन ॥ ४९ ॥ इतिषट्सप्ततितमः सर्गः ॥ ७६ ॥ [ पा० ] १ च. छ. झ. ज. समांशैः . त्रेतायुगेगते. ५ च. छ. द्वापरेसमनुप्राप्तेवने. " ७ क. घ. द. तदारण्य. २ ञ. वित्तपाभां. ३ ग. ङः च. छ. ञ. मुनेस्वस्य महात्मनः ४ च. छ. ६ क. घ, ङ. च. ज झ ञ बभूवबहुविस्तरं ख. बभूवभु विविस्तरं,