पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७६ ] श्रीमद्गोविन्दराजीयव्याख्यांसमलंकृतम् । तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः ॥ ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ॥ १४ ॥ राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् || उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ॥ १५ ॥ कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम || कौतूहलाचां पृच्छामि रामो दाशरथिर्ह्यहम् ॥ १६ ॥ कोर्थो मनीषितस्तुभ्यं स्वर्गलाभः परोथ वा || वराश्रयो यदर्थ त्वं तपस्यसि सुदुष्करम् ॥ यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ॥ १७ ॥ ब्राह्मणो वाऽसि भद्रं ते क्षत्रियो वाऽसि दुर्जयः ॥ वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ॥१८॥ इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै || उवाच जातिं नृपपुङ्गवाय येत्कारणे चैव तपःप्रयत्नः ॥ १९ ॥ इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ २०५ षट्सप्ततितमः सर्गः ॥ ७६ ॥ सशरीरतया देवत्व प्राप्तयेतपस्यता शंबुकनाम्नाशूद्रेण रामंप्रति स्त्रीयवर्णविशेषस्य स्वीयतपः फलकामनाया निवेदने रामेण तच्छिरश्छेदनम् ॥ १ ॥ शंबुकवध हटैरिन्द्रादिभिः राममेत्य सप्रशंसनं वरवरणचोदनेरामेण तान्प्रतिमृतब्राह्मणबा- लस्यपुनर्जीवितलाभवरणम् ॥ २ ॥ तैःशमंप्रतिशूद्र शिरश्छेदसमकालमेव विप्रबालस्य पुनर्जीवितलाभ निवेदन पूर्वक मगस्त्या- श्रमगमनम् ॥ ३ ॥ रामेणाप्यगस्त्याश्रममेत्य तत्प्रणामपूर्वकं तदीयातिथ्यस्त्रीकरणम् ॥ ४ ॥ अगस्त्येनरामप्रशंसनपूर्वकं तस्मै दिव्याभरणसमर्पणेरामेणतंत्र तितस्यतदाभरणलाभप्रकारप्रश्नः ॥ ५ ॥ तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ॥ अवाविछरास्तथा भूत्वा वाक्यमेतदुवाच ह ॥ १ ॥ शूद्रयोन्यांतोमि शम्बुको नाम नामतः ॥ देवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥ न मिथ्याऽहं वदे राम देवलोकजिगीषया || शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ ३ ॥ भाषतस्तस्य शूद्रस्य खड्नं सुरुचिरप्रभम् || निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ४ ॥ तस्मिञ्शूद्रे हते देवाः सेन्द्रा: सान्निपुरोगमा: || साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ ५ ॥ पुष्पवृष्टिर्महत्यासीहिव्यानां सुसुगन्धिनाम् || पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ६॥ र्तिगिरेः ॥ १३–१६ ॥ तुभ्यं तव | वराश्रयः तपः- | काण्डव्याख्याने पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ प्रीतदेवतावरलभ्यो मनीषितोभीष्टोर्थः स्वर्भोगो वा अन्यो वा । यमाश्रित्य ॥ १७ ॥ सत्यवाग्भव सत्यं तस्येत्यादि ॥ १ – ३ ॥ तस्य शिर इत्यन्वयः कथयेत्यर्थः ॥ १८–१९ ॥ इति श्रीगोविन्दराजवि ॥ ४५ ॥ पुष्पवृष्टिः पपातेतिशेषः । पुष्पवृष्टिश्च रचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तर- महतीति पाठे तस्यैव प्रपञ्चनं दिव्यानामित्यादि । तलवन्निर्मलां । पूर्वामितिशेषः ॥ स० आदर्शतलनिर्मलां तादृशजनोपेतां ॥ १२ ॥ स० कस्यांयोन्यांजातौ ॥ १६ ॥ इति पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ स० अवाक्छिराः तथाभूतः लंबमानएव ॥ १ ॥ स० सशरीरएव देवत्वं महादेवत्वं । निर्णये ' इच्छन्माहेश्वरंपदं ' इत्युक्तेः ॥ २ ॥ ति० मिथ्यावचनाभावेहेतुःदेवलोकजिगीषया ॥ ३ ॥ शि० विमलं मलसंसर्गराहित्यंयथाभवतितथाचि- च्छेद । नचैतत्तपश्चर्यायाविरुद्धवेनपरमात्मदर्शनं परमपुरुषार्थप्रापकरामशस्त्रकरणकहननंचविरुद्धं । निषिद्धाचरणस्यनिषिद्धफल- कत्वादितिवाच्यं । तस्यपरमपुरुषार्थप्रापकसत्यावलंबिवेन विरोधाभावात् । एतेनशीघ्रंपरमात्मप्राप्त्यर्थमेव विरुद्धाचरणमप्यनेनकृत- मितिबोध्यं । एतेनतस्यातप्रपन्नत्वंव्यक्तं तत्प्रणामाद्यकरणेन प्रणामादिकरणेऽतिदयालूरामोनहनिष्यती तितन्निश्चयोव्यक्तः [ पा० ] १ झ ञ ट तपस्यन्यैःसुदुश्वरम् २ ङ. च. छ. झ. उ. यत्कारणंचैव. ३ झ. – ट. भूतो. ४ ङ.ट, प्रजातो- स्मितपउमंसमास्थितः ५ ङ. -ट, काकुत्स्थशंबुकोनामनामतः.