श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ सुप्रीताश्चाब्रुवत्रामं देवाः सत्यपराक्रमम् || सुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ ७॥ गृहाण च वरं सौम्य यत्वमिच्छस्यरिन्दम || स्वर्गभाङ्ग हि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ ८ ॥ देवानां भाषितं श्रुत्वा राघवः सुसमाहितः || उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ९ ॥ यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु || दिशन्तु वैरमेतं मे ईप्सितं परमं मम ॥ १० ॥ मैमापचाराद्यातोसौ ब्राह्मणस्यैकपुत्रकः ॥ अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ११ ॥ तं जीवयत भद्रं वो नानृतं कर्तुमर्हथ || द्विजस्य संश्रुतोर्थो मे जीवयिष्यामि ते सुतम् ॥ १२ ॥ राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ॥ प्रत्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ ॥ निर्वृतो भव काकुत्स्थ सोस्सिन्नहनि बालकः ॥ जीवितं प्राप्तवान्भूयः समेतथापि बन्धुभिः ॥ १४ ॥ यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः | तसर्ते वालोसौ जीवेन समयुज्यत ॥ १५ ॥ स्वस्ति प्रामुहि भद्रं ते साधु याम नरर्षभ || अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ १६ ॥ तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहातेः || द्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ १७ ॥ काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् || त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ १८ ॥ स तथेति प्रतिज्ञाय देवानां रघुनन्दनः || आरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ १९ ॥ ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ॥ रामोप्यनु जगामाशु कुम्भयोनेस्तपोवनम् ॥ २० ॥ दृष्ट्वा तु देवान्त्संप्राप्तानगस्त्यस्तपसांनिधिः ॥ अर्चयामास धर्मात्मा सर्वास्तानविशेषतः ॥ २१ ॥ प्रतिगृह्य ततः पूजां संपूज्य च महामुनिम् ॥ जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ २२ ॥ गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च || ततोभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ २३ ॥ सोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ॥ आतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ २४ ॥ तमुवाच महातेजाः कुम्भयोनिर्महातपाः || स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोसि राघव ॥ २५ ॥ त्वं मे बहुमतो राम गुणैर्वहुभिरुत्तमैः ॥ अतिथि: पूजनीयश्च मम नित्यं हृदि स्थितः ॥ २६ ॥ २०६ अपपातेति वृष्टिरिति शेषः ॥ ६-७ ॥ सुरकार्यमे वाह–स्वर्गभागिति । हि यस्माच्छूद्रः तपसा स्वर्गे नाई: सोऽसौ त्वत्कृततपोनिवर्तनेन स्वर्गभाकू न वानित्यर्थः ॥ १४–१५ || यामेति लोडुत्तमबहुव- कृतः । तस्मादेव देवकार्य कृतमित्यर्थः ॥ ८-१०॥ प्रतिज्ञातः ॥ १२-१३ ॥ अस्मिन्नहनि त्वया शूद्र- शिरश्छेददिवसे । वरं विनापि स्वयमेव जीवितं प्राप्त- वैवस्वतक्षयं यमगृहम् ॥ ११ ॥ द्विजस्येति । ते तव चनम् ॥ १६ – २० ॥ अविशेषत: अपक्षपातत सुतं जीवयिष्यामीत्ययमर्थो मे मया द्विजस्य संश्रुतः इत्यर्थः ॥ २१–२५ ॥ हृदि स्थित इति । परब्रह्मभू- 66 ॥ ४ ॥ ति० एतंवरमे दिशन्तु । एतद्वरदानमेवममेप्सित मित्यन्वयान ममेतिपुनरुक्तं | स० मेप्रसन्ना:मद्विषये प्रसाद सुमुखायदि तर्हिवरमेतंदिशन्तुभवन्तः । इदमेवममपरमभीप्सितमित्यन्वयः । ब्राह्मणपुत्र विषय विषादातिशयेनोक्त्याधिक्यंवा । " परिहास - प्रलापादिष्वनर्थावाक् " इत्यादेः ॥ १० ॥ स० ममापचारात् अविचाररूपात् ॥ ११ ॥ स० भद्रंवइत्यनेन स्वतेजसैवतेषां तदुज्जीवनक्षमतांसूचयति ॥ १२ ॥ स० विबुधसत्तमाः ज्ञानिश्रेयांसः । देवाः ॥ १३ ॥ ति० उक्तमेवार्थ महश्शव्दविवक्षि तार्थप्रदर्शनेनप्रकाशयन्ति - यस्मिमुहूर्तइति ॥ १५ ॥ स० देवानांपुरतः प्रतिज्ञाय ॥ १९ ॥ स० अनु देवाननु ॥ २० ॥ स० गतेपुतेषुदेवेषु । अनेनव्योमयानानामनवनिसंबन्धात्किचित्त्वराधिकेतिवा साक्षात्सुरसपर्या पर्यायतोभवत्वहंक्षत्रधर्मरत इति पश्चाद्गच्छामीति मन्दं मन्दं जगामरामइतिवासूच्यते ॥ २३ ॥ ति० उत्तमैर्बहुभिर्गुणैस्त्वंबहुमतःमान्यः | अतिथित्वाञ्चपूज्यः । विशेषतश्चत्वंमेपूज्यइत्याह - ममहदिस्थितइति । अन्तर्यामिस्वरूपत्वादितिभावः । अतएवसदास्मरणविषयतयापिहृदिस्थितः । [ पा० ]१ ङ.ट. रामःसत्यपराक्रमः २ झ ञ ट वरमेतन्मे ३ ग घ. च. छ. झ ञ ट ममापचाराद्वालोसौ,
पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२१०
दिखावट