पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ॥ ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ २७ ॥ उष्यतां चेह रजनी सकाशे मम राघव ॥ प्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ ॥ त्वं हि नारायणः श्रीमांस्त्वयि सर्वे प्रतिष्ठितम् || त्वं प्रभुः सर्वभूतानां पुरुषस्त्वं सनातनः ॥२९॥ इदं चाभरणं सौम्य निर्मितं विश्वकर्मणा || दिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा || प्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ ३० ॥ दत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ॥ भरणे हि भवाञ्शक्त: सेन्द्राणां मरुतामपि ॥ ३१ ॥ त्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ॥ तैसात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप || दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ ३२ ॥ अथोवाच महात्मानमिक्ष्वाकृणां महारथः ॥ रामो मतिततां श्रेष्ठः क्षत्रधर्ममनुसरन् ॥ ३३ ॥ प्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः || [ क्षेत्रियेण कथं विप्र प्रतिग्राह्यं भवेत्ततः ॥ ३४ ॥ प्रतिग्रहोहि विप्रेन्द्र क्षत्रियाणां सुगर्हितः ॥ ] गृह्णीयां क्षत्रियोऽहं वै कथं ब्राह्मणपुङ्गव || ब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ॥ ३५ ॥ एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ३६ ॥ आसन्कृतयुगे राम ब्रह्मभूते पुरायुगे || अपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३७ ॥ ताः प्रजा देवदेवेशं राजार्थ समुपाद्रवन् ॥ ३८ ॥ २०७ सुराणां स्थापितो राजा त्वया देव शतक्रतुः || मैयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ॥ ३९ ॥ तस्मै पूजां प्रयुञ्जाना धूतपापाथरेमहि || न वसामो विना राज्ञा एष नो निश्चियः परः ४० ।। तत्वान्मम हृदये सदा स्थित इत्यर्थः ॥ २६ ॥ जीवा- | स्तुनः स्वयमनुपभुज्यान्यस्मै दानं सुमहाफलमुच्यते । पितः जीवनं प्रापितः । पुगार्ष: । अत्र त्वयेत्यत्र येति भरण इति । मरुतां देवानामपि । भरणे रक्षणे । गायत्र्यक्षरं त्रयोविंशमित्याहुः ॥ २७-३० ॥ दत्त अपिशब्दात् किमुतैतद्भरण इत्यर्थः । भरणेपि भवान् स्येति ॥ पारितोषिकतया येन केनापि दत्तस्योत्तमव शक्तः फलानां महतामपीति च पाठः ॥ ३१- अतोध्येयत्वाच्चत्वंपूज्यः । यद्वाहृदिस्थितः तेनस्वखरूपत्वमप्युक्तं ॥ २६ ॥ ति० नारायणः | नारस्यजीव समूहस्यस्थानं । तदेवाह—त्वयिसर्वमिति | सनातनः पुरुषःब्रह्म ॥२९॥ ति० दिव्येनवपुषासंनिवेशेनदिव्यं । अतएवस्वतेजसादीप्यमानं | आभरणं वलयरूपं ॥ ननुक्षत्रियस्यब्राह्मणाद्वव्यग्रहणमनुचितं । तत्राह —-मत्प्रियंकुर्विति । मत्प्रियार्थमनुचितमपिकार्यमित्याशयः । किंच राजत्वाद्रिक्तहस्ततयात्वद्दर्शनस्यममानुचिततयाएतद्ब्रहणेममप्रियंभवति । तवचदोषोनास्ति । भक्तदत्ताङ्गीकारेइवह विषोङ्गीकार इवचदोषाभावाच्चेत्याशयः । स० यद्यपीदमाभरणंदिव्यं । तथापिदिव्येनस्वतेजसा स्वरूपतेजस्विना । तववपुषादीप्यमानंप्र- तिगृह्णीष्व । ‘ सभूषणंसर्वविभूषणानां ” इतिसंग्रहोक्तेः ॥ ३० ॥ ति० ननुत किंप्रियंतत्राह — दत्तस्येति । येनकेनापिदत्तस्यानु- पभुज्यपुनः स्वेष्टदेवादिभ्योदाने महत्फलमुच्यते । 'लब्धावष्टगुणंपुण्यं ' इतिस्मरणात् । एवंचमहाफलहेतुत्वात्तुभ्यंतदानंममप्रि- यमितिभावः ॥ ३१ ॥ ति० नन्वस्माएवतर्हिदेयंतत्राह - भरणेहीति | आभरण स्यधारणेभवानेवशक्तोयोग्यः । किंचमहताम• पिफलानांब्रह्मलोकादीनांदानेच त्वंशक्तइतिशेषः । ननुमत्तोपिमहद्भ्यइन्द्रादिभ्योदीयतांतत्राह-त्वंहीति । तेत्वत्तोनमहान्तइति भावः ॥ ३२ ॥ स० अविगर्हितः ननिन्दितः । लोकरीति मनु कुर्वन्ना विष्कुर्वंश्चत स्यानन्यधार्थतामाह - क्षत्रियेणेति ॥ ३४ ॥ स० क्षत्रियस्यक्षत्रियात्ग्रहणंनिन्दितं । ततोपिब्राह्मणेभ्योन विहितंग्रहणमित्याह – ब्राह्मणेनेति ॥ ३५ ॥ स० ब्रह्मभूते ब्राह्मणप्रचुरे । अपार्थिवाः राजवर्जिताः । सुराणां तन्मात्रस्य | शतक्रतूराजासीत् ॥ ३७ ॥ स० देवदेवेशंब्रह्माणं ॥ ३८ ॥ अस्मासु भूलोकगतासु ॥ ३९ ॥ यस्मैराज्ञे । ' नाविष्णुः पृथिवीपतिः ' इत्यादेः । चरेमहि चरामः ॥ ४० ॥ [ पा० ] १ च तस्माद्दास्यामि विधिवत्. २ अयंश्लोकः च. छ. झ ञ पाठेषुदृश्यते ३ च. छ. झ, ञ. प्रयच्छास्मा.. सुलोकेश. ४ च. छ. झ ञ यस्मैपूजां.