पृष्ठम्:वाल्मीकिरामायणम्-उत्तरकाण्डम्.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० श्रीमद्वाल्मीकिरामायणम् । [ उत्तरकाण्डम् ७ न ह्यन्यविषयस्थानां बालानां मृत्युतो भयम् ॥ त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ॥ ११ ॥ राजद्वारि मरिष्यामि पत्या सार्धमनाथवत् || ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ॥ १२ ॥ भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि ॥ उषिताः स सुखं राज्ये तवासिन्सुमहाबल ॥ १३ ॥ इदं तु पंतितं ह्यस्मात्तव राम वशे स्थिताः ॥ कालस्य वशमापन्नाः स्वल्पं हि न हि नः सुखम् ॥१४॥ संप्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् ॥ रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ॥ १५ ॥ राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः ॥ असत्ते तु नृपतावकाले म्रियते जनः ॥ १६ ॥ यद्वा पुरेष्वयुक्तानि जना जनपदेषु च ॥ कुर्वते न च रक्षाऽस्ति तदा कालकृतं भयम् ॥ १७ ॥ सुव्यक्तं राजदोषो हि भविष्यति न संशयः ॥ पुरे जनपदे चापि ततो बालवधो ह्ययम् ॥ १८ ॥ एवं बहुविधैर्वाक्यैरुरुध्य मुहुर्मुहुः || राजानं दुःखसंतप्तः सुतं तमुपगूहते ॥ १९ ॥ [ नृपवरमिति निन्दयन्द्रिजात्मा सुजनसमूहसमावृतोऽभ्यशान्तः ॥ मृतशिशुसुपगूहयन्स्वमूर्त्या व्यलपदहो सुतशोकमभ्यगच्छत् ॥ २० ॥ ] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥ चतुःसप्ततितमः सर्गः ॥ ७४ ॥ मृतपुत्रकाह्मणरोदनरव श्राविणारामेणव सिष्ठाद्यानयनपूर्वकं तान्प्रति बालमरणकारणप्रश्नः ॥ १ ॥ तत्रनारदेनरामंप्रतियु- गचतुष्टयसंबन्धिचातुर्वर्ण्यधर्म निरूपणपूर्वकं येनकेनापिस्ववर्णविरुद्धधर्माचरणेतस्य एतादृशाकालमरणादि रूपानर्थहेतुत्वो- त्या प्रकृते तादृशविरुद्धधर्माचरणरतस्य कस्याप्यम्वेषणेनत द्दण्डनेस तिमृतबालकस्यपुनरुज्जीवनोक्तिः ॥ २ ॥ तथा तु करुणं तस्य द्विजस्य परिदेवनम् || शुश्राव राघवः सर्वे दुःखशोकसमन्वितम् ॥ १ ॥ तु रामस्य दुष्कृतमित्यादि ॥ १० ॥ त्वं राजन्नित्या- | इत्यत्राह - राजदोषैरित्यादि ॥ १६ ॥ अयुक्तानि दिना आभिमुख्येन वादः ॥ ११ ॥ सुखी भवेत्यादि- अनुचितकृत्यानि | न च रक्षास्ति अनुचितकृत्यनि- व्ययोक्तिः ॥ १२ ॥ उषिताः स्म । एतावत्काल वारणं यदा नास्ति तदैव कालकृतं भयं नान्यथेत्य मिति शेषः ॥ १३ ॥ तव वशे राज्ये नोस्माकं स्वल्प- ॥ १७ ॥ सुव्यक्तमिति तस्मादेव ह्ययमकालवधः मपि सुखं न ॥ १४ ॥ अन्तं करोतीत्यन्तकरणं । ॥ १८ ॥ राजानमुपरुध्य ॥ १९ ॥ इति श्रीगोविन्द- कर्तरि ल्युट् | बालान्तकरणं राममासाद्य महात्मना- राजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने मिक्ष्वाकूणां विषयः संप्रत्यनाथो जातः । रक्षकसुरा उत्तरकाण्डव्याख्याने त्रिसप्ततितमः सर्गः ॥ ७३ ॥ जरहितो जात इत्यर्थः ॥ १५ ॥ कथमित्थं कथ्यत स० बालाहत्याप्रयुक्तोपायातां ब्राह्मीचब्रह्माचब्रह्माणौ तद्धननंब्रह्महत्या | तांसमुपेत्यस्थितस्त्वं सुखीभव | दुःखस्यैव सुख मिति संतापोक्तिः ॥ १२ ॥ स० सुखमुषिताः स्म । एतावत्पर्यन्तं ॥ १३ ॥ स० यस्मात् हेराम तववशेस्थितानस्मानुद्दिश्य इदमेकं बालकमरणं पतितं देवादितिवयं कालस्यवशमापन्नाः | सर्वस्वः पुत्रएवास्माकमितिनः सुर्खनहीत्यन्वयः ॥ १४ ॥ ति० असद्वृत्ते धर्मेणप्रजापालनहीने ॥ १६ ॥ स० राजानमुपरुध्य प्रतोद्य । उपगूहति आलिलिङ्गे ॥ शि० राजानमुपरुध्य तत्संनि- धिंप्राप्य ॥ १९ ॥ इति त्रिसप्ततितमः सर्गः ॥ ७३ ॥ स० करुणं करुणयतीतितथा । दुःखशोकसमन्वितं श्रोतुर्वक्तुश्चेत्युभयविवक्षया दुःखशोकेयुक्तिः । 'सदुःखेनचसंतप्तः' [ पा० ] १ च झ. ज. सराजन्. २ गट. पतितंतस्मात्तवरामवशेस्थितान् ३ च. छ. बालानांनिधनंध्रुवं. ४ अयं लोकः घं. ज. पाठयोर्डश्य ते.